शा ९,१
ओम् । तत् सवितुर् वृणीमहे । वयं देवस्य भोजनम् । श्रेष्ठं सर्वधातमम् । तुरं भगस्य धीमहि । तत् सवितुर् वरेण्यं । भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥ अदब्धं मन इषिरं चक्षुः । सूर्यो ज्योतिषां श्रेष्ठो दीक्षे मा मा हिंसीः ॥
शा ९,२
यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश् च ह वै श्रेष्ठश् च स्वानां भवति । प्राणो वै ज्येष्ठश् च श्रेष्ठश् च । यो ह वै वसिष्ठां वेद वसिष्ठो ह स्वानां भवति वाग् वै वसिष्ठा । यो ह वै प्रतिष्ठां वेद प्रति ह तिष्ठत्य् अस्मिंश् च लोके ऽमुष्मिंश् च चक्षुर् ह प्रतिष्ठा । यो ह वै सम्पदं वेद सं हास्मै कामाः सम्पद्यन्ते श्रोत्रं ह वा उ सम्पत् । यो ह वा आयतनं वेदायतनो ह स्वानां भवति मनो वा आयतनम् । अथ हेमा देवताः प्रजापतिं पितरम् एत्याब्रुवन् को वै नः श्रेष्ठ इति । स होवाच प्रजापतिर् यस्मिन् व उत्क्रान्ते शरीरं पापिष्ठम् इव मन्यते स वै श्रेष्ठ इति ॥
शा ९,३
सा ह वाग् उच्चक्राम । यथा मूका अवदन्तः प्राणन्तः प्राणेन पश्यन्तश् चक्षुषा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवम् इति ॥
शा ९,४
चक्षुर् होच्चक्राम । यथान्धा अपश्यन्तः प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवम् इति ॥
शा ९,५
श्रोत्रं होच्चक्राम । यथा बधिरा अशृण्वन्तः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तः चक्षुषा ध्यायन्तो मनसैवम् इति ॥
शा ९,६
मनो होच्चक्राम । यथा बाला अमनसः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तः चक्षुषा शृण्वन्तः श्रोत्रेणैवम् इति ॥
शा ९,७
प्राणो होच्चक्राम । ततस् तद् यथेह सैन्धवः सुहयः पड्बीशशङ्कून् सङ्खिदेद् एवम् असौ प्राणान् समखिदत् । ते ह समेत्योचुर् भगवन् मोत्क्रमीर् इति । स होवाच प्राणः किं मे ऽन्नं भविष्यतीति । यत् किञ्चाश्वभ्य इवाशकुनिभ्य इति । किं मे वासो भविष्यतीत्य् आप इति होचुः । तस्माद् वा अयम् अशिष्यन् पुरस्ताच् चोपरिष्टाच् चाद्भिः परिदधाति । लम्भुको हास्य वासो भवत्य् अनग्नो हि भवति । हद् ध स्मैतत् सत्यकामो जाबालो गोश्रुते वैयाघ्रपद्यायोक्त्वोवाच । अप्य् एवं शुष्कस्य स्थाणोः प्रब्रूयाज् जयेरन्न् अस्य शाखाः प्ररोहेयुः पलाशनीति । वनस्पते शतवल्शो विरोहेति द्यां मा लेखीर् अन्तरिक्षं मा मा हिंसीर् इति ह याज्ञवल्क्यः ॥
शा ९,८
अथ यदि महज् जिगमिषेत् त्रिरात्रं दीक्षित्वामावास्यायां सर्वौषदस्य मन्थं दधिमधुभ्याम् उपमन्थ्याग्निम् उपस्समाधाय परिसमुह्य परिस्तीर्य पर्युक्ष्य दक्षिणं जान्व् आच्योत्तरतो ऽग्नेः कंसे मन्थं कृत्वा हुत्वा होमान् मन्थे सम्पातं आनयेत् । ज्येष्ठाय श्रेष्ठाय स्वाहेत्य् अग्नौ हुत्वा मन्थे सम्पातम् आनयेत् । प्रतिष्ठायै स्वाहेत्य् अग्नौ हुत्वा मन्थे सम्पातम् आनयेत् । सम्पदे स्वाहेत्य् अग्नौ हुत्वा मन्थे सम्पातम् आनयेत् । तत् सवितुर् वरेण्यम् इति पच्छः प्राश्य तत् सवितुर् वृणीमह इति पच्छ आचामति महाव्याहृतिभिश् चतुर्थं निर्णिज्य कांस्यं चर्मणि वा स्थण्डिले वा संविशति । स यदि स्त्रियं पश्येत् समृद्धं कर्मेति विद्यात् समृद्धं कर्मेति विद्यात् ॥
इति शाङ्खायनारण्यके नवमो ऽध्यायः ॥