शा ६,१ = कु ४,१
अथ गार्ग्यो बालाकिर् अनूचानः संस्पष्ट आस । सो ऽवसद् उशीनरेषु सो ऽवसन् मत्स्येषु कुरुपञ्चालेषु काशिविदेहेष्विति । स हाजातशत्रुं काश्यम् आव्रज्योवाच - ब्रह्म ते ब्रवाणीति । तं होवाचाजतशत्रुः - सहस्रं दद्मि त इत्येतस्यां वाचि । जनको जनक इति वा उ जना धावन्तीति ॥
शा ६,२ = कु ४,२
आदित्ये बृहत्, चन्द्रमस्यन्नम्, विद्युति सत्यम्, स्तनयित्नौ शब्दः, वायाविन्द्रो वैकुण्ठः, आकाशे पूर्णम्, अग्नौ विषासहिः, अप्सु तेजः । इत्यधिदैवतम् । अताध्यात्मम् - आदर्शे प्रतिरूपः, छायायां द्वितीयः, प्रतिश्रुत्कायाम् असुरिति, शब्दे मृत्युः, स्वप्ने यमः, शरीरे प्रजापतिः, दक्षिणेऽ क्षिणि वाचः, सव्ये ऽक्षिणि सत्यस्य ॥
शा ६,३ = कु ४,३
स होवाच बालाकिः - य एवैष आदित्ये पुरुषस् तम् एवाहम् उपास इति । तं होवाचाजातशत्रुः - मा मैतस्मिन् संवादयिष्ठाः । बृहन् पाण्डरवासा अतिष्ठाः सर्वेषां भूतानां मूर्धेति वा अहम् एतम् उपास इति । स यो हैतम् एवम् उपास्ते ऽतिष्ठाः सर्वेषां भूतानां मूर्धा भवति ॥
शा ६,४ = कु ४,४
स होवाच बालाकिः - य एवैष चन्द्रमसि पुरुषस् तम् एवाहम् उपास इति । तं होवाचाजातशत्रुः - मा मैतस्मिन् संवादयिष्ठाः । अन्नस्यात्मेति वा अहम् एतम् उपास इति । स यो हैतम् एवम् उपास्ते ऽन्नस्यात्मा भवति ॥
शा ६,५ = कु ४,५
स होवाच बालाकिः - य एवैष विद्युति पुरुषस् तम् एवाहम् उपास इति । तं होवाचाजातशत्रुः - मा मैतस्मिन् संवादयिष्ठाः । सत्यस्यात्मेति वा अहम् एतम् उपास इति । स यो हैतम् एवम् उपास्ते सत्यस्यात्मा भवति ॥
शा ६,६ = कु ४,६
स होवाच बालाकिः - य एवैष स्तनयित्नौ पुरुषस् तम् एवाहम् उपास इति । तं होवाचाजातशत्रुः - मा मैतस्मिन् संवादयिष्ठाः । शब्दस्यात्मेति वा अहम् एतम् उपास इति । स यो हैतम् एवम् उपास्ते शब्दस्यात्मा भवति ॥
शा ६,७ = कु ४,७
स होवाच बालाकिः - य एवैष वायौ पुरुषस् तम् एवाहम् उपास इति । तं होवाचाजातशत्रुः - मा मैतस्मिन् संवादयिष्ठाः । इन्द्रो वैकुण्ठो ऽपराजिता सेनेति वा अहम् एतम् उपास इति । स यो हैतम् एवम् उपास्ते जिष्णुर् ह वा अपराजिष्णुर् अन्यतस्त्यजायी भवति ॥
शा ६,८ = कु ४,८
स होवाच बालाकिः - य एवैष आकाशे पुरुषस् तम् एवाहम् उपास इति । तं होवाचाजातशत्रुः - मा मैतस्मिन् संवादयिष्ठाः । पूऋनम् अप्रवर्ति ब्रह्मेति वा अहम् एतम् उपास इति । स यो हैतम् एवम् उपास्ते पूर्यते प्रजया पशुभिर् यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वम् आयुर् एति ॥
शा ६,९ = कु ४,९
स होवाच बालाकिः - य एवैषो ऽग्नौ पुरुषस् तम् एवाहम् उपास इति । तं होवाचाजातशत्रुः - मा मैतस्मिन् संवादयिष्ठाः । विषासहिर् इति वा अहम् एतम् उपास इति । स यो हैतम् एवम् उपास्ते विषासहिर् हैवान्येषु भवति ॥
शा ६,१० = कु ४,१०
स होवाच बालाकिः - य एवैषो ऽप्सु पुरुषस् तम् एवाहम् उपास इति । तं होवाचाजातशत्रुः - मा मैतस्मिन् संवादयिष्ठाः । तेजस आत्मेति वा अहम् एतम् उपास इति । स यो हैतम् एवम् उपास्ते तेजस आत्मा भवति । इत्यधिदैवतम् । अथाध्यात्मम् ॥
शा ६,११ = कु ४,११
स होवाच बालाकिः - य एवैष आदर्शे पुरुषस् तम् एवाहम् उपास इति । तं होवाचाजातशत्रुः - मा मैतस्मिन् संवादयिष्ठाः । प्रतिरूप इति वा अहम् एतम् उपास इति । स यो हैतम् एवम् उपास्ते प्रतिरूपो हैवास्य प्रजायाम् आजायते नाप्रतिरूपः ॥
शा ६,१२ = कु ४,१२
स होवाच बालाकिः - य एवैष च्छायायां पुरुषस् तम् एवाहम् उपास इति । तं होवाचाजातशत्रुः - मा मैतस्मिन् संवादयिष्ठाः । द्वितीयो ऽनपग इति वा अहम् एतम् उपास इति । स यो हैतम् एवम् उपास्ते विन्दते द्वितीयात् । द्वितीयवान् भवति ॥
शा ६,१३ = कु ४,१३
स होवाच बालाकिः - य एवैष प्रतिश्रुत्कायां पुरुषस् तम् एवाहम् उपास इति । तं होवाचाजातशत्रुः - मा मैतस्मिन् संवादयिष्ठाः । असुर् इति वा अहम् एतम् उपास इति । स यो हैतम् एवम् उपास्ते न पुरा कालात् सम्मोहम् एति ॥
शा ६,१४ = कु ४,१४
स होवाच बालाकिः - य एवैष शब्दे पुरुषस् तम् एवाहम् उपास इति । तं होवाचाजातशत्रुः - मा मैतस्मिन् संवादयिष्ठाः । मृत्युर् इति वा अहम् एतम् उपास इति । स यो हैतम् एवम् उपास्ते न पुरा कालात् प्रैति ॥
शा ६,१५ = कु ४,१५
स होवाच बालाकिः - येनैतत् पुरुषः सुप्तः स्वप्नया चरति तमु एवाहम् उपास इति । तं होवाचाजातशत्रुः - मा मैतस्मिन् संवादयिष्ठाः । यमो राजेति वा अहम् एतम् उपास इति । स यो हैतम् एवम् उपास्ते सर्वं हास्मा इदं श्रैष्ठ्याय यम्यते ॥
शा ६,१६ = कु ४,१६
स होवाच बालाकिः - य एवैष शरीरे पुरुषस् तम् एवाहम् उपास इति । तं होवाचाजातशत्रुः - मा मैतस्मिन् संवादयिष्ठाः । प्रजापतिर् इति वा अहम् एतम् उपास इति । स यो हैतम् एवम् उपास्ते प्रजायते प्रजया पश्भिर् यशसा ब्रह्मवरचसेम स्वर्गेण लोकेन सर्वम् आयुर् एति ॥
शा ६,१७ = कु ४,१७
स होवाच बालाकिः - य एवैष दक्षिणे ऽक्षिणि पुरुषस् तम् एवाहम् उपास इति । तं होवाचाजातशत्रुः - मा मैतस्मिन् संवादयिष्ठाः । वाच आत्माग्नेर् आत्मा ज्योतिष आत्मेति वा अहम् एतम् उपास इति । स यो हैतम् एवम् उपास्ते एतेषां सर्वेषाम् आत्मा भवति ॥
शा ६,१८ = कु ४,१८
स होवाच बालाकिः - य एवैष सव्ये ऽक्षिणि पुरुषस् तम् एवाहम् उपास इति । तं होवाचाजातशत्रुः - मा मैतस्मिन् संवादयिष्ठाः । सत्यस्यात्म् विद्युत आत्मा तेजस आत्मेति वा अहम् एतम् उपास इति । स यो हैतम् एवम् उपास्ते एतेषां सर्वेषाम् आत्मा भवति ॥
शा ६,१९ = कु ४,१९
तत उ ह बालाकिस् तूष्णीम् आस । तं होवाचाजातशत्रुः - एतावान् नु बालाका३ इति । एतावद् इति होवाच बालाकिः । तं होवाचाजातशत्रुः - मृषा वै खलु मा संवादयिष्ठा ब्रह्म ते ब्रवाणीति । स होवाच - यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत् कर्म स वै वेदितव्य इति । तत उ ह बालाकिः समित्पाणिः प्रतिचक्रम उपायानीति । तं होवाचाजातशत्रुः - प्रतिलोमरूपम् एव तन् मन्ये यत् क्षत्रियो ब्राह्मणम् उपनयेत । एहि व्येव त्वा ज्ञपयिष्यामीति । तं ह पाणावभिपद्य प्रवव्राज । तौ ह सुप्तं पुरुषम् आजग्मतुः । तं हाजातशत्रुर् आमन्त्रयाञ्चक्रे - बृहन् पाण्डरवासः सोम राजन्न् इति । स उ ह शिश्य एव । तत् उ हैनं यष्ट्या विचिक्षेप । स तत एव समुत्तस्थौ । तं होवाचाजातशत्रुः - क्वैष एतद् बालाके पुरुषो ऽशयिष्ट, यत्रैतद् अभूत्, यत एतद् आगाद् इति । हिता नम पुरुषस्य नाड्यो हृदयात् पुरीततम् अभिप्रतन्वन्ति तद् यथा सहस्रधा केशो विपाटितस्त्वावद् अण्व्यः ।
पिङ्गलस्याणिम्न्यस् तिष्ठन्ति शुक्लस्य कृष्णस्य पीतस्य लोहितस्य च । तासु तदा भवति यदा सुप्तः स्वप्नं न कञ्चन पश्यति ॥
शा ६,२० = कु ४,२०
अथास्मिन् प्राण एकैकधा भवति । तद् एनं वाक् सर्वैर् नामभिः सहाप्येति । चक्षुः सर्वै रूपैः सहाप्येति । श्रोत्रं सर्वैः शब्दैः सहाप्येति । मनः सर्वैर् ध्यातैः सहाप्येति । स यद प्रतिबुध्यते, यथाग्नेर् ज्वलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन् एवम् एवैतस्माद् आत्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवाः देवेभ्यो लोकाः । स एष प्राण एव प्रज्ञात्मेदं शरीरम् अत्मनम् अनुप्रविष्ट आ लोमभ्य आ नखेभ्यः । तद् यथा क्षुरः क्षुरधाने वोपहितो विश्वम्भरो वा विश्वम्बरकुलाय एवम् एवैष प्रज्ञात्मेदं शरीरम् आत्मानम् अनुप्रविष्ट आ लोमभ्य आ नखेभ्यः । तम् एतम् आत्मानम् एत आत्मानो ऽन्ववस्यन्ते यथा श्रेष्ठिनं स्वाः । तद् यथ श्रेष्ठी स्वैर् भुङ्क्ते यथा वा स्वाः श्रेष्ठिनं भुञ्जन्ति । एवम् एवैष प्रज्ञात्मैतैर् आत्मभिर् भुङ्क्ते । एवम् एवैत आत्मान एतम् आत्मानं भुञ्जन्ति । स यावद् ध वा इन्द्र एतम् आत्मानं न विजज्ञे तावद् एनम् असुरा अभिबभूवुः । स यदा विजज्ञे ऽथ हत्वासुरान् विजित्य सर्वेषां च देवानां श्रैष्ठ्यं स्वाराज्यम् आधिपत्यं पर्यैत् ।
तथौ एवैवं विद्वान् सर्वान् पाप्मनो ऽपहत्य् सर्वेषां च भूतानाम् श्रैष्ठ्यं स्वाराज्य आधिपत्यं पर्येति । य एवं वेद य एवं वेद ॥
इति शाङ्खायनारण्यके षष्ठो ऽध्यायः ॥