शा ४,१ = कु २,१
प्राणो ब्रह्मेति ह स्माह कौषीतकिः । तस्य वा एतस्य प्राणस्य ब्रह्मणो मनो दूतम्, चक्षुर् गोप्तृ, श्रोत्रं श्रावयितृ, वाक् परिवेष्ट्री । स यो ह वा एतस्य प्राणस्य ब्रह्मणो मनो दूतं वेद दूतवान् भवति । यश् चक्षुर् गोप्तृ गोप्तृमान् भवति । यः श्रोत्रं श्रावयितृ संश्रावयितृमान् भवति । यो वाचं परिवेष्ट्रीं परिवेष्ट्रीमान् भवति । तस्मै वा एतस्मै ब्रह्मण एता देवता अयाचमानाय बलिं हरन्ति । एवं हैवास्मै सर्वाणि भूतान्ययाचमानायैव बलिं हरन्ति य एवं वेद । तस्योपनिषन् न याचेद् इति । तद् यथा ग्रामं भिक्षित्वालब्ध्वुपविशेन् नाहम् अतो दत्तम् अश्नीयाम् इति । त एवैनम् उपमन्त्रयन्ते ये पुरस्तात् प्रत्याचक्षीरन् । एष धर्मो ऽयाचतो भवति । अन्नदास् त्वेवैनम् उपमन्त्रयन्ते - ददाम त इति ॥
शा ४,२ = कु २,२
प्राणो ब्रह्मेति ह स्माह पैङ्ग्यः । तस्य वा एतस्य प्राणस्य ब्रह्मणो वाक् परस्ताच् चक्षुर् आरुन्धते । चक्षुः परस्तात्च् छ्रोत्रं आरुन्धते । श्रोत्रं परस्तान् मन आरुन्धथे । मनः परस्तात् प्राण आरुन्धते । तस्मै वा एतस्मै प्राणाय ब्रह्मण एता देवता अयाचमानाय बलिं हरन्ति । एवं हैवास्मै सर्वाणि भूतान्ययाचमानायैव बलिं हरन्ति । य एवं वेद तस्योपनिषन् न याचेद् इति । तद् यथा ग्रामं भिक्षित्वालब्ध्वुपविशेन् नाहम् अतो दत्तम् अश्नीयाम् इति । त एवैनम् उपमन्त्रयन्ते ये पुरस्तात् प्रत्याचक्षीरन् । एष धर्मो ऽयाचतो भवति । अन्नदास् त्वेवैनम् उपमन्त्रयन्ते - ददाम त इति ॥
शा ४,३ = कु २,३
अथात एकधनावरोधनम् । य एकधनम् अभिध्यायात् पौर्णमास्यां वामावास्यायां वा शुद्धपक्षे वा पुण्ये नक्षत्र एतेषाम् एकस्मिन् पर्वण्यग्निम् उपसमाधाय परिसमुह्य परिस्तीर्य पर्युक्ष्य दक्षिणं आन्वाच्य स्रुवेणायहुतीर् जुहोति । वाङ् नाम देवतावरोधिनी सा मे ऽमुष्माद् इदम् अवरुन्ध्यात् तस्यै स्वाहा । प्राणो नाम देवतावरोधिनी सा मे ऽमुष्माद् इदम् अवरुन्ध्यात् तस्यै स्वाहा । श्रोत्रं नाम देवतावरोधिनी सा मे ऽमुष्माद् इदम् अवरुन्ध्यात् तस्यै स्वाहा । मनो नाम देवतावरोधिनी सा मे ऽमुष्माद् इदम् अवरुन्ध्यात् तस्यै स्वाहा । प्रज्ञा नाम देवतावरोधिनी सा मे ऽमुष्माद् इदम् अवरुन्ध्यात् तस्यै स्वाहा । अथ धूमगन्धं प्रजिघ्रायाज्यलेपनेनाङ्गान्यनुविमृज्य वाचंयमो ऽभिप्रव्रज्यार्थं +ब्रूयाद् दूतं वा प्रहिणुयात् । लभते हैव ॥
शा ४,४ = कु २,४
अथातो दैवः स्मरः । यस्य प्रियो बुभूषेद् यस्यै येषां वा यासां वैतेषाम् एवैकस्मिन् पर्वण्येतयैवावृतैता आज्याहुतीर् जुहोति । वाचं ते मयि जुहोम्यसौ स्वाहा । प्राणं ते मयि जुहोम्यसौ स्वाहा । मयि चक्षुस् ते जुहोम्यसौ स्वाहा । श्रोत्रं ते मयि जुहोम्यसौ स्वाहा । मनस् ते मयि जुहोम्यसौ स्वाहा । प्रज्ञां ते मयि जुहोम्यसौ स्वाहेति । अथ धूमगन्धं प्रजिघ्रायाज्यलेपनेनाङ्गान्यनुविमृज्य वाचंयमो ऽभिप्रव्रज्य् संस्पर्शं जिगमिषेत् । अभिवाताद् वा तिष्ठेत् सम्भाषमाणः । प्रियो हैव भवति । स्मरते हैवास्य ॥
शा ४,५ = कु २,५
अथातः सांयमनं प्रातर्दनम् । आन्तरम् अग्निहोत्रम् इत्याचक्षते । यावद् वै पुरुषो भाषते न तावत् प्राणितुं शक्नोति । प्राणं तदा वाचि जुहोति । यावद् वै पुरुषः प्राणिति न तावद् भाषितुं शक्नोति । वाचं तदा प्राणे जुहोति । एते अनन्ते अमृते आहुती जाग्रच्च स्वपंश्च सन्ततं जुहोति । अथ या अन्या आहुतयो ऽन्तवत्यस् ताः कर्ममय्यो हि भवन्ति । तद् ध स्मैतत् पूर्वे विद्वांसो ऽग्निहोत्रं न जुहवाञ्चक्रुः ॥
शा ४,६ = कु २,६
उक्थं ब्रह्मेति ह स्माह शुष्कभृङ्गारः । तद् ऋग् इत्युपासीत । सर्वाणि हास्मै भूतनि श्रैष्ठ्यायाभ्यच्यन्ते । तद् यजुर् इत्युपासीत । सर्वाणि हास्मै भूतानि श्रैष्ठ्याय युज्यन्ते । तत् साम इत्युपासीत । सर्वाणि हास्मै भूतानि श्रैष्ठ्याय सन्नमन्ते । तच् छ्रीर् इत्युपासीत् । तद् यश इत्युपासीत । तत् तेज इत्युपासीत । तद् यथैतच् छ्रीमत्तमं यशस्वितमं तेजस्वितमम् इति शस्त्रेषु भवति । एवं हैव स सर्वेषु भूतेषु श्रीमत्तमो यशस्वितमस् तेजसितमो भवति य एवं वेद । तद् एतद् ऐष्टिकं कर्म यम् आत्मानम् अध्वर्युः संस्करोति । तस्मिन् यजुर्मयं प्रवयति । यजुर्मय ऋङ्मयं होता । ऋङ्मये साममयम् उद्गाता । स एष त्रय्यै विद्याया आत्मा । एष उ एवैतद् इन्द्रस्यात्मा भवति य एवं वेद ॥
शा ४,७ = कु २,७
अथातः सर्वजितः कौषीतकेस् त्रीण्युपासनानि भवन्ति । सर्वजिद् ध स्म कौषीतकिर् उद्यन्तम् आदित्यम् उपतिष्ठते यज्ञोपवीतं कृत्वोदकम् आनीय त्रिः प्रसिच्योदकपात्रम् । वर्गो ऽसि पाप्मानं मे वृङ्धीति । एतयैवावृता मध्ये सन्तम् । उद्वर्गो ऽसि पाप्मानं म उद्वृङ्धीति । एतयैवावृतास्तं यन्तम् । संवर्गो ऽसि पाप्मानं मे संवृङ्धीति । तद् यद् अहोरात्राभ्यां पापं करोति सं तद् वृङ्क्ते । तथो एवैवं विद्वान् एतयैवावृतादित्यम् उपतिष्ठते । यद् अहोरात्राभ्यां पापं करोति सं तद् वृङ्क्ते ॥
शा ४,८ = कु २,८
अथ मासिमास्यावास्यायां वृत्तायां पश्चाच् चन्द्रमसं दृश्यमानम् उपतिष्ठेतैतयैवावृता । हरिततृणे वा प्रत्यस्य - यन् मे सुसीमं हृदयं दिवि चन्द्रमसि श्रितम् । मन्ये ऽहं मां तद् विद्वांसं माहं पुत्र्यम् अघं रुदम् ॥ इति । न ह्यस्मात् पूर्वा प्रजा प्रैतीति नु जातपुत्रस्य । अथाजातपुत्रस्य - आप्यायस्व समेतु +ते, सं ते पयांसि सम् उ यन्तु वाजाः, यम् आदित्या अंशुम् आप्याययन्तीत्येतास् तिस्र ऋचो जपित्वा - मास्माकं प्राणेन प्रजया पशुभिर् आप्याययिष्ठाः । योऽ स्मान् द्वेष्टि यं च वयं द्विष्मस् तस्य प्राणेन प्रजया पशुभिर् आप्याययस्वेत्यैन्द्रीम् आवृतम् आवर्त आदित्यस्यावृतम् अन्वावर्त इति दक्षिणं बाहुम् अन्वावर्तते ॥
शा ४,९ = कु २,९
अथ पौर्णमास्यां पुरस्ताच् चन्द्रमसं दृश्यमानम् उपतिष्ठैतयैवावृता । सोमो राजासि विचक्षणः पञ्चमुखो ऽसि प्रजापतिः । ब्राह्मणस् त एकं मुखं तेन मुखेन राज्ञो ऽत्सि । तेन मुखेन मां अन्नादं कुरु । राजा त एकं मुखं तेन मुखेन विशो ऽत्सि । तेन मुखेन मां अन्नादं कुरु । श्येनस् त एकं मुखं तेन मुखेन पक्षिणो ऽत्सि । तेन मुखेन मां अन्नादं कुरु । अग्निष् ट एकं मुखं तेन मुखेनेमं लोकम् अत्सि । तेन मुखेन मां अन्नादं कुरु । मास्माकं प्राणेन प्रजया पशुभिर् अपक्षेष्ठाः । योऽ स्मान् द्वेष्टि यं च वयं द्विष्मस् तस्य प्राणेन प्रजया पशुभिर् अपक्षीयस्वेति दैवीम् आवृतम् आवर्त आदित्यस्यावृतम् अन्वावर्त इति दक्षिणं बाहुम् अन्वावर्तते ॥
शा ४,१० = कु २,१०
अथ संवेक्ष्यन् जायायै हृदयम् अभि मृशेत् - यत् ते सुसीमे हृदयं श्रितम् अन्तः प्रजापतौ । तेनामृतत्वस्येशाने मा त्वं पुत्र्यम् अघं नि गा इति ॥ न ह्यस्याः पूर्वा प्रजा प्रैतीति ॥
शा ४,११ = कु २,११
अथ प्रोष्यायन् पुत्रस्य मूर्धनम् अभिजिघ्रेत् - अङ्गाद् अङ्गात् सम्भवसि हृदयाद् अधि जायसे । आत्मा वै पुत्रनामासि स जीव शरदः शतम् इति नामास्य दधाति । अश्मा भव परशुर् भव, हिरण्यम् अस्तृतं भव । तेजो वै पुत्रानामासि स जीव शरदः शतम् इति नामास्य गृह्णाति । अथैनं परिगृह्णाति । येन प्रजापतिः प्रजाः पर्यगृह्णात् तद् अरिष्ट्यैतेन त्वा परिगृह्णामि, असाव् इति । अथास्य दक्षिणे कर्णे जपति - अस्मे प्रयन्धि मघवन्न् ऋजीषिन् इति । इन्द्रं श्रेष्ठानि द्रविणानि धेहीति सव्ये । मा भेत्था मा व्यथिष्ठाः शतं शरद आयुषः । जीवस्व पुत्र ते नाम्ना मूर्धानम् अभिजिघ्रामीति त्रिर् अस्य मूर्दानम् अभिजिघ्रेत् । गवां त्वां हिङ्कारेणाभिहिङ्करोमीति त्रिर् अस्य मूर्धानम् अभिहिङ्करोति ॥
शा ४,१२ = कु २,१२
अथतो दैवः परिमरः । एतद् वै ब्रह्म दीप्यते यद् अग्निर् ज्वलति । अथैतन् म्रियते यन् न ज्वलति । तस्यादित्यम् एव तेजो गच्छति वायुं प्राणः । एतद् वै ब्रह्म दीप्यते यद् आदित्यो दृश्यते । अथैतन् म्रियते यन् न दृश्यते । तस्य चन्द्रमसम् एव तेजो गच्छति वायुं प्राणः । एतद् वै ब्रह्म दीप्यते यच् चन्द्रमा दृश्यते । अथैतन् म्रियते यन् न दृश्यते । तस्य विद्युतम् एव तेजो गच्छति वायुं प्राणः । एतद् वै ब्रह्म दीप्यते यद् विद्युद् विद्योतते । अथैतन् म्रियते यन् न विद्योतते । तस्यादिश एव तेजो गच्छति वायुं प्राणः । ता वा एता सर्वा देवता वायुम् एव प्रविश्य वायौ मृत्वा न मृच्छन्ते । तस्माद् एव पुनरुदीरते । इत्यधिदैवम् । अथाध्यात्मम् ॥
शा ४,१३ = कु २,१३
एतद् वै ब्रह्म दीप्यते यद् वाचा वदति । अथैतन् म्रियते यन् न वदति । तस्य चक्षुर् एव तेजो गच्छति । प्राणं प्राणः । एतद् वै ब्रह्म दीप्यते यच् चक्षुषा पश्यति । अथैतन् म्रियते यन् न पश्यति । तस्य श्रोत्रम् एव तेजो गच्छति । प्राणं प्राणः । एतद् वै ब्रह्म दीप्यते यच् छ्रोत्रेण शृणोति । अथैतन् म्रियते यन् न शृणोति । तस्य मन एव तेजो गच्छति । प्राणं प्राणः । एतद् वै ब्रह्म दीप्यते यन् मनसा ध्यायति । अथैतन् म्रियते यन् न ध्यायति । तस्य प्राणम् एव तेजो गच्छति । प्राणं प्राणः । ता वा एता सर्वा देवता प्राणम् एव प्रविश्य प्राणे मृत्वा न मृच्छन्ते । तस्माद् एव पुनर् उदीरते । तद् यद् इह वा एवं विद्वांसम् उभौ पर्वताव् अभिप्रवर्तेयातां दक्षिणश्चोत्तरश् च तुस्तूर्षमाणौ न हैनं स्तृण्वीयाताम् । अथ य एनं द्विषन्ति यांश् च स्वयं द्वेष्टि त एवैनं परिम्रियन्ते ॥
शा ४,१४ = कु २,१४
अथातो निःश्रेयसादानम् । एता ह वै देवता अहंश्रेयसे विविदमाना अस्माच् छरीराद् उच्चक्रमुः । तद् ध पपात, शुष्कं दारुभूतं शिश्ये । अथैनद् वाक् प्रविवेश । तद् वाचा वदच् छिश्य एव । अथैनच् चक्षुः प्रविवेश । तद् वाचा वदच् चक्षुषा पश्यच् छिश्य एव । अथैनच् छ्रोत्रं प्रविवेश । तद् वाचा वदच् चक्षुषा पश्यच् छ्रोत्रेण शृण्वच् छिश्य एव । अथैनन् मनः प्रविवेश । तद् वाचा वदच् चक्षुषा पश्यच् छ्रोत्रेण शृण्वन् मनसा ध्यायच् छिश्य एव । अथैनत् प्राणः प्रविवेश । तत् तत एव समुत्तस्थौ । ता वा एता सर्वा देवता प्राणे निःश्रेयसं विदित्वा प्राणम् एव प्रज्ञात्मानम् अभिसम्भूय +सहैवैतैः सर्वैर् अस्माच् छरीराद् उच्चक्रमुः । ते वायुप्रतिष्ठा आकाशात्मानः स्वर् ईयुः । तथो एवैवं विद्वान् प्राणे निःश्रेयसं विदित्वा प्राणम् एव प्रज्ञात्मानम् अभिसम्भूय +सहैवैतैः सर्वैर् अस्माच् छरीराद् उत्क्रामति । स वायुप्रतिष्ठ आकाशात्मा स्वर् एति । स तद् गच्छति यत्रैते देवाः । तत् प्राप्य यद् अमृता देवाः । तद् अमृतो भवति य एवं वेद ॥
शा ४,१५ = कु २,१५
अथातः पितापुत्रीयं सम्प्रदानम् इति चाचक्षते । पिता पुत्रं प्रेष्यन्न् आह्वयति । नवैस् तृणैर् अगारं संस्तीर्याग्निम् उपसमाधायोदकुम्भं सपात्रम् उपनिधायाहतेन वाससा सम्प्रच्छन्नः पिता शेते । एत्य पुत्र उपरिष्टाद् अभिनिपद्यत इन्द्रियैर् इन्द्रियाणि संस्पृश्य । अपि वास्मा आसीनायाभिमुखायैव सम्प्रदद्यात् । अथास्मै सम्प्रयच्छति । वाचं मे त्वयि दधानीति पिता । वाचं ते मयि दध इति पुत्रः । प्राणं मे त्वयि दधानीति पिता । प्राणं ते मयि दध इति पुत्रः । चक्षुर् मे त्वयि दधानीति पिता । चक्षुस् ते मयि दध इति पुत्रः । श्रोत्रं मे त्वयि दधानीति पिता । श्रोत्रं ते मयि दध इति पुत्रः । अन्नरसान् मे त्वयि दधानीति पिता । अन्नरसांस् ते मयि दध इति पुत्रः । कर्माणि मे त्वयि दधानीति
पिता । कर्माणि ते मयि दध इति पुत्रः । सुखदुःखे मे त्वयि दधानीति पिता । सुखदुःखे ते मयि दध इति पुत्रः । आनन्दं रतिं प्रजातिं मे त्वयि दधानीति पिता । आनन्दं रतिं प्रजातिं ते मयि दध इति पुत्रः । इत्यां मे त्वयि दधानीति पिता । इत्यां ते मयि दध इति पुत्रः । धियो विज्ञातव्यं कामान् मे त्वयि दधानीति पिता । धियो विज्ञातव्यं कामांस् ते मयि दध इति पुत्रः । मनो मे त्वयि दधानीति पिता । मनस् ते मयि दध इति पुत्रः । प्रज्ञां मे त्वयि दधानीति पिता । प्रज्ञां ते मयि दध इति पुत्रः । यद् उ वा उपाभिगदः स्यात् समासेनैव ब्रूयात् । प्राणान् मे त्वयि दधानीति पिता । प्राणांस् ते मयि दध इति
पुत्रः । अथ दक्षिणावृद् उपनिष्क्रामति । तं पित्रानुमन्त्रयते । यशो ब्रह्मवर्चसं कीर्तिस् त्वा जुषताम् इति । अथेतरः सव्यम् अन्वंसम् अभ्यवेक्षते । पाणिनान्तर्धाय वसनान्तेन वा प्रच्छाद्य स्वर्गाṁल् लोकान् कामान् आप्नुहीति । स यद्युगदः स्यात् पुत्रस्यैश्वर्ये पिता वसेत् । परि वा व्रजेत् । यद्यु वै प्रेयात् तथैवैनं समापयेयुः । यथा समापयितव्यो भवति यथा समापयितव्यो भवति ॥
इति शाङ्खायनारण्यके चतुर्थो ऽध्यायः ॥