शा ३,१ = कु १,१
चित्रो ह वै गाङ्ग्यायनिर् यक्ष्यमाण आरुणिं वव्रे । स ह पुत्रं श्वेतकेतुं प्रजिघाय याजयेति । तं हाभ्यागतं पप्रच्छ - गोतमस्य पुत्र, अस्ति संवृतं लोके यस्मिन् मा धास्यसि, अन्यतमो वाध्वा, तस्य मा लोके धास्यसीति । स होवाच - नाहम् एतद् वेद हन्ताचार्यं पृच्छानीति । स ह पितरम् आसाद्य पप्रच्छ - इतीति माप्राक्षीत् कथं प्रतिब्रवाणीति । स होवाच - अहम् अप्येतन् न वेद । सदस्येव वयं स्वाध्यायम् अधीत्य हरामहे यन् नः परे ददति । एह्युभौ गमिष्याव इति । स हि समित्पाणिश् चित्रं गाङ्ग्यायनिं प्रतिचक्रम उपायानीति । तं होवाच - ब्रह्मार्हो ऽसि गोतम यो न मानम् उपागाः । एहि व्येव त्वा ज्ञपयिष्यामीति ॥
शा ३,२ = कु १,२
स होवाच ये वै के चास्माल् लोकात् प्रयन्ति चन्द्रमसम् एव ते सर्वं गच्छन्ति । तेषां प्राणैः पूर्वपक्ष आप्यायते । तान् अपरपक्षेण प्रजनयति । एतद् वै स्वर्गस्य लोकस्य द्वारं यच् चन्द्रमाः । तं यः प्रत्याह तम् अतिष्र्जते । अथ यो न प्रत्याह तम् इह वृष्टिर् भूत्वा वर्षति । स इह कीटो वा पतङ्गो वा मत्स्यो वा शकुनिर् वा सिंहो वा वराहो वा परश्वा वा शार्दूलो वा पुरुषो वान्यो वा तेषु तेषु स्थनेषु प्रत्याजायते यथाकर्म यथाविद्यम् । तम् आगतं पृच्छति, को ऽसीति । तं प्रतिब्रूयात् - विचक्षणाद् ऋतवो रेत आभृतं पञ्चदशात् प्रसूतात् पित्र्यावतः । तन् मा पुंसि कर्तर्येरयध्वं पुंसा कर्त्रा मातरि मासिषिञ्च ॥ स जायमान उपजायमानो द्वादशोत्रयोदशोपमासः । द्वादशत्रयोदशेन पित्रा सं तद् विदे ऽहं प्रति तद् विदे ऽहं तन् म ऋतवो ऽमृत्यव आरम्भध्वम् ॥ तेन सत्येन तेन तपसा ऋतुर् अस्मि आर्तवो ऽस्मि । को ऽसि त्वम् अस्मीति तम् अतिसृजते ॥
शा ३,३ = कु १,३
स एतं देवयानं पन्थानम् आपद्याग्निलोकम् आगच्छति । स वायुलोकम् । स वरुणलोकम् । स इन्द्रलोकम् । स प्रजापतिलोकम् । स ब्रह्मलोकम् । तस्य वा एतस्य ब्रह्मलोकस्यारोहदः, मुहूर्ता यष्टिहाः, विजरा नदी, इल्यो वृक्षः, सालज्यं संस्थनम्, अपराजितम् आयतनम्, इन्द्रप्रजापती द्वारगोपौ, विभु प्रमितम्, विचक्षणासन्दी, अमितौजाः पर्यङ्कः, प्रिया च मानसी, प्रतिरूपा च चाक्षुषी, पुष्पाण्यादायावयतो वै च जगानि, अम्बाश् चाम्बायवीश् चाप्सरसः, अम्बया नद्यः । तम् इत्थंविद् आगच्छति । तं ब्रह्माह - अभिधाव त मम यशसा । विजरां वा अयं नदीं प्रापत् । न वा अयं जरयिष्यतीति ॥
शा ३,४ = कु १,४
तं पञ्च शतान्यप्सरसां प्रतियन्ति - शतं फलहस्ताः, शतम् आञ्जनहस्ताः, शतं माल्यहस्ताः, शतं वासोहस्ताः, शतं चूऋनहस्ताः । तं ब्रह्मालङ्कारेणालङ्कुर्वन्ति । स ब्रह्मआलङ्कारेणालङ्कृतो ब्रह्म विद्वान् ब्रह्माभिप्रैति । स आगच्छत्यारं ह्रदम् । तं मनसात्येति । तम् इत्वा सम्प्रतिविदो मज्जन्ति । स आगच्छति मुहूर्तान् यष्टिहान् । ते ऽस्माद् अपद्रवन्ति । स आगच्छति विजरां नदीम् । तां मनसैवात्येति । तत् सुकृतदुष्कृते धुनुवाते । तस्य प्रिया ज्ञातयः सुकृतम् उपयन्ति, अप्रिया दुष्कृतम् । तद् यथा रथेन धावयन् रथचक्रे पर्यवेक्षेत । एवम् आहोरात्रे पर्यवेक्षेत । एवं सुकृतदुष्कृते सर्वाणि च द्वन्द्वानि । स एष विसुकृतो दुष्कृतो ब्रह्म विद्वान् ब्रह्मैवाभिप्रैति ॥
शा ३,५ = कु १,५
स आगच्छतील्यं वृक्षम् । तं ब्रह्मगन्धः प्रविशति । स आगच्छति सालज्यं संस्थानम् । तं ब्रह्मरसः प्रविशति । स आगच्छत्यपराजितम् आयतनम् । तं ब्रह्मयशः प्रविशति । स आचच्छतीन्द्रप्रजापती द्वारगोपौ । ताव् अस्माद् अपद्रवतः । स आगच्छति विभु प्रमितम् । तं ब्रह्मतेजः प्रविशति । स आगच्छति विचक्षनाम् आसन्दीम् । बृहद्रथन्तरे सामनी पूर्वौ पादौ । श्यैतनौधसे चापरौ । वैरूपवैराजे अनूच्ये । शाक्वररैवते तिरश्ची । सा प्रज्ञा प्रज्ञया हि विपश्यति । स आगच्छत्यमितौजसं पर्यङ्कम् । स प्राणः । तस्य भूतं च भविष्यच् च पूर्वौ पादौ । श्रीश् चेरा चापरौ । भद्रयज्ञायज्ञीये शीर्षण्ये । बृहद्रथन्तरे अनूच्ये । ऋचश् च सामानि च प्राचीनातानानि । यजूंषि तिरश्चीनानि । सोमांशवः उपस्तरणम् । उद्गीथो ऽपश्रयः । श्रीर् उपबर्हणम् । तस्मिन् ब्रह्मास्ते । तम् इत्थंविद् पादेनैवाग्र आरोहति । तं ब्रह्मा पृच्छति । - को ऽसीति । तं प्रतिब्रूयात्
॥
शा ३,६ = कु १,६
ऋतुर् अस्मि । आर्तवो ऽस्मि । आकाशाद् योनेः सम्भूतो भार्यायै रेतः, संवत्सरस्य तेजोभूतस्य भूतस्यात्मा । भूतस्य भूतस्य त्वम् आत्मासि । यस् त्वम् असि सो ऽहम् अस्मि । तम् आह - को ऽहम् अस्मीति । सत्यम् इति ब्रूयात् । किं तद् यत्सत्यम् इति । यद् अन्यद् देवेभ्यश्च प्राणेभ्यश् च तत् सत् । अथ यद् देवाश् च प्राणाश् च तत् सत्यम् । तद् एकया वाचाभिव्याह्रियते सत्त्यम् इति । एतावद् इदं सर्वम् । इदं सर्वम् अस्मीत्येवैनं तद् आह । तद् एतच् छ्लोकेनाभ्युक्तम् ॥
शा ३,७ = कु १,७
यजूदरः सामशिरा असाव् ऋङ्मूर्त्तिर् अव्ययः । स ब्रह्मेति विज्ञेय ऋषिर् ब्रह्ममयो महान् ॥ इति । तद् आह - केन मे पौंस्नानि नामान्याप्नोषीति । प्राणेनेति ब्रूयात् । केन नपुंसकानीति । मनसेति । केन स्त्रीनामानीति । वाचेति । केन गन्धान् इति । घ्राणेनेति । केन रूपाणीति । चक्षुषेति । केन शब्दान् इति । श्रोत्रेणेति । केनान्नरसान् इति । जिह्वयेति । केन कर्माणीति । हस्ताभ्याम् इति । केन सुखदुःखे इति । शरीरेणेति । केनानन्दं रतिं प्रजातिम् इति । उपस्थेनेति । केनेत्या इति । पादाभ्याम् इति । केन धियो विज्नातव्यं कामान् इति । प्रज्ञयैवेति ब्रूयात् ।
तम् आह - आपो वै खलु मे लोको ऽयं ते ऽसाव् इति । सा या ब्रह्मणो जितिर् या व्यष्टिः, तां जितिं जयति, तां व्यष्टिं व्यश्नुते य एवं वेद य एवं वेद ॥
इति शाङ्खायनारण्यके तृतीयो ऽध्यायः ॥