शा २,१
हिङ्कारेण प्रतिपद्यत एतद् उक्थम् । प्राणो वै हिङ्कारः प्राणेनैवैतद् उक्थं प्रतिपद्यते । अथो ऊर्ग् वै रसो हिङ्कार ऊर्जम् एव तद् रसम् एतस्मिन् उक्थे दधाति । अथो अमृतत्वं वै हिङ्कारो ऽमृतत्वम् एव तद् आत्मन् धत्ते । राजनं पृष्ठं भवति । एतद् वै प्रत्यक्षं साम यद् राजनम् । तद् एनत् स्वेन साम्ना समर्धयति । तद् अनिरुक्तासु भवति । अनिरुक्त उ वै प्रजापतिः । तत् प्राजापत्यं रूपम् । कवतीषु स्याद् इति हैक आहुः । को वै प्रजापतिः । तत् प्राजापत्यं रूपम् । अथैतं तूष्णींशंसम् उपांशु शंसति । वाग् वा एतद् अहर् मनस् तूष्णींशंसः । मनसैव तद् वाचं समर्धयति । तद् इद् आस भुवनेषु ज्येष्ठम् इति स्तोत्रियस्तृचः । वावृधानः शवसा भूर्योजा इति वृधवन् महद्वत् । महद्वद् ध्येतद् अहः ।
स एष आत्मा पञ्चविंशः । तन् नदेनुपसृष्टं शंसति । आत्मा वै पञ्चविंशः प्रजा पशव उपसर्गः । प्रजयैव तत् पशुभिः प्रेष्यैर् अन्नाद्येनेत्यात्मानम् उपसृजते । नदं व ओदतीनाम् इति त्रैष्टुभानि पूर्वाणि पदानि करोति नदस्योत्तराणि । प्रथमेन त्रैष्टुभेन पदेन प्रथमं नदस्य पदम् उषसमाधायावस्यति । द्वितीयेन त्रैष्टुभेन द्वितीयं सन्धाय प्रणौति । तृतीयेन त्रैष्टुभेन तृतीयं सन्धायावस्यति । चतुर्थेन त्रैष्टुभेन चतुर्थं सन्धाय प्रणौति । एवं विहृतां प्रथमां त्रिः शंसति, पराचीर् उत्तरा एवं विहृता एव । या तृतीया सूक्तस्य तस्या उत्तरम् अर्धर्चम् उत्सृजति नदस्य चोत्तरम् । सो ऽयं मुखस्य विवरस् तेन वाचं वदति मुखेन वै वाचं वदति । तौ पुरस्ताद् द्विपदानां शंसति तथा हास्य स्तोत्रियानन्तर्हिता भवत्यात्मानं शस्त्वा ।
अथ सूददोहसं पर्वाणि संहितानि भवन्ति । अथो आपो वै सूददोहा अद्भिर् वा इमानि पर्वाणि संहितानि भवन्ति । अथो अमृतत्वं वै सूददोहा अमृतत्वं एव तद् आत्मन् धत्ते । अथ वै सूददोहास्यैतद् रूपम् । तद् यथा ह वै दारुणः श्लेष्म संश्लेषणं स्यात् परिचर्मण्यं वैवम् तृचाशीतिर् एवसूददोहाः सर्वेषां वेदानां शंश्लेषिणी ॥
शा २,२
अथेतानि शीर्ष्ण्यानि शंसति । तानि वै त्रीणि तृचानि भवन्ति । त्रीणि वा अस्य शीर्ष्णः कपालानि भवन्ति । तान्येवैतैः सन्दधाति । तानि त्रीणि पुनरेवैकं त्रेधा त्रेधा ता नव ऋचो भवन्ति । नव वै शिरसि प्राणाः । तान्यर्कवन्ति भवन्ति । तद् एतस्याह्नो रूपम् ॥
शा २,३
अथैतं ग्रैवं शंसति । ता वै तिस्र ऋचो भवन्ति । त्रीणि वा आसां ग्रीवाणां पर्वाणि भवन्ति । तान्येवैताभिः सन्दधाति । उष्णिग् उत्तमा । सो ऽयं स्कन्धो विदलो ऽव्यूऌहः (लः) ॥
शा २,४
अथैतां अक्षां शंसति । सा वै त्रिष्टुब् भवति । तस्माद् अक्षः स्थविष्ठः । ऋष्वा त इन्द्र स्थविरस्य बाहू इति बाह्वोर् अभिरूपा । अथ रथन्तरस्य स्तोत्रियानुरूपौ शंसति । तयोर् उक्तं ब्राह्मणम् । अथ धाय्यां शंसति । इयं वै धाय्या । इयं हि सर्वेषु भूतेषु हिता । सा वै दक्षिणे भागे धीयते । तस्माद् दक्षिणं भागं पुंसः स्त्र्यधिशेते । अथ राथन्तरं प्रगाथं शंसति । तस्योक्तं ब्राह्मणम् । स एक इद् धव्यश् चर्षणीनाम् इति सूक्तं तत् पच्छः । तस्य द्वितीयाम् उद्धृत्य विश्वो ह्यन्यो अरिराजगामेति । यैतस्य द्वितीया ताम् इह द्वितीयां करोति । तद् इमौ पक्षौ व्यतिषजत्यविवर्हाय ॥
शा २,५
अथैतं प्रहस्तकं शंसति । ता वै तिस्र ऋचो भवन्ति । त्रीणि वा अस्य पाणेः पर्वाणि भवन्ति । तान्येवैताभिः सन्दधाति । अतिच्छन्दाः प्रथमा सो ऽयम् अङ्गुष्ठः । तस्माद् अयम् अङ्गुष्ठः सर्वा अङ्गुलीः प्रत्येति । दक्षिणः पक्षो राथन्तरः । अथ वा उत्तरः पक्षो बार्हतः । एतेनैवोक्तो ब्राह्मणः । तौ वा एतौ पक्षौ बार्हतराथन्तरौ चतुर्विंशौ । चतुर्विंशतिर् वै संवत्सरस्यार्धमासाः संवत्सरस्याप्त्यै ॥
शा २,६
अथैतानि चतुरुत्तराणि शंसति तद् अनूकम् । ता एकविंशतिर् ऋचो भवन्ति । एकविंशतिर् वा अस्यानूकस्य पर्वाणि भवन्ति । तान्येवैताभिः सन्दधाति । तानि वै सप्त तृचानि भवन्ति । सप्त वै छन्दांसि सर्वेषाम् एव छन्दसाम् आप्त्यै । तान्यर्कवन्ति भवन्ति । तद् एतस्याह्नो रूपम् ॥
शा २,७
अथैता अशीतीः शंसति । स्तोत्रियान् एवैताभिर् अनुशंसति गायत्र्या गायत्रम् औष्णिह्या च बार्हत्या च बृहद्रथन्तरे । इयम् एव दक्षिणं पार्श्वं गायत्री सव्यम् औष्णिही मध्यं बार्हती । मध्ये वा इदम् आत्मनो ऽन्नं धीयते । त्रिष्टुभावन्तरेण त्रिष्टुम् नैविदी । वैश्वामित्र्यावर्कवत्यावभिरूपे । विश्वामित्रो ह्येनद् अपश्यत् । महद्वत्यो वृधवत्यः प्रतिपदो भवन्ति । महद्वद् वृधवत् । महद्वत् - महद्वद् ध्येतद् अहः ॥
शा २,८
महाṁ इन्द्रो य ओजसेत्येतया गायत्रीम् अशीतिं प्रतिपद्यते स्तोमैर् वत्सस्य वावृध इति महद्वत्या वृधवत्या । महद्वद् वृधवत् । महद्वत् - महद्वद् ध्येतद् अहः ॥
शा २,९
या इन्द्र भुज आभर इत्येतया बार्हतीम् अशीतिं प्रतिपद्यते स्तोतारम् इन् मघवन्न् अस्य वर्धयेति महद्वत्या वृधवत्या । महद्वद् वृधवत् । महद्वत् - महद्वद् ध्येतद् अहः । अयं ते अस्तु हर्यत आ मन्द्रैर् इन्द्र हरिभिः सूक्ते । तद् यद् एते अन्ततः शंसति संसिद्धाभिर् बृहतीभिर् औष्णिहीम् अशीतिं समारोहाणीति ॥
शा २,१०
इन्द्रः सुतेषु सोमेष्व् इत्येतयौष्णिहीम् अशीतिं प्रतिपद्यते विदे वृधस्य दक्षसो महान् हि ष इति वृधवत्या महद्वत्या । वृधवन् महद्वत् । महद्वद् ध्येतद् अहः । ता वा एता अशीतयः संशस्ताः सप्तविंशतिशतान्यृचां सम्पद्यन्ते । सप्त वै विंशति शतानि संवत्सरस्याहोरात्राणां तद् अशीतिभिः संवत्सरस्याहोरात्राण्याप्नोति । सामनिधनैर् हैके गायत्रीर् उष्णिहः सम्पादयन्ति । चतुरक्षराण्यु हैके पुनर् आददते । बार्हत्या अशीत्या अशीतिं चतुरक्षराण्युद्धरति काकुभेभ्यः प्रगाथेभ्यश् चतुर्विंशतिं चतुरक्षराणि तानि चतुःशतं चतुरक्षराणि चतुःशते गायत्रीषूपदधाति । तथा ता गायत्रीर् उष्णिहः सम्पद्यन्ते । नाद्रियेत । अत्रैव सम्पन्नम् । इन्द्राय साम गायतेति । तद् यद् एतद् अन्ततः शंसति संसिद्धाभिर् उष्णिग्भिर् वशं समारोहाणीति ॥
शा २,११
अथ वशं शंसति । उदरं वै वशः । तेन संसिद्धेनानन्तर्यं जिगमिषेत् । यद् अतः किञ्च बहिर्धा तत एव तच् छ्रपयति यद् अन्तर् उदरे । तस्माद् बह्व्यो देवता बहूनि च्छन्दांसि वशे शस्यन्ते । तस्माद् इदं बहु विश्वरूपम् उदरे ऽन्नम् अवधीयते । अथैतौ विहृतावर्धर्चौ । अथ सूददोहसम् । सा तत एवोत्सृज्यते । अत्र चतुर्विंशतिकृत्वः शस्ता भवति ॥
शा २,१२
अथैता द्विपदाः शंसति । प्रतिष्ठानीयं वै छन्दो द्विपदाः प्रतिष्ठित्या एव ॥
शा २,१३
अथैतद् ऐन्द्राग्नं सूक्तं गायत्रीशंसं शंसति । प्रतिष्ठे वा इन्द्राग्नी प्रतिष्ठित्या एव ॥
शा २,१४
अथैतद् आवपनं शंसति । प्रतिष्ठा वा आवपनं प्रतिष्ठित्या एव । अथौ एतान्येव पुनरर्वाचीनि भवन्ति ॥
शा २,१५
अथैतम् आनुष्टुभं समाम्नायं शंसति । वाग् वा एतद् अहर् वाग् अनुष्टुब् वाच्येव तद् वाचं प्रतिष्ठापयति । दिवं ययेति देवान् एवैतेन सूक्तेनैति । स प्रत्नथा कविवृध इति तृचम् अर्कवत् तेन समृद्धम् । गायत्र्युत्तमा तया समृद्धम् । शास इत्था महाṁ असीति महद्वत् । महद्वद् ध्येतद् अहः ॥
शा २,१६
अथैतं त्रिष्टुप्छतं शंसति । +इन्द्रस्यैवैतच् छन्दो यत् त्रिष्टुप् तद् एनं स्वेन छन्दसा समर्धयति । हैरण्यस्तूपीयं च यातऊतीयं च बार्हतराथन्तरे बृहद्रथन्तरे हि पुरस्तात् कृते भवतः । सजनीयं चाध्वर्यवो भरतेन्द्राय सोमम् इति च ताः सप्तविंशतिर् ऋचो भवन्ति । सप्तविंशतिर् वै नक्षत्राणि । तन् नक्षत्रियां विराजं आप्नोति । विश्वामित्रस्य शंसेत् । विश्वामित्रो ह्येनद् अपश्यत् । वामदेवस्य शंसेद् वामं ह्येतद् देवानाम् । वसिष्ठस्य शंसेद् वसिष्ठं ह्येतद् देवानाम् । तत्र पुरस्ताद् उद्ब्रह्मीयस्य पदानुषङ्गाञ् छंसति । सर्वे वै कामा एतस्मिन् अन्तरुक्थे । तद् यथा व्रजे पशून् अवसृज्यार्गलेषीके परिव्ययेत् । एवम् एवैतैः पदानुषङ्गैः सर्वान् कामान् उभयतः परिगृह्यात्मन् धत्ते । अथो उद्ब्रह्मीयस्यार्कवत्युत्तमा । तद् एतस्याह्नो रूपम् । त्रिः शस्तया परिदधाति । परिधायोक्थवीर्यं जपति । ऐकाहिकं पूर्वं । प्रतिष्ठा वा एवाहः प्रतिष्ठित्या एव । माहाव्रतिकम् उत्तरम् । महद् असीति महद्वत् ।
महद्वद् ध्येतद् अहः ॥
शा २,१७
तद् एतत् सकृच्छस्तायां सूददोहसि, यावच्छस्त्रं उपसर्जन्यां सङ्ख्यायमानायाम् ऋते तूष्णींशंसं बृहतीसहस्रं सम्पद्यते । तस्य वा एतस्य बृहतीसहस्रस्य षट्त्रिंशद् अक्षराणां सहस्राणि भवन्ति । तावन्ति शतसंवत्सरस्याहानि भवन्ति । तच् छतसंवत्सरस्याहान्याप्नोति । अनुष्टुप्सम्पन्नम् उ हैके । वाग् वा एतद् अहः । वाग् अनुष्टुप् । वाग् +घ सर्वाणि भूतानि । अथो वाग् इदं सर्वम् इति । बृहतीसम्पन्नम् इति त्वेव स्थितम् । बार्हतो वा एष य एष तपति । तद् एनं स्वेन छन्दसा समर्धयति । त्रिर् एवाह्वयते । त्रयो वा इमे लोकाः । इमान् एव तल् लोकान् आप्नोति । एकाहिकी याज्या प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एव । अननुवषट्-कृत एव प्रेङ्खं श्रथ्नन्ति । सग्रहम् एवायं तं प्राङ् उपावरोहति प्रत्यङ् प्रेङ्खफलकम् अपोहति । परामृशन् ग्रहं जपति - यम् इमं प्रजयं प्राजैषं तम् अन्वसानीति नेद् अस्मात् प्रजयाद् आत्मानम् अपादधानीति । वैश्वकर्मणो ऽतिग्राह्यः । प्राजापत्यं वा एतद् अहः । प्रजापतिर् विश्वकर्मा तद् एनं स्वेन रूपेण समर्धयति । तद् धैतद् अहर् इन्द्रो ऽगिरसे
प्रोवाचाङ्गिरा दीर्घतमसे । तत उ ह दीर्घतमा दश पुरुषायुषाणि जिजीव । तद् अप्येतद् ऋषिर् आह दीर्घतमा मामतेयो जुजुर्वान् दशमे युग इति । तद् एतय् आयुष्कामस्य शस्त्रम् इति ह स्माह कौषीतकिः । तद् य एवं विद्वान् एतद् अहः शंसति सर्वम् आयुर् अस्मिंल् लोक एति । आप्नोत्यमृतत्वम् अक्षितिं स्वर्गे लोके ॥
शा २,१८
तत् सवितुर् वृणीमह इति वैश्वदेवस्य +प्रतिपत् । वृणीमह इति महद्वती । महद्वत् - महद्वत् ध्येतद् अहः । अद्या नो देव सवितर् इत्यनुचरः । विश्वा वामानि धीमहीति महद्वत् । महद्वद् ध्येतद् अहः । तद् देवस्य सवितुर् वार्यं महद् इति सावित्रं महद्वत्। महद्वद् ध्येतद् अहः । ते हि द्यावापृथिवी विश्वशम्भुव इति द्यावापृथिवीयम् उरुव्यचसो महिनी असश्चतेति महद्वत् । महद्वद् ध्येतद् अहः । किम् उ श्रेष्ठः किं यविष्ठो न आजगन्न् इत्यार्भवम् । न निन्दिम चमसं यो महाकुल इति महद्वत् । महद्वद् ध्येतद् अहः । अस्य वामस्य पलितस्य होतुर् इति सलिलं वैश्वदेवम् । सलिलं ह्येतद् देवानाम् । ऐकाहिके निविदं दधाति । प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एव । ऐकाहिकं वैश्वानरीयम् ।
प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एव । प्रयज्यवो मरुतो भ्राजदृष्टय इति मारुतम् । बृहन् महान्त उर्विया वि राजथेति बृहद्वत् । महद्वत् - महद्वत् ध्येतद् अहः । बऌअ इत्या तद् वपेषु धायि दर्शितम् इति जातवेदसीयं तस्य अस्ताव्यग्निः शिमीवद्भिर् अर्कैर् इत्य् अर्कवत्युत्तमा । तद् एतस्याह्नो रूपम् इत्यग्निमारुतसूक्तानीति । एतस्याह्नः सूक्तानि । तद् अग्निष्टोमः सन्तिष्ठते । ब्रह्म वा अग्निष्टोमः । ब्रह्मैतद् अहः । ब्रह्मन्येव तद् ब्रह्म प्रतिष्ठाप्यन्ति । ते ऽमृतत्वम् आप्नुवन्ति य एतद् अहर् उपयन्ति य एतद् अहर् उपयन्ति ॥
इति शाङ्खायनारण्यके द्वितीयो ऽध्यायः ॥