०१ विभ्राड्बृहत्पिबतु सोम्यं ...{Loading}...
+++(सूर्यो)+++ विभ्रा᳓ड् बृह᳓त् पिबतु सोम्यं᳓+++(=सोममयं)+++ म᳓ध्व्
आ᳓युर् द᳓धद् यज्ञ᳓पताव् अ᳓विह्रुतम्+++(=अकुटिलम्)+++ ।
वा᳓त-जूतो+++(=प्रेरितो)+++ यो᳓ अभिर᳓क्षति त्म᳓ना प्रजाः᳓
पुपोष पुरु+++(=बहु)+++-धा᳓ वि᳓ राजति ॥ १
०२ विभ्राड्बृहत्सुभृतं वाजसातमं ...{Loading}...
विभ्रा᳓ड् बृह᳓त् सु᳓भृतं वाज+++(=बल)+++-सा᳓+++(दातृ)+++तमं
ध᳓र्मन्+++(णि =धारयितव्ये)+++ दिवो᳓ धरु᳓णे+++(=धारके [सूर्यमण्डले])+++ सत्य᳓म् अ᳓र्पितम् ।
अमित्र-हा᳓ वृत्र-हा᳓ दस्यु-ह᳓न्-तमं
ज्यो᳓तिर् जज्ञे +++(ग्रहण-कृत्–स्वर्-भान्व्–आख्य-)+++असुर-हा᳓ स-पत्न-हा᳓ ॥ २
०३ इदं श्रेष्ठं ...{Loading}...
इदं᳓ श्रे᳓ष्ठं ज्यो᳓तिषां ज्यो᳓तिर् उत्तमं᳓
विश्वजि᳓द् धनजि᳓द् उच्यते बृह᳓त् ।
विश्वभ्रा᳓ड् भ्राजो᳓+++(=भ्राजमानः)+++ म᳓हि+++(=महान्)+++ सू᳓र्यो दृश᳓+++(=दर्शनाय)+++
उरु᳓ पप्रथे स᳓ह+++(=अभिभवितृ)+++ ओ᳓जो अ᳓च्युतम् ॥ ३
०४ विभ्राजञ्ज्योतिषा स्व१रगच्छो ...{Loading}...
विभ्रा᳓जञ् ज्यो᳓तिषा स्व᳓१᳓र्
अ᳓गच्छो रोच+++(मा)+++नं᳓ दिवः᳓ ।
ये᳓नेमा᳓ वि᳓श्वा भु᳓वनान्य् आ᳓भृता
विश्व᳓कर्मणा विश्व᳓देव्या+++(=वैश्वदेवयागादि)+++वता ॥ ४
+++(विश्वे देवास् तु सङ्ख्यया समस्थान-ग्रहणावर्तनावधि-दिनानीति ज्ञायते “महत् तदुल्बम्” इत्यस्मात्।)+++
विस्वरपाठः
विभ्राड्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् । वातजूतो यो अभिरक्षति त्मना प्रजाः पुपोष पुरुधा वि राजति ॥१॥ विभ्राड्बृहत्सुभृतं वाजसातमं धर्मन्दिवो धरुणे सत्यमर्पितम् । अमित्रहा वृत्रहा दस्युहन्तमं ज्योतिर्जज्ञे असुरहा सपत्नहा ॥२॥ इदं श्रेष्ठं ज्योतिषां ज्योतिरुत्तमं विश्वजिद्धनजिदुच्यते बृहत् । विश्वभ्राड्भ्राजो महि सूर्यो दृश उरु पप्रथे सह ओजो अच्युतम् ॥३॥ विभ्राजञ्ज्योतिषा स्वरगच्छो रोचनं दिवः । येनेमा विश्वा भुवनान्याभृता विश्वकर्मणा विश्वदेव्यावता ॥४॥