१५१ श्रद्धा-सूक्तम्

+++(तैत्तिरीयब्राह्मणे पादशो विभागः। ऋग्वेदे त्व् अर्धशो यथासाधारणम्।)+++

०१ श्रद्धयाग्निः समिध्यते ...{Loading}...

श्रद्ध᳓या ऽग्निः᳓ स᳓मिध्यते
श्रद्ध᳓या हूयते +++(→विन्दते तैत्तिरीये)+++ हविः᳓ ।
श्रद्धां᳓ भ᳓गस्य मूर्ध᳓नि
व᳓चसा᳓ वेदयामसि

०२ प्रियं श्रद्धे ...{Loading}...

प्रियं᳓ श्रद्धे द᳓दतः
प्रियं᳓ श्रद्धे दि᳓दासतः
प्रिय᳓म् भोजे᳓षु य᳓ज्वसु
इद᳓म् म उदितं᳓ कृधि

०३ यथा देवा ...{Loading}...

य᳓था देवा᳓ अ᳓सुरेषु
श्रद्धा᳓म् उग्रे᳓षु चक्रिरे᳓
एव᳓म् भोजे᳓षु य᳓ज्वसु
अस्मा᳓कम् उदितं᳓ कृधि

०४ श्रद्धां देवा ...{Loading}...

श्रद्धां᳓ देवा᳓ य᳓जमाना
वायु᳓गोपा उ᳓पासते
श्रद्धां᳓ हृदय्य᳓१᳓या᳓ ऽऽकूत्या+++(=संकल्पक्रियया [उपासते])+++,
श्रद्ध᳓या विन्दते व᳓सु ॥

०५ श्रद्धां प्रातर्हवामहे ...{Loading}...

श्रद्धां᳓ प्रात᳓र् हवामहे
श्रद्धां᳓ मध्य᳓न्दिनं प᳓रि
श्रद्धां᳓ सू᳓र्यस्य निम्रु᳓चि+++(=निमज्जने)+++
श्र᳓द्धे श्र᳓द्धापयेह᳓ नः ॥