१२५ नासदीयम्

तैत्तिरीयब्राह्मणे सायणो अत्र

०१ नासदासीन्नो सदासीत्तदानीं ...{Loading}...

ना᳓सद् आसीन्, नो᳓ स᳓दासीत् तदा᳓नीम् । ना᳓सीद् र᳓जो, नो᳓ व्योमा परो᳓ य᳓त् ।
कि᳓म् आ᳓वरिवः+++(=आवरणीयं)+++? कु᳓ह+++(=क्व)+++? क᳓स्य श᳓र्म᳓न्+++(णे)+++? अम्भः कि᳓म् आसीद् ग᳓हनं गभीर᳓म् ?

०२ न मृत्युरासीदमृतं ...{Loading}...

न᳓ मृत्यु᳓र्, अमृ᳓तं त᳓र्हि न᳓ । रा᳓त्रिया अ᳓ह्न आसीत् प्रकेतः᳓+++(=सङ्केतः [ज्योतींषि])+++ ।
आ᳓नीद् +++(=अचेष्टयत)+++ अवातँ᳓ +++(स्वयमाश्रयेण)+++स्वध᳓या त᳓द् ए᳓कम् +++(ब्रह्म)+++। त᳓स्माद् +हाऽन्यं᳓ न᳓ परः᳓ कि᳓ञ्चना᳓स ।

०३ तम आसीत्तमसा ...{Loading}...

त᳓म +++(ब्रह्म)+++ आसीत्, त᳓मसा गूढ᳓म् अ᳓ग्रे प्रकेत᳓म् +++(=रहस्यम्)+++। +++(यथा)+++ सलिलँ᳓ स᳓र्वम् आ इद᳓म् ।
तुच्छे᳓नाभ्व् अ᳓पिहितं य᳓द् आ᳓सीत् । त᳓मसस् त᳙न्-महिना᳓ जायतै᳓कम् +++(जगत्)+++।

०४ कामस्तदग्रे समवर्तताधि ...{Loading}...

का᳓मस् त᳓द् अ᳓ग्रे स᳓मवर्तता᳓धि +++(=आधिक्ये)+++। म᳓नसो रे᳓तः प्रथमं᳓ य᳓द् आ᳓सीत् ।
सतो᳓ ब᳓न्धुम् अ᳓सति नि᳓रविन्दन् । हृदि᳓ प्रती᳓ष्या कव᳓यो मनीषा᳓ +++(=बुद्ध्या)+++।

०५ तिरश्चीनो विततो ...{Loading}...

तिरश्ची᳓नो वि᳓ततो रश्मि᳓र् एषाम् । अध᳓स्विद् आसी᳓३द्; उप᳓रिस्विद् आसी३त् ।
रेतोधा᳓+++(=बीजानि)+++ आसन्, महिमा᳓न +++(पर्वतादयः)+++ आसन् ।
स्वधा᳓ +++(शक्तिः [माया])+++ अव᳓स्तात्+++(=अधस्तात्)+++, प्र᳓यतिः+++(प्रयत्नः)+++ पुर᳓स्तात् ।

०६ को अद्धा ...{Loading}...

को᳓ अद्धा᳓ वेद क᳓ इह᳓ प्र᳓ वोचत्
कु᳓त आ᳓जाता कु᳓त इयं᳓ वि᳓सृष्टिः
अर्वा᳓ग् देवा᳓ अस्य᳓ विस᳓र्जनेन
अ᳓था को᳓ वेद य᳓त आबभू᳓व

०७ इयं विसृष्टिर्यत ...{Loading}...

इयं᳓ वि᳓सृष्टिर् य᳓त आबभू᳓व । य᳓दि वा +++(स्वरूपं)+++ दधे᳓ य᳓दि वा न᳓ ।
यो᳓ अस्या᳓ध्यक्षः परमे᳓ व्यो᳙मन् - सो᳓ अङ्ग᳓ वेद य᳓दि वा न᳓ वे᳓द ।