१०३ आशुः शिशानो

तैत्तिरीयभाष्ये अत्र

०१ आशुः शिशानो ...{Loading}...

आशुः᳓ शि᳓शानो+++(=तीक्ष्णो)+++ वृषभो᳓ न᳓ युध्मो᳓+++(=योधा)+++
घनाघनः᳓+++(=घातकः)+++ क्षो᳓भणश् चर्षणीना᳓म्+++(=पदातीनाम्)+++।
संक्र᳓न्दनो ऽनिमिष᳓ एक-वीरः᳓
शतँ᳓ से᳓ना अजयत् साक᳓म् इ᳓न्द्रः ॥

०२ संक्रन्दनेनानिमिषेण जिष्णुना ...{Loading}...

सङ्क्र᳓न्दनेनानिमिषे᳓ण जिष्णु᳓ना
युत्-कारे᳓ण+++(=युद्धकारिणा)+++ दुश्च्यवने᳓न धृष्णु᳓ना+++(=निर्भयेन)+++।
त᳓द् इ᳓न्द्रेण जयत त᳓त् सहध्वं
यु᳓धो नर इ᳓षु-हस्तेन वृ᳓ष्णा+++(=कामवर्षकेन)+++ ॥

०३ स इषुहस्तैः ...{Loading}...

स᳓ इ᳓षु-हस्तैः स᳓ निषङ्गि᳓भिर् +++(=खड्गिभिर्)+++ वशी᳓
सँ᳓स्रष्टा+++(=संमिश्रकः)+++ स᳓ यु᳓ध+++(=योद्धा)+++ इ᳓न्द्रो +++(पर)+++गणे᳓न।
सँसृष्ट-जि᳓त् सोमपा᳓ बाहु-शर्ध्य्+++(=बली)+++
ऊ᳙र्ध्व-धन्वा प्र᳓तिहिताभिर् अ᳓स्ता+++(=क्षेप्ता)+++ ॥

०४ बृहस्पते परि ...{Loading}...

बृ᳓हस्+++(=वाचस्)+++पते प᳓रि दीया+++(=द्रव)+++ र᳓थेन
रक्षो-हा᳓ ऽमि᳓त्राँ अपबा᳓धमानः
प्रभञ्ज᳓न्त् से᳓नाः प्रमृणो᳓+++(=प्रहिंस्रो)+++ युधा᳓
ज᳓यन्न् अस्मा᳓कम् एध्य् अविता᳓ र᳓थानाम् ॥

०६ गोत्रभिदं गोविदं ...{Loading}...

गोत्र-भि᳓दं गो-वि᳓दं व᳓ज्र-बाहुं
ज᳓यन्तम् अ᳓ज्म+++(म्)+++ प्रमृण᳓न्तम् ओ᳓जसा।
इमँ᳓ सजाता अ᳓नु वीरयध्वम्
इ᳓न्द्रँ सखायो᳓ ऽनु सँ᳓ रभध्वम्

०५ बलविज्ञायः स्थविरः ...{Loading}...

बलविज्ञायः᳓ स्थ᳓विरः प्र᳓वीरः
स᳓हस्वान् वाजी᳓ स᳓हमान उग्रः᳓।
अभि᳓वीरो अभि᳓सत्वा+++(←सत्वन्=योद्धृ)+++ सहोजा᳓
जै᳓त्रम् इन्द्र र᳓थम् आ᳓ तिष्ठ गोवि᳓त् ॥

०७ अभि गोत्राणि ...{Loading}...

अभि᳓गोत्रा᳓णि स᳓हसा गा᳓हमानो
ऽदायो᳓ वीर᳓श् शत᳓-मन्युर् इ᳓न्द्रः।
दुश्च्यवनᳶ᳓ पृतना-षा᳓ड् अ-युद्ध्यो᳙
ऽस्माकँ से᳓ना अवतु प्र᳓ युत्सु᳓ ॥

०८ इन्द्र आसां ...{Loading}...

इ᳓न्द्र आसां नेता᳓, बृ᳓हस्प᳓तिर्
द᳓क्षिणा, यज्ञः᳓ पुर᳓ एतु सो᳓मः।
देव-सेना᳓नाम् अभिभञ्जतीनां᳓
ज᳓यन्तीनां मरु᳓तो यन्त्व् अ᳓ग्रे ॥

०९ इन्द्रस्य वृष्णो ...{Loading}...

इ᳓न्द्रस्य वृ᳓ष्णो, व᳓रुणस्य रा᳓ज्ञ,
आदित्या᳓नां मरु᳓ताँ श᳓र्ध उग्र᳓म्।
महा᳓-मनसां भुवन-च्यवा᳓नां
घो᳓षो देवा᳓नां ज᳓यताम् उ᳓द्-अस्थात् ॥

१० उद्धर्षय मघवन्नायुधान्युत्सत्वनां ...{Loading}...

उ᳓द्+धर्षय मघवन्न् आ᳓युधान्य्
उ᳓त् स᳓त्वनां+++(=योद्धॄणां)+++ मामका᳓नां म᳓हाँसि।
उ᳓द् वृत्र-हन् वाजि᳓नां वा᳓जिनान्य्+++(=वेगाः)+++
उ᳓द् र᳓थानां ज᳓यताम् एतु घो᳓षः

११ अस्माकमिन्द्रः समृतेषु ...{Loading}...

अस्का᳓कम् इ᳓न्द्रः स᳓म्-ऋतेषु ध्वजे᳓ष्व्
अस्मा᳓कं या᳓ इ᳓षवस् ता᳓ जयन्तु
अस्मा᳓कं वीरा᳓ उ᳓त्तरे भवन्त्व्
अस्मा᳓न् उ देवा अवता ह᳓वेषु ॥

उप॒ प्रेत॒ जय॑ता नरः
स्थि॒रा व॑स् सन्तु बा॒हवः॑।
इन्द्रो॑ व॒श् शर्म॑ यच्छत्व्
अनाधृ॒ष्या यथाऽस॑थ ॥

अव॑सृष्टा॒ परा॑ पत॒
शर॑व्ये॒ ब्रह्म॑सँशिता।
गछा॒मित्रा॒न् प्रवि॑श॒
मैषां कञ् च॒नोच्छि॑षः ॥

मर्मा॑णि ते॒ वर्म॑भिश् छादयामि॒
सोम॑स् त्वा॒ राजा॒ऽमृते॑ना॒भिऽव॑स्ताम्।
उ॒रोर् वरी॑यो॒ वरि॑वस् ते अस्तु॒
जय॑न्तं त्वाम् अनु॑ मदन्तु दे॒वाः ॥

यत्र॑ बा॒णाः स॒म्पत॑न्ति
कुमा॒रा वि॑शि॒खा इ॑व।
इन्द्रो॑ न॒स् तत्र॑ वृत्र॒हा
वि॑श्वा॒हा शर्म॑ यच्छतु ॥