+090 ...{Loading}...
विश्वास-टिप्पनी
अधः स्वीया दृष्टिर् लिख्यते, या सायणोक्त्या भिद्यते।
- पुरुषस्य विभागौ उच्येते ऽत्र पुनःपुनः।
- परिपूर्णपुरुषः = बहु-देव-पूर्णः सशरीरः। त एव देवाः साध्या ऋषयः, पूर्वे साध्या देवाः।
- तच्-छरीरम् = एकपाद् (विश्वानि भूतानि, ब्रह्मण्डम्) + त्रिपात् पुरुषो दिवि +++(=परमे व्योम्नि→ Platonic ideal realm/ वैकुण्ठे)+++ वर्तमानः।
- एकपादो → विराट् (ब्रह्मण्डम् / छन्दः) + ऋतात्मकः पुरुषः।
- ततः कालम् उपयुज्य, पुरुष-पशोर् विविध-धर्मान् छान्दसान् प्राकृतिकांश् च देवा (साध्या ऋषय इति प्रोक्ता) यज्ञेन +अजनयन्।
- इयं सृष्टिः पुरुषमेधे ऽनुक्रियत इव।
- इमा हि मूल-भूताः १६ ऋचः
पुरुषस्य १६ अङ्गानीव सूचयन्ति,
यानि शतपथब्राह्मणे प्रयाजानुयाजादि-१६-यज्ञाङ्गैः सङ्गमितानि।
पुरुषस्वरूपम्
०१ सहस्रशीर्षा पुरुषः ...{Loading}...
+++(बहु-देवता-सङ्ग्रहात्)+++ सह᳓स्र+++(~अनन्त)+++शीर्षा पु᳓रुषः।
सहस्राक्षः᳓ सह᳓स्रपात् ।
स᳓ +++(वक्ष्यमाणां विराजं)+++ भू᳓मिं विश्व᳓तो वृत्वा᳓ ।
अ᳓त्यतिष्ठद् दशाङ्गुल᳓म् । १
+++(मुख-मूर्ध्नोर् अन्तरं दशाङ्गुलम्, वाचिक+अव्यक्त-कल्पनयोश् चेति केचित्।)+++
०२ पुरुष एवेदं ...{Loading}...
+++(स्व-शरीरैकदेशेन)+++ पु᳓रुष एवे᳓दँ᳓ स᳓र्वम् ।
य᳓द् भूतं᳓ य᳓च् च भ᳓व्यम्।
उत᳓+++(→तथा देवात्मभिः)+++ +अ᳓मृतत्व᳓स्ये᳓शानः +++(परमे व्योम्नि)+++ ।
य᳓द्+++(→यस्माद्)+++ +++(ब्रह्माण्डरूपेण)+++ अ᳓न्नेन+++(=अशितेन)+++ +अतिरो᳓हति । ३
०३ एतावानस्य महिमातो ...{Loading}...
एता᳓वान् +++(ब्रह्माण्डम् इति)+++ अस्य महिमा᳓ ।
अ᳓तो+++(→ततोऽपि)+++ ज्या᳓याँश् च पू᳓रुषः ।
+++(कथम् इति चेत्-)+++
पा᳓दोऽस्य वि᳓श्वा भूता᳓नि ।
+++(अवशिष्टस्)+++ त्रिपा᳓द् +++(अंशः पर-देवतापूर्णः)+++ अस्यामृ᳓तं +++(=अविनाशी)+++ दिवि᳓+++(=परमे व्योम्नि)+++ ।
सृष्टिः
०४ त्रिपादूर्ध्व उदैत्पुरुषः ...{Loading}...
+++(सो ऽयं)+++ त्रिपा᳓द्+++(→त्रिविक्रम-सूचना)+++ ऊर्ध्व᳓ उ᳓दैत् पु᳓रुषः +++(शिष्टस्यापेक्षया)+++।
+++(पूर्वोक्त-)+++पा᳓दो ऽस्येहा᳓ऽऽभवात् पु᳓नः +++(पुनःपुनः)+++ ।
त᳓तो +++(पादः)+++ वि᳓ष्वङ्+++(=सर्वतो)+++ व्य᳙क्रामत् +++(वक्ष्यमाण-जननाय)+++।
साशनानशने᳓+++(=जीवाजीवे [वस्तू])+++ अभि᳓+++(लक्ष्य)+++ । ४
०५ तस्माद्विराळजायत विराजो ...{Loading}...
+++(पादांशात्)+++ त᳓स्माद् विरा᳓ड्+++(→पुरुष-मेध-ब्राह्मणे छन्दोऽपि)+++ +++(ब्रह्माण्ड-शरीरम्)+++ अजायत ।
+++(तस्माद्)+++ विरा᳓जो अ᳓धि पू᳓रुषः +++(ऋतात्मना /पुरुषमेध-कर्मरूपेण अजायत)+++ ।
स᳓ जातो᳓ अ᳓त्यरिच्यत -
+++(क्वेति चेत् -)+++ पश्चा᳓द् +++(विराजम्)+++ भू᳓मिम् अ᳓थो +++(जीवानाम्)+++ पुरः᳓+++(=पूर्वम्)+++। ५
०६ यत्पुरुषेण हविषा ...{Loading}...
य᳓त् +++(वक्ष्यमाणेन कालभागेन)+++ पु᳓रुषेण हवि᳓षा ।
+++(त्रिपादङ्गभूता)+++ देवा᳓ यज्ञ᳓म् अ᳓तन्वत ।
+++(पुरुष-हविषो विभागाः -)+++ वसन्तो᳓ अस्यासीद् आ᳓ज्यम् ।
ग्रीष्म᳓ इध्मः᳓ शर᳓द् +++(अन्नादिरूपम्)+++ +हविः᳓ । ६
०७ सप्तास्यासन्परिधयस्त्रिः सप्त ...{Loading}...
सप्ता᳓ऽस्याऽऽसन् परिध᳓यः ।
त्रिः᳓ सप्त᳓ +++(२१!)+++ समि᳓धः कृताः᳓ +++(इध्म-सन्नाहः!)+++।
+++(त्रिपादङ्गभूता)+++ देवा᳓ य᳓द् यज्ञं᳓ तन्वानाः᳓ ।
अ᳓बध्नन् +++(एकपात्)+++ पु᳓रुषं पशु᳓म् । ७
०८ तं यज्ञं ...{Loading}...
तं᳓ यज्ञं᳓+++(~तत्साधनभूतं पशुं)+++ बर्हि᳓षि प्रौ᳓क्षन् ।
पु᳓रुषं जात᳓म् अग्रतः᳓ ।
ते᳓न +++(वक्ष्यमाणा)+++ देवा᳓ अयजन्त -
+++(अविशिष्टा नानापात्रेषु पश्चात्)+++ साध्या᳓ ऋ᳓षयश् च ये᳓ । ८
वि᳓श्वा᳓स᳓-टि᳓प्प᳓नी᳓
अ᳓य᳓ज᳓न्त᳓ इ᳓त्य᳓त्र᳓ - अ᳓का᳓र᳓ उ᳓दा᳓त्तः᳓ तै᳓त्ति᳓री᳓ये᳓ - ‘च᳓वा᳓यो᳓गे᳓ प्र᳓थ᳓मा᳓’।
०९ तस्माद्यज्ञात्सर्वहुतः सम्भृतं ...{Loading}...
त᳓स्माद् यज्ञा᳓त् सर्वहु᳓तः ।
+++(पशुनिर्माणाय तज्-जातकर्मणे वापि)+++ सं᳓भृतं +++(हविश्शेषं घनीभवद् दधिमिश्रं वा)+++ पृषद्+++(=बिन्द्व्)+++-आज्य᳓म् ।
पशूँ᳓स् ताँ᳓श् +++(सूच्यमानान्)+++ चक्रे - वायव्या᳓न् ।
आरण्या᳓न् ग्राम्याँ᳓श् च ये᳓ । ९
१० तस्माद्यज्ञात्सर्वहुत ऋचः ...{Loading}...
त᳓स्माद् यज्ञा᳓त् सर्वहु᳓त
ऋ᳓चः सा᳓मानि जज्ञिरे
छ᳓न्दांसि जज्ञिरे त᳓स्माद्
य᳓जुस् त᳓स्माद् अजायत
११ तस्मादश्वा अजायन्त ...{Loading}...
त᳓स्माद् अ᳓श्वा अजायन्त ।
ये᳓ के᳓ चोभया᳓दतः+++(=दन्तावलिद्वयाः)+++ ।
गा᳓वो ह जज्ञिरे त᳓स्मात् ।
त᳓स्माज् जाता᳓ अजाव᳓यः । ११
समाजोद्भवः
१२ यत्पुरुषं व्यदधुः ...{Loading}...
+++(देवाः)+++ य᳓त् +++(एकपात्)+++पु᳓रुषं +++(पशुं)+++ व्य᳙दधुः +++(बलौ)+++।
कतिधा᳓ व्य᳙कल्पयन् ?
मुखं कि᳓म् अस्य कौ᳓ बाहू᳓ ?
का᳓व् ऊरू᳓ पा᳓दाव् उच्येते ? १२
१३ ब्राह्मणो अस्य मुखमासीद्बाहू ...{Loading}...
ब्राह्मणो᳡ ऽस्य मु᳓खम् आसीद्
बाहू᳓ राजनि᳓यः कृतः᳓
ऊरू᳓ त᳓द् अस्य य᳓द् वइ᳓श्यः
पद्भ्यां᳓ शूद्रो᳓ अजायत
१४ चन्द्रमा मनसो ...{Loading}...
चन्द्र᳓मा म᳓नसो जातः᳓ ।
च᳓क्षोः+++(=चक्षुषः)+++ सू᳓र्यो अजायत ।
मु᳓खाद् इ᳓न्द्रश् चाग्नि᳓श् च ।
प्राणा᳓द् वायु᳓र् अजायत । १४
१५ नाभ्या आसीदन्तरिक्षं ...{Loading}...
ना᳓भ्या आसीद् अन्त᳓रिक्षम् ।
शीर्ष्णो᳓+++(=मूर्ध्ना)+++ द्यौः᳓ स᳓मवर्तत ।
पद्भ्यां᳓ भू᳓मिर् दि᳓शः श्रो᳓त्रात् ।
त᳓था लोकाँ᳓ अकल्पयन् । १५
तैत्तिरीयक-योगः (द्रष्टुं नोद्यम्)
पुरुषस्तुतिः, यज्ञस्तुतिः
16 वेदा॒हम् ए॒तं ...{Loading}...
वेदा॒हम् ए॒तं पुरु॑षं म॒हान्त॑म् ।
आ॒दि॒त्यव॑र्णं॒ तम॑सस् तु॒ पा॒रे ।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ ।
नामा॑नि कृ॒त्वाऽभि॒वद॒न् यद् आस्ते॑ । १६
17 धा॒ता पु॒रस्ता॒द् ...{Loading}...
धा॒ता पु॒रस्ता॒द् यम् +++(पुरुषम्)+++ उ॑दाज॒हार॑,,
श॒क्रः प्रवि॒द्वान् प्र॒दिश॒श् चत॑स्रः ।
तम् ए॒वं वि॒द्वान् अ॒मृत॑ इ॒ह भ॑वति ।
नान्यः पन्था॒ अय॑नाय विद्यते । १७
१६ यज्ञेन यज्ञमयजन्त ...{Loading}...
+++(सर्वहुद्-)+++यज्ञे᳓न यज्ञ᳓म् अयजन्त देवाः᳓ ।
ता᳓नि ध᳓र्माणि प्रथमा᳓न्य् आसन् ।
+++(य एवं विदुः)+++ ते᳓ ह ना᳓कं +++(यज्ञैः)+++ महिमा᳓नः+++(=पूजयन्तः)+++ सचन्त+++(=प्राप्नुवन्ति, तैत्तिरीये - “सचन्ते” )+++,,
यत्र पू᳓र्वे +++(नानापात्रेषु पश्चात्)+++ साध्याः᳓ स᳓न्ति देवाः᳓ । १८
॥ ॐ नमो नारा॑यणा॒य ॥