परिचयः
- सूक्ते ऽस्मिन् स्वाभिप्रायो बालगङ्गाधरार्याद् ईषद् भिन्नः - स उक्षसङ्केतं न जग्राह। We place the myth in the rohiNI/ kRttikA era instead of the mArgashIrSha epoch.
- पुरा Sacrificial period = devayAna = uttarAyaNa was defined as vernal equinox to autumnal equinox; corresponding also to devanaxatra-s. “विश्वस्माद् इन्द्र उत्तरः” इत्यनेनैवोच्यते - नक्षत्रचक्रस्योत्तरभागो देवयज्ञयोग्य इति।
- वृषाकपिर् नाम Orion। स एव रूपान्तरेण मृगशीर्षम्।
- पुरा कल्पे विषुवस्थानं सौरं तत्रावर्तत। तेन हि स सोमाधिपतिर् बभूव, इन्द्रस्य सखा।
- BG Tilak in Orion: “Vr̥ṣākapi is a Mr̥ga(=Orion), and sacrifices are stopped where he revels (autumnal to vernal equinox, or Orion visible in night sky before sunrise). He is, however, a favourite of Indra, and consequently the latter, instead of punishing, follows him.”


- यदा विषुवस्थानं वृष-राशाव् अवर्तत, तदेदं सूक्तं प्रवृत्तम्।
- इन्द्राणी तत्रेन्द्रायोक्षः पचति। इन्द्रम् मृगे मग्नं तर्जयति, मृगञ्च दण्डयति। BG Tilak in Orion: “Indrāṇī, who has herself been offended by the Kapi, now reproaches Indra for his over fondness for the animal and threatens to punish the beast by cutting off his head and letting loose a dog(=Canis Major) at his ear. Indra intercedes.” एवं रोहिणीम् अनु धावन्तं मृगं दण्डयन्ति नैकासु कथासु (प्रजापतिर् यथा रुद्रेण विद्धः)।
- इन्द्रस् त्व् इन्द्राण्य्-आह्वानाल् लुब्धस् तत्रैव स्वोल्लासं सूचयति - नाम विषुवभोगं वृषामिषसहितं तत्रैव लब्धुम् अङ्गीकरोतीतः परम्। पुरा कल्पे नैवमासीद् यदा विषुवस्थानम् मृगे ऽवर्तत। वृषाकपिं तु चिरप्रियं सान्त्वयति - स्वगृहम् अस्तं गच्छसि - विषुवाद् ऊर्ध्वमं यदा सूर्यस् त्वाम् प्राप्स्यति। तदा ऽऽवाम् पुनरेव भुञ्जावहै - देवनक्षत्रेष्व् अन्तर् भवस्येव।
- अन्ते मङ्गलं वक्ति - स्वगृहम् अस्तं गतो यदा, सूर्योदयात् प्राग् अदृश्यमानः, तदा मृग्या सहापत्यानि जनयति - इन्द्राणी तान् सहेन्द्रेण भोक्ष्यते काले।


सूक्तम्
मृगीभूतस्य वृषाकपेः प्रीतिः
०१ वि हि ...{Loading}...
(इन्द्रः - )
वि हि सोतो॒र्(=सोमयागात्) (वि-)असृ॑क्षत॒
नेन्द्रं॑ दे॒वम् अ॑मंसत ।
यत्राम॑दद् वृ॒षाक॑पिर् (रात्रिखे)
अ॒र्यः पु॒ष्टेषु॒ मत्स॑खा॒
विश्व॑स्मा॒द् इन्द्र॒ उत्त॑रः (नक्षत्रचक्रे देवनक्षत्राणाम् उत्तरवर्तित्वात्) ॥ १०.०८६.०१
०२ परा हीन्द्र ...{Loading}...
(इन्द्राणी -)
परा॒ ही॑न्द्र॒ धाव॑सि,
(खचक्रे देवभागे भवस्य) वृ॒षाक॑पे॒र् अति॒ व्यथिः॑(=चलितः) ।
नो अह॒! प्र वि॑न्दस्य्
अ॒न्यत्र॒ सोम॑पीतये॒
विश्व॑स्मा॒द् इन्द्र॒ उत्त॑रः ॥ १०.०८६.०२
०३ किमयं त्वां ...{Loading}...
(इन्द्रः - )
किम् अ॒यं त्वां वृ॒षाक॑पिश्
च॒कार॒ (सूर्यसंसर्गाद् इन्द्रप्रीत्या च) हरि॑तो(=सुवर्णो) मृ॒गः ।
यस्मा॑ (ईर्ष्याम्) इर॒स्यसि॑(=यच्छसि) +इद् उ॒ न्व्?
अ१॒॑र्यो वा॑ पुष्टि॒मद् वसु॒?
विश्व॑स्मा॒द् इन्द्र॒ उत्त॑रः ॥ १०.०८६.०३
दण्डनम्
०४ यमिमं त्वं ...{Loading}...
(इन्द्राणी -)
यम् इ॒मं त्वं वृ॒षाक॑पिं
प्रि॒यम् इ॑न्द्राभि॒रक्ष॑सि ।
श्वा(=canis major) न्व् अ॑स्य जम्भिष॒द्
अपि॒ कर्णे॑ वराह॒युर्
विश्व॑स्मा॒द् इन्द्र॒ उत्त॑रः ॥ १०.०८६.०४
०५ प्रिया तष्टानि ...{Loading}...
प्रि॒या त॒ष्टानि॑(=कल्पितानि [यजमानैः]) मे क॒पिर्
(इन्द्रप्रीतिम्, उक्षपाकं स्वस्या वक्ष्यमानं)
व्य॑क्ता॒ व्य॑दूदुषत् ।
शिरो॒ न्व् अ॑स्य राविषं॒ (यथा मृगशीर्षे दृश्यते)
न सु॒गं दु॒ष्कृते॑ भुवं॒
विश्व॑स्मा॒द् इन्द्र॒ उत्त॑रः ॥ १०.०८६.०५
०६ न मत्स्त्री ...{Loading}...
न मत् स्त्री सु॑भ॒सत्(=सुजघन)त॑रा॒
न सु॒याशु॑(=स्वालिङ्गन)तरा भुवत् ।
न मत् (सम्भोगे) प्रति॑-च्यवीयसी॒
न सक्थ्(=ऊरु)-उद्य॑मीयसी॒
विश्व॑स्मा॒द् इन्द्र॒ उत्त॑रः ॥ १०.०८६.०६
क्रोधहेतौ प्रश्नः
०७ उवे अम्ब ...{Loading}...
(इन्द्रः - )
उ॒वे(=हे) अ॑म्ब सुलाभिके॒
(उक्तं) यथे॑वा॒ङ्ग(=क्षिप्रं) भ॑वि॒ष्यति॑ ।
भ॒सन्(=जघनम्) मे॑ अम्ब॒ सक्थि॑(=ऊरु) मे॒
शिरो॑ मे॒ वी॑व हृष्यति॒
विश्व॑स्मा॒द् इन्द्र॒ उत्त॑रः ॥ १०.०८६.०७
०८ किं सुबाहो ...{Loading}...
किं सु॑बाहो स्वङ्गुरे॒(=स्वङ्गुलि)
पृथु॑ष्टो॒ पृथु॑जाघने ।
किं शू॑र-पत्नि न॒स् त्वम्
अ॒भ्य॑मीषि(=अभिक्रुध्यसि) वृ॒षाक॑पिं॒
विश्व॑स्मा॒द् इन्द्र॒ उत्त॑रः ॥ १०.०८६.०८
०९ अवीरामिव मामयं ...{Loading}...
(इन्द्राणी -)
अ॒वीरा॑म् इव॒ माम् अ॒यं
श॒रारु॑र्(=व्यग्रताकार्य्) अ॒भि म॑न्यते ।
उ॒ताहम् अ॑स्मि वी॒रिणी-
-न्द्र॑पत्नी म॒रुत्स॑खा॒
विश्व॑स्मा॒द् इन्द्र॒ उत्त॑रः ॥ १०.०८६.०९
सान्त्वनम्
१० संहोत्रं स्म ...{Loading}...
(इन्द्रः प्रशंसाम् अनुवर्तयति सान्त्वनाय - )
सं॒हो॒त्रं(=संयज्ञं) स्म॑ पु॒रा नारी॒
सम॑नं॒(=संग्रामं) वाव॑ गच्छति ।
वे॒धा(=विधात्री) ऋ॒तस्य॑ वी॒रिणी-
-न्द्र॑पत्नी महीयते॒
विश्व॑स्मा॒द् इन्द्र॒ उत्त॑रः ॥ १०.०८६.१०
११ इन्द्राणीमासु नारिषु ...{Loading}...
इ॒न्द्रा॒णीम् आ॒सु नारि॑षु
सु॒भगा॑म् अ॒हम् अ॑श्रवम् ।
न॒ ह्य् अ॑स्या अप॒रं च॒न
ज॒रसा॒ मर॑ते॒ पति॒र्
विश्व॑स्मा॒द् इन्द्र॒ उत्त॑रः ॥ १०.०८६.११
१२ नाहमिन्द्राणि रारण ...{Loading}...
नाहम् इ॑न्द्राणि रारण॒
सख्यु॑र् वृ॒षाक॑पेर् ऋ॒ते ।
यस्ये॒दम् अप्यं॑(=[द्युगङ्गा]ऽप्सु भवं) ह॒विः
प्रि॒यं दे॒वेषु॒ गच्छ॑ति॒
विश्व॑स्मा॒द् इन्द्र॒ उत्त॑रः ॥ १०.०८६.१२
वृषराशौ विषुवभोगे ऽङ्गीकारः
१३ वृषाकपायि रेवति ...{Loading}...
वृषा॑कपायि॒(=वृषाकपितुये) रेव॑ति॒(=धनवति /ताराविशेषे!)
सुपु॑त्र॒ आद्(=ततः) उ॒ सुस्नु॑षे ।
(सूर्यस्य देवयाने यज्ञेषु) घस॑त्(=खादतु) त॒ इन्द्र॑ उ॒क्षणः॑(=वृषभान् / तारमण्डलविशेषस्थान्)
प्रि॒यं का॑चित् क॒रं(→कुरु) ह॒विर्
विश्व॑स्मा॒द् इन्द्र॒ उत्त॑रः ॥ १०.०८६.१३
१४ उक्ष्णो हि ...{Loading}...
उ॒क्ष्णो(=वृषभान् / तारमण्डलविशेषस्थान्) हि मे॒ पञ्च॑दश
सा॒कं पच॑न्ति विंश॒तिम् (तारागणनया) ।
उ॒ताहम् अ॑द्मि॒ पीव॒ इद्
उ॒भा कु॒क्षी पृ॑णन्ति मे॒
विश्व॑स्मा॒द् इन्द्र॒ उत्त॑रः ॥ १०.०८६.१४
इन्द्राण्युल्लासः
१५ वृषभो न ...{Loading}...
(इन्द्राणी -)
वृ॒ष॒भो न ति॒ग्म-शृ॑ङ्गो॒
ऽन्तर् यू॒थेषु॒ रोरु॑वत् (खे) ।
म॒न्थस् त॑ इन्द्र॒ शं हृ॒दे
यं ते॑ सु॒नोति॑(→साधयति) भाव॒युर् (इन्द्राणी)
विश्व॑स्मा॒द् इन्द्र॒ उत्त॑रः ॥ १०.०८६.१५
१६ न सेशे ...{Loading}...
न स+ई॒शे॒ यस्य॒ र(ल)म्ब॑ते
ऽन्त॒रा स॒क्थ्या॒३॒॑(=ऊर्वा) कपृ॑त्(=शेफः) ।
सेद् ई॑शे॒ यस्य॑ रोम॒शं(→उपस्थं)
नि॑षे॒दुषो॑ (मयि मग्नस्य) वि॒जृम्भ॑ते॒
(अतो मय्य् अवधेहि, न मृगे।)
विश्व॑स्मा॒द् इन्द्र॒ उत्त॑रः ॥ १०.०८६.१६
१७ न सेशे ...{Loading}...
(इन्द्रः - )
न स+ई॒शे॒ यस्य॑ रोम॒शं
नि॑षे॒दुषो॑ वि॒जृम्भ॑ते ।
सेदी॑शे॒ यस्य॒ र(ल)म्ब॑ते
ऽन्त॒रा स॒क्थ्या॒३॒॑ कपृ॒द्(=शेफः)
(त्वत्प्रभावस् तादृशः!)
विश्व॑स्मा॒द् इन्द्र॒ उत्त॑रः ॥ १०.०८६.१७
१८ अयमिन्द्र वृषाकपिः ...{Loading}...
(इन्द्राणी -)
अ॒यम् इ॑न्द्र वृ॒षाक॑पिः॒
पर॑स्वन्तं(=परस्वं) ह॒तं वि॑दत् ।
अ॒सिं सू॒नां नवं॑ च॒रुम्(=भाण्डम्)
आद्(=ततः) एध॑स्य॒(=काष्ठस्य) +अन॒(=शकटं) आचि॑तं॒(=पूर्णम्)
(प्रजापतेः शकट इत्यपि प्रसिद्धः वृषराशिः!)
विश्व॑स्मा॒द् इन्द्र॒ उत्त॑रः ॥ १०.०८६.१८
इन्द्रतोषः
१९ अयमेमि विचाकशद्विचिन्वन्दासमार्यम् ...{Loading}...
(इन्द्रः - )
अ॒यम् ए॑मि वि॒चाक॑शद्
विचि॒न्वन् दास॒म् आर्य॑म् ।
पिबा॑मि पाक॒(मानस)-सुत्व॑नो॒
ऽभि धीर॑म् अचाकशं॒
विश्व॑स्मा॒द् इन्द्र॒ उत्त॑रः ॥ १०.०८६.१९
२० धन्व च ...{Loading}...
धन्व॑(=खं) च॒ यत् कृ॒न्तत्रं॑(=कर्तनीयं →खगोलम्) च॒
कति॑ स्वि॒त् ता वि योज॑ना ।
नेदी॑यसो(=अन्तिकाद्) वृषाक॒पे
ऽस्त॒म् एहि॑ गृ॒हाँ उप॒
(इतः परं वृषराशौ खलु विषुवयागः, त्वत्पात्रं समाप्तम्।)
विश्व॑स्मा॒द् इन्द्र॒ उत्त॑रः ॥ १०.०८६.२०
२१ पुनरेहि वृषाकपे ...{Loading}...
पुन॒र् एहि॑ वृषाकपे
सुवि॒ता क॑ल्पयावहै (विषुवाद् ऊर्ध्वमं यदा सूर्यस् त्वाम् प्राप्स्यति)।
य ए॒ष (सूर्यः) स्व॑प्न॒-नंश॒नो(=नाशनः)
(तस्य) ऽस्त॒म् एषि॑ प॒था पुन॒र्
विश्व॑स्मा॒द् इन्द्र॒ उत्त॑रः ॥ १०.०८६.२१
२२ यदुदञ्चो वृषाकपे ...{Loading}...
यद् उद॑ञ्चो वृषाकपे
(तव) गृ॒हम् इ॒न्द्राज॑गन्तन ।
क्व१॒॑ स्य(=स) पु॑ल्व॒घो(=बहुभक्षो) मृ॒गः (सूर्येण सहोदयेनास्तं गतो विषुवाद् ऊर्ध्वम्)
कम् (देशम्) अ॑गञ्(=अगच्छत्) जन॒-योप॑नो॒(=मोदनः)
विश्व॑स्मा॒द् इन्द्र॒ उत्त॑रः ॥ १०.०८६.२२
मङ्गलम्
२३ पर्शुर्ह नाम ...{Loading}...
पर्शु॑र् ह॒ नाम॑ मान॒वी(→मनोः कालात् विषुवारम्भत्वात् पूज्यमाना)
(मृगेण) सा॒कं स॑सूव विंश॒तिम् (तारमण्डलीभूतान् १४तम उक्तान्)।
भ॒द्रं भ॑ल॒(=भेदक +असे) त्यस्या॑(=तस्या [इन्द्राण्या]) अभू॒द्
यस्या॑ उ॒दर॒म् आम॑य॒द् (भोजनेन)
विश्व॑स्मा॒द् इन्द्र॒ उत्त॑रः ॥ १०.०८६.२३