०८५ वध्वाशिषः सूर्यासूक्तात्

०१ सत्येनोत्तभिता भूमिः ...{Loading}...

सत्ये᳓नो᳓त्तभिता भू᳓मिस्
सू᳓र्येणो᳓त्तभिता द्यौः᳓ ।
ऋते᳓नाऽऽदित्या᳓स् ति᳓ष्ठन्ति
दिवि᳓ सो᳓मो अ᳓धि श्रितः᳓ ।+++(५)+++

०६ रैभ्यासीदनुदेयी नाराशंसी ...{Loading}...

रइ᳓भी आसीद् अनुदे᳓यी
नाराशंसी᳓ निओ᳓चनी
सूर्या᳓या भद्र᳓म् इ᳓द् वा᳓सो
गा᳓थयैति प᳓रिष्कृतम्

०७ चित्तिरा उपबर्हणं ...{Loading}...

चि᳓त्तिर् +++(देवता?)+++ आ+++(=आसीत्)+++ उपब᳓र्हणं
च᳓क्षुर् आ+++(=आसीत्)+++ अभ्य᳓ञ्जनम् । +++(वृत्रस्य कनीनिका परापतत्त्रिककुन्नाम पर्वते । तेन त्रैककुदेनाञ्जनसजातीयेन चक्षुषी अञ्जते । )+++
द्यौ᳓र् भू᳓मिः को᳓श आसीद्
य᳓द् अ᳓यात् सूर्या᳓ प᳓तिम् ॥७

०८ स्तोमा आसन्प्रतिधयः ...{Loading}...

+++(सूर्यारथे)+++ स्तो᳓मा +++(त्रिवृदादयः)+++ आसन् प्रतिध᳓यः
कुरी᳓रं छ᳓न्द ओपशः᳓+++(=येनोपशेरते सः)+++ ।
सूर्या᳓या +++(२)+++ अश्वि᳓ना +++(उपचाराय)+++ वरा᳓
ऽग्नि᳓रासीत् पुरोगवः᳓ ॥८

०९ सोमो वधूयुरभवदश्विनास्तामुभा ...{Loading}...

सो᳓मो वधूयु᳓र्+++(=वधूकामो, न वरः)+++ अभवद्
+++( रोहिण्या अपरस्यां दिशि मृगशीर्षे वर्तमानः सोमो वधूयुर् आसीद् इत्यपि समञ्जसम्।)+++
अश्वि᳓ना ऽऽस्ताम् उभा᳓ वरा᳓ ।
सूर्यां᳓ य᳓त् प᳓त्ये शं᳓सन्तीं +++(=कामयमानां)+++
म᳓नसा सविता᳓ददात् ॥९

१० मनो अस्या ...{Loading}...

म᳓नो अस्या अ᳓न+++(=रथ)+++ आसीद्
द्यौ᳓रासीदुत᳓ च्छदिः᳓ ।
शुक्रा᳓व्+++(=दीप्तौ [ग्रहौ कौचित्])+++ अनड्वा᳓हाव् आस्तां
+++(अथवोत्तरायणारम्भे ऽमावास्यायां सूर्याचन्द्रमसौ।)+++
य᳓द् अ᳓यात् सूर्या᳓ गृह᳓म् ॥१०

११ ऋक्सामाभ्यामभिहितौ गावौ ...{Loading}...

ऋक्सामा᳓भ्याम् अभि᳓हितौ
गा᳓वौ ते सामना᳓व्+++(=शान्ताव्)+++ इतः ।
श्रो᳓त्रं ते चक्रे᳓ आस्तां
दिवि᳓ प᳓न्थाश् चराचारः᳓+++(=ecliptic)+++ ॥११

१२ शुची ते ...{Loading}...

शु᳓ची ते चक्रे᳓ यातिया᳓
वियानो᳓ अ᳓क्ष आ᳓हतः
अ᳓नो मनस्म᳓यं सूर्या᳓
आ᳓रोहत् प्रयती᳓ प᳓तिम्

१३ सूर्याया वहतुः ...{Loading}...

सूर्या᳓या वहतुः᳓ प्रा᳓गात्
सविता᳓ य᳓मवा᳓सृजत् ।
अघा᳓सु+++(=मघासु इति शौनकसंहितायां)+++᳓ ह᳓न्य᳓न्ते+++(=ताड्यन्ते)+++ गा᳓वो᳓ +++(रथबन्धनाय)+++
ऽर्जुन्योः+++(=पल्गुनीषु इति शौनकसंहितायां)+++᳓ प᳓र्युह्यते ॥१३

१४ यदश्विना पृच्छमानावयातं ...{Loading}...

+++(हे अश्विनौ!)+++ य᳓द् अश्विना पृच्छ᳓मानाव्
अ᳓यातं त्रिचक्रे᳓ण +++(वक्ष्यन्ते चक्राण्यग्रे)+++ वहतुं᳓+++(=विवाहम्)+++ सूर्या᳓याः ।
वि᳓श्वे देवा᳓ अ᳓नु त᳓द् वाम् अजानन्
+++(रेवतीस्थत्वात्)+++ पुत्रः᳓ पित᳓राव् +++(अश्विनौ)+++ अवृणीत पूषा᳓ ॥१४

१५ यदयातं शुभस्पती ...{Loading}...

य᳓द् अ᳓यातं शुभस्+++(तोय)+++पती
वरेयं᳓+++(=वरणियां)+++ सूर्या᳓मु᳓प ।
क्वै᳓कं +++(वक्ष्यमाणं रहस्यं)+++ चक्रं᳓ वाम् आसीत् +++(अयनचलने सति)+++
क्व᳙ देष्ट्रा᳓य+++(=दानाय)+++ तस्थथुः ॥१५

१६ द्वे ते ...{Loading}...

द्वे᳓ ते चक्रे᳓ सूर्ये +++(ये सरत आकाशे। सूर्याचन्द्रमसौ)+++
ब्रह्मा᳓ण ऋतुथा᳓+++(=ऋतुषु)+++ विदुः ।
अ᳓थै᳓कं +++(अयनचलन-)+++चक्रं᳓ य᳓द् गु᳓हा
त᳓द् अद्धात᳓य+++(=मेधाविन)+++ इ᳓द् विदुः ॥१६

१७ सूर्यायै देवेभ्यो ...{Loading}...

सूरिया᳓यै देवे᳓भियो
मित्रा᳓य व᳓रुणाय च
ये᳓ भूत᳓स्य प्र᳓चेतस
इदं᳓ ते᳓भ्यो ऽकरं न᳓मः

१८ पूर्वापरं चरतो ...{Loading}...

पूर्वापरं᳓ चरतो माय᳓यैतौ᳓ +++(सूर्याचन्द्रमसौ)+++ शि᳓शू
क्री᳓ळन्तौ प᳓रि यातो अध्वर᳓म् ।
+++(तयोः)+++ वि᳓श्वान्य् अन्यो᳓ +++(सूर्यः)+++ भु᳓वना ऽभिच᳓ष्ट
ऋतूँ᳓र् अन्यो᳓ +++(चन्द्रमा)+++ विद᳓धज् जायते पु᳓नः ॥१८

१९ नवोनवो भवति ...{Loading}...

न᳓वोनवो भवति जा᳓यमानो᳓
ऽह्नां केतु᳓र् उष᳓साम् एत्य् अ᳓ग्रम् +++(कृष्णपक्षे)+++।
भागं᳓ +++(सोमपाभ्यो)+++ देवे᳓भ्यो वि᳓ दधात्य् आय᳓न्
प्र᳓ चन्द्र᳓मास् तिरते+++(=वर्धयति)+++ दीर्घ᳓म् आ᳓युः ॥१९

२० सुकिंशुकं शल्मलिं ...{Loading}...

सुकिंशुकं᳓ शल्मलिं᳓ विश्व᳓रूपं
हि᳓रण्यवर्णं सुवृ᳓तं सुचक्र᳓म् ।
आ᳓ रोह +++(देवि)+++ सूर्ये अमृ᳓तस्य लोकं᳓
स्योनं᳓ प᳓त्ये वहतुं᳓ कृणुष्व ॥२०

२१ उदीर्ष्वातः पतिवती ...{Loading}...

उ᳓दीर्ष्व᳓+++(=उद्गच्छ)+++ +अ᳓तः प᳓तिवती ह्ये३᳓षा᳓
विश्वा᳓वसुं न᳓मसा गीर्भि᳓र् ईळे ।
अन्या᳓म् इच्छ पितृष᳓दं व्य᳙क्तां
स᳓ ते भागो᳓ जनु᳓षा त᳓स्य विद्धि ॥२१

२२ उदीर्ष्वातो विश्वावसो ...{Loading}...

उदीर्ष्वा᳓ऽतो विश्वावसो +++(गन्धर्व)+++
न᳓मसेडामहे त्वा ।
अन्या᳓म् इच्छ प्रफर्व्यँ᳙+++(=प्रथमवयसं)+++
सञ्जायां᳓ प᳓त्या सृज ।

२३ अनृक्षरा ऋजवः ...{Loading}...

अनृक्षरा᳓+++(=कंटकशर्करादिरहिताः)+++ ऋज᳓वस् सन्तु प᳓न्था
ये᳓भिस् स᳓खायो य᳓न्ति नो वरेय᳓म्+++(=वरणीयं [कन्यायाः पित्रादिकं प्रति])+++ ।
स᳓म् अर्यमा᳓ सं᳓ भ᳓गो नो+++(=आवाम्, अस्मदो द्वयोश्च इति बहुवचनम्)+++ निनीयात्
स᳓ञ् जास्पत्यँ᳓+++(=जायापतिभावः)+++ सुय᳓मम् अस्तु देवाः ।+++(र५)+++

२४ प्र त्वा ...{Loading}...

प्र᳓ त्वा मुञ्चामि व᳓रुणस्य पा᳓शाद्
ये᳓न त्वा᳓बध्नात् सविता᳓ सुशे᳓वः
ऋत᳓स्य यो᳓नौ सुकृत᳓स्य लोके᳓
अ᳓रिष्टां त्वा सह᳓ प᳓त्या दधामि

२५ प्रेतो मुञ्चामि ...{Loading}...

प्रे᳓तो᳓ मुञ्चा᳓मि ना᳓मु᳓तः
सुबद्धा᳓म् अमु᳓तस् करम्
य᳓थेय᳓म् इन्द्र मीढुवः
सुपुत्रा᳓ सुभ᳓गा᳓सति

२६ पूषा त्वेतो ...{Loading}...

पूषा᳓ त्वा᳓+इतो᳓ नयतु ह᳓स्त-गृ᳓ह्या
ऽश्वि᳓नौ त्वा प्र᳓वहताँ र᳓थेन ।
+++(मदीयान्)+++ गृहा᳓न् गच्छ गृह᳓पत्नी
य᳓था᳓ ऽसो+++(=स्या)+++ वशि᳓नी त्वं᳓ विद᳓थम्+++(=यज्ञं)+++ आ᳓वदासि+++(=आवद)+++ ।। (2)

२७ इह प्रियं ...{Loading}...

इह᳓ प्रिय᳓म् प्रज᳓या ते स᳓म् ऋध्यताम्
अस्मि᳓न् गृहे᳓ गा᳓र्हपत्याय जागृहि
एना᳓ प᳓त्या तनु᳓वं सं᳓ सृजस्व
अ᳓धा जि᳓व्री विद᳓थम् आ᳓ वदाथः

२८ नीललोहितं भवति ...{Loading}...

नीललोहित᳓म् भवति
कृत्या᳓सक्ति᳓र् वि᳓ अज्यते
ए᳓धन्ते अस्या ज्ञात᳓यः
प᳓तिर् बन्धे᳓षु बध्यते

२९ परा देहि ...{Loading}...

प᳓रा देहि शामुलि᳓यम्
ब्रह्म᳓भ्यो वि᳓ भजा व᳓सु
कृत्यइ᳓षा᳓ पद्व᳓ती भूत्वी᳓
आ᳓ जाया᳓ विशते प᳓तिम्

३० अश्रीरा तनूर्भवति ...{Loading}...

अश्रीरा᳓ तनू᳓र् भवति
रु᳓शती पाप᳓यामुया᳓
प᳓तिर् य᳓द् वध्वो᳡ वा᳓ससा
स्व᳓म् अ᳓ङ्गम् अभिधि᳓त्सते

३१ ये वध्वश्चन्द्रं ...{Loading}...

ये᳓ वद्ध्व᳓श् चन्द्रं᳓+++(=आह्लादकं)+++ वहतुं᳓+++(=स्त्रीधनं)+++
य᳓क्ष्मा य᳓न्ति ज᳓नाँ अ᳓नु ।
पु᳓नस् ता᳓न् यज्ञि᳓या देवा᳓
न᳓यन्तु य᳓त आ᳓गताः ।+++(र४)+++

३२ मा विदन्परिपन्थिनो ...{Loading}...

मा᳓ विदन् परिपन्थि᳓नो
य᳓ आसी᳓दन्ति द᳓म्पती ।
सुगे᳓भिर् दुर्ग᳓म् +++(तौ)+++ अ᳓तीताम्
अ᳓प द्रा+++(द्रव)+++न्त्व् अ᳓रातयः ।

३३ सुमङ्गलीरियं वधूरिमां ...{Loading}...

सुमङ्गली᳓र् इयं᳓ वधू᳓र्
इमाँ᳓ समेत प᳓श्यत ।
सौ᳓भाग्यम् अस्यै᳓ दत्वा᳓या᳓+++(=दत्वा)+++-
ऽथा᳓ऽऽस्तं +++(स्वस्वगृहाणि)+++ वि᳓ प᳓रेतन+++(=गच्छत)+++ ।+++(र४)+++

३४ तृष्टमेतत्कटुकमेतदपाष्ठवद्विषवन्नैतदत्तवे सूर्यां ...{Loading}...

तृष्ट᳓म् एत᳓त् क᳓टुकम् एत᳓द्
अपाष्ठ᳓वद् विष᳓वन् नइ᳓त᳓द् अ᳓त्तवे
सूरियां᳓ यो᳓ ब्रह्मा᳓ विद्या᳓त्
स᳓ इ᳓द् वा᳓धूयम् अर्हति

३५ आशसनं विशसनमथो ...{Loading}...

आश᳓सनं विश᳓सनम्
अ᳓थो अधिविक᳓र्तनम्
सूर्या᳓याः पश्य रूपा᳓णि
ता᳓नि ब्रह्मा᳓ तु᳓ शुन्धति

३६ गृभ्णामि ते ...{Loading}...

गृभ्णा᳓+++(ह्णा)+++मि ते सुप्रजास्त्वा᳓य ह᳓स्तं
म᳓या प᳓त्या जर᳓दष्टिर् य᳓था᳓ ऽसः ।
भ᳓गो अर्यमा᳓ सविता᳓ पु᳓रन्धिर् +++(=बहुप्रज्ञा बहुकर्मा वा)+++
म᳓ह्यन् त्वा ऽदुर् गा᳓र्हपत्याय+++(=गार्हस्थ्याय)+++ देवाः ।+++(र५)+++

३७ तां पूषञ्छिवतमामेरयस्व ...{Loading}...

तां᳓ पूषञ् छिव᳓तमाम् ए᳓रयस्व
य᳓स्यां बी᳓जं मनुष्या᳙ व᳓पन्ति ।
या᳓ न ऊरू᳓ उशती᳓+++(=कामयमाना)+++ विस्र᳓+++(श्र)+++यातै+++(=विश्लिष्टौ कुर्यात्)+++
य᳓स्याम् उश᳓न्तः+++(=कामयमानाः)+++ प्र᳓हरेम शे᳓फम् ॥+++(५)+++ (11)

३८ तुभ्यमग्रे पर्यवहन्त्सूर्यां ...{Loading}...

+++(सूर्या नाम सवितुर्दुहिता विवाहस्य अधिष्ठात्री देवता - सूर्यासूक्ते दृश्या।)+++

तु᳓भ्यम् +++(अग्नये)+++ अ᳓ग्रे +++(गन्धर्वाः)+++ प᳓र्यवहन्त्
सूर्यां᳓ वहतु᳓ना सह᳓ ।
पु᳓नः प᳓तिभ्यो जायां᳓ दा᳓+++(ः)+++
अग्ने प्रज᳓या सह᳓ ।+++(र५)+++

३९ पुनः पत्नीमग्निरदादायुषा ...{Loading}...

पु᳓नः प᳓त्नीम् अग्नि᳓र् अदाद्
आ᳓युषा सह᳓ व᳓र्चसा ।
दीर्घायु᳓र् अस्या यः᳓ प᳓तिस्
स᳓ एतु शर᳓दश् शत᳓म् ॥+++(र५)+++

४० सोमः प्रथमो ...{Loading}...

सो᳓मः प्रथमो᳓ विविदे +++(लेभे)+++
गन्धर्वो᳓ विविद उ᳓त्तरः ।
तृती᳓यो अग्नि᳓ष् टे प᳓तिस्
तुरी᳓यस्ते मनुष्यजाः᳓ ।+++(र५)+++

४१ सोमो ददद्गन्धर्वाय ...{Loading}...

सो᳓मो ददद् गन्धर्वा᳓य
गन्धर्वो᳓ ददद् अग्न᳓ये
रयिं᳓ च पुत्रां᳓श् च अदाद्
अग्नि᳓र् म᳓ह्यम् अ᳓थो इमा᳓म्

४२ इहैव स्तं ...{Loading}...

इहइ᳓व᳓ स्तम् मा᳓ वि᳓ यौष्टं
वि᳓श्वम् आ᳓युर् वि᳓ अश्नुतम्
क्री᳓ळन्तौ पुत्रइ᳓र् न᳓प्तृभिर्
मो᳓दमानौ सुवे᳓ गृहे᳓

४३ आ नः ...{Loading}...

+++(गृहप्रवेशे - )+++

आ᳓ नः प्रजा᳓ञ् जनयतु प्रजा᳓पतिर्
आजरसा᳓य +++(स्नेहाय)+++ स᳓मनक्त्व् अर्यमा᳓ ।
अ᳓-दुर्-मङ्गलीः पतिलोक᳓म् आ᳓ विश
श᳓न् नो भव द्विप᳓दे श᳓ञ् च᳓तुष्पदे ।

४४ अघोरचक्षुरपतिघ्न्येधि शिवा ...{Loading}...

अ᳓घोरचक्षुर् अ᳓पतिघ्नी एधि
शिवा᳓ पशु᳓भ्यः सुम᳓नाः सुव᳓र्चाः
वीरसू᳓र् · देव᳓कामा सियोना᳓
शं᳓ नो भव द्विप᳓दे शं᳓ च᳓तुष्पदे

४५ इमां त्वमिन्द्र ...{Loading}...

इमा᳓न्त्व᳓म् इन्द्र मीढ्वस्+++(=वर्षक इन्द्र)+++
सुपुत्राँ᳓ सुभ᳓गां कुरु ।
द᳓शास्यां पुत्रा᳓ना᳓ धेहि
प᳓तिमेकादशं᳓ कृधि ।

४६ सम्राज्ञी श्वशुरे ...{Loading}...

सम्रा᳓ज्ञी श्व᳓शुरे भव
सम्रा᳓ज्ञी श्वश्रुवां᳓ भव ।
न᳓नान्दरि सम्रा᳓ज्ञी भव
सम्रा᳓ज्ञी अ᳓धि देवृ᳓षु ।+++(५)+++

४७ समञ्जन्तु विश्वे ...{Loading}...

स᳓मञ्जन्तु वि᳓श्वे देवाः᳓
स᳓मा᳓पो हृ᳓दयानि नौ ।
सं᳓ मातरि᳓श्वा सं᳓ धाता᳓
स᳓मु दे᳓ष्ट्री+++(=दात्री [फलानाम्])+++ दधातु नौ ॥