०५३ यम् ऐच्छाम

(५२ इत्यस्यानुवर्तनम्। परिचयो ५१ इत्यस्मिन् दृश्यताम्।)

मानुषाः -

०१ यमैच्छाम मनसा ...{Loading}...

य᳓मै᳓च्छाम म᳓नसा सो३᳓ ऽय᳓म् आ᳓गाद्+++(=आजगाम)+++
यज्ञ᳓स्य विद्वा᳓न् प᳓रुषश्+++(=अङ्गानां)+++ चिकित्वा᳓न् ।
स᳓ नो यक्षद् देव᳓ताता+++([तौ] - यज्ञे)+++ य᳓जीयान्+++(=यष्टृतरः)+++
नि᳓ हि᳓ ष᳓त्सद्+++(=सीदतु)+++ अ᳓न्तरः+++(=मध्यवर्ती)+++ पू᳓र्वो अस्म᳓त्+++(तः)+++ ॥१

०२ अराधि होता ...{Loading}...

अ᳓राधि+++(=असिद्ध्यत)+++ हो᳓ता निष᳓दा+++(=निषदनेन)+++ य᳓जीयान्
अभि᳓ प्र᳓यांसि+++(=अन्नानि)+++ सु᳓धितानि+++(=सुष्ठु निहितानि)+++ हि᳓ ख्य᳓त्+++(=ईक्षते)+++ ।
य᳓जामहै यज्ञि᳓यान् ह᳓न्त देवाँ᳓
ई᳓ळामहा ई᳓ड्याँ आ᳓ज्येन ॥२

०३ साध्वीमकर्देववीतिं नो ...{Loading}...

साध्वी᳓म् अकर्+++(=अकरोत्)+++ देव᳓-वीतिं नो अद्य᳓
यज्ञ᳓स्य जिह्वा᳓म् +++(खे विषुव-स्थानम्)+++ अविदाम +++(अयन-चलन-कारणेन)+++ गु᳓ह्याम् ।
स᳓ आ᳓युर्+++(=आयुष्यम् [वसानो])+++ आ᳓गात् सुरभि᳓र् व᳓सानो
भद्रा᳓म् अकर् देव᳓हूतिं नो अद्य᳓ ॥३

०४ तदद्य वाचः ...{Loading}...

त᳓दद्य᳓ वाचः᳓ प्रथमं᳓ म+++(ं)+++सीय+++(=उच्चारयामि)+++
ये᳓ना᳓सुराँ अभि᳓ देवा᳓ अ᳓साम+++(भवेम)+++ ।
ऊ᳓र्जाद+++(=अन्नाद)+++ उत᳓ यज्ञियासः प᳓ञ्च
जना म᳓म होत्रं᳓ जुषध्वम् ॥४

०५ पञ्च जना ...{Loading}...

+++(पञ्च जनाः = गन्धर्वा पितरो देवा असुरा रक्षांसि +इति क्वचित्।)+++

प᳓ञ्च ज᳓ना म᳓म होत्रं᳓ जुषन्तां
गो᳓+++(=भू)+++जाता उत᳓ ये᳓ यज्ञि᳓यासः । पृथिवी᳓ नः पा᳓र्थिवात् पात्व् अं᳓हसो
ऽन्त᳓रिक्षं दिव्या᳓त् पात्व् अस्मा᳓न् ॥५

०६ तन्तुं तन्वन्रजसो ...{Loading}...

त᳓न्तुं तन्व᳓न् र᳓जसो+++(=दिवः)+++ भानु᳓म् अ᳓न्विहि
ज्यो᳓तिष्मतः पथो᳓ रक्ष धिया᳓ कृता᳓न् ।
+++(तेन खगोलं, विषुव-स्थानञ् च साधु जानीहि!)+++
अन्-उल्बणं᳓+++(=उत्कटम् [ग्रन्थ्या])+++ वयत जो᳓गुवाम्+++(=स्तोतॄणाम्)+++ अ᳓पो+++(=कर्म)+++
+++(विषुव-स्थानीय! अग्ने)+++ म᳓नुर् भव, जन᳓या दै᳓व्यं ज᳓नम् ॥६

+++(अग्नये तन्तुमत इदं न मम)+++

यज्ञजिगमिषवो देवाः परस्परं ब्रुवते-

०७ अक्षानहो नह्यतनोत ...{Loading}...

+++(खगोल+)+++अक्षान᳓हो+++(=अक्षेषु नह्यान्)+++ नह्यतन+++(=नह्यत)++++उत᳓ सोम्या+++(=सोमार्हा)+++
+++(न्)+++इ᳓ष्-कृणुध्वं +++(अश्वबन्धनाय)+++ रशना᳓ आ᳓+उत᳓ पिंशत+++(=अलङ्कुरुत)+++ ।
अष्टा᳓-वन्धुरं+++(=सारथिनिस्थानम्)+++ वहताभि᳓तो र᳓थं
ये᳓न देवा᳓सो अ᳓नयन्न् अभि᳓ प्रिय᳓म् ॥७

+++(“Yet the axle and ropes here allude to the world frame being set in place”)+++

०८ अश्मन्वती रीयते ...{Loading}...

अ᳓श्मन्वती+++(=आकाशगङ्गा)+++ रीयते+++(=याति)+++ सं᳓ रभध्वम्+++(=त्वरध्वम्)+++
उ᳓त्तिष्ठत प्र᳓ तरता सखायः ।
अ᳓त्रा +++(नद्यां)+++ जहाम ये᳓ अ᳓सन्न्+++(=अभवन्)+++ अ᳓शेवाः+++(=असुखाः)+++
शिवा᳓न् वय᳓म् उ᳓त्तरेमाभि᳓ वा᳓जान्+++(=अन्नानि)+++ ॥८

+++( It clearly mentions crossing of the river ashmanvatI to the other side where the auspicious lies. This means that the new equinoctial position laid on the other side the ashmanvatI- the heavenly river the Milky Way… One can note that if the Milky was crossed by the equinoctial colure as indicated in the picture, the period was likely in a period after 4000 BC, possibly around 3700 BC by which the crossing was definitely over. - MT)+++

०९ त्वष्टा माया ...{Loading}...

त्व᳓ष्टा माया᳓ वेद्+++(=वेत्ति)+++ अप᳓साम्+++(=शोभनकर्मवतां)+++ अप᳓स्तमो
बि᳓भ्रत् पा᳓त्रा+++(णि)+++ देवपा᳓नानि श᳓न्तमा ।
शि᳓शीते+++(=तीक्ष्णयति)+++ नूनं᳓ परशुं᳓ स्वायसं᳓
ये᳓न वृश्चा᳓द् ए᳓तशो+++(=नानावर्णः/ प्रकाशमान्)+++ ब्र᳓ह्मणस्+++(=मन्त्र)+++प᳓तिः ॥९

१० सतो नूनं ...{Loading}...

सतो᳓ नूनं᳓ कवयः सं᳓ शिशीत+++(=तीक्ष्णी कुरुत)+++
वा᳓शीभिर्+++(=अस्त्रैः)+++ या᳓भिर् अमृ᳓ताय+++(=सोमाय)+++ त᳓क्षथ ।
विद्वां᳓सः पदा᳓ गु᳓ह्यानि कर्तन+++(=कुरुत)+++
ये᳓न देवा᳓सो अमृतत्व᳓म् आनशुः᳓+++(=प्राप्ताः)+++ ॥१०

११ गर्भे योषामदधुर्वत्समासन्यपीच्येन ...{Loading}...

+++(यज्ञो हि खगोले दृश्यमानस्य ऋतस्यानुकरणम्।)+++

+++(खचक्रस्य)+++ ग᳓र्भे यो᳓षाम्+++(=कन्याराशिम्)+++ अ᳓दधुर् +++(ख-)+++वत्स᳓म् +++(खचक्रस्य)+++ आस᳓नि᳓+++(=आस्ये)+++
+अपीच्ये᳙न+++(=गुह्येन)+++ म᳓नसोत᳓ जिह्व᳓या ।
स᳓ +++(ऋभुगणः)+++ विश्वा᳓हा+++(सर्वाहस्सु)+++ सुम᳓ना+++(=स्तुतीः)+++ योग्या᳓+++(ः)+++ अभि᳓
सिषास᳓निर्+++(=सम्भजनशीलः)+++ वनते+++(=यच्छति)+++ कार᳓ इ᳓ज् जि᳓तिम् ॥११

+++(“The yoShA being placed in the garbha is more obscure. Possibly it means Virgo, the yuvati being deposed from her place at the top of the ecliptic and being moved to the descent [Tilak mentions the Virgo full moon in the solsticial year beginning at an early era].”)+++

विस्वरपाठः

यमैच्छाम मनसा सोऽयमागाद्यज्ञस्य विद्वान्परुषश्चिकित्वान् । स नो यक्षद्देवताता यजीयान्नि हि षत्सदन्तरः पूर्वो अस्मत् ॥१॥ अराधि होता निषदा यजीयानभि प्रयांसि सुधितानि हि ख्यत् । यजामहै यज्ञियान्हन्त देवाँ ईळामहा ईड्याँ आज्येन ॥२॥ साध्वीमकर्देववीतिं नो अद्य यज्ञस्य जिह्वामविदाम गुह्याम् । स आयुरागात्सुरभिर्वसानो भद्रामकर्देवहूतिं नो अद्य ॥३॥ तदद्य वाचः प्रथमं मसीय येनासुराँ अभि देवा असाम । ऊर्जाद उत यज्ञियासः पञ्च जना मम होत्रं जुषध्वम् ॥४॥ पञ्च जना मम होत्रं जुषन्तां गोजाता उत ये यज्ञियासः । पृथिवी नः पार्थिवात्पात्वंहसोऽन्तरिक्षं दिव्यात्पात्वस्मान् ॥५॥ तन्तुं तन्वन्रजसो भानुमन्विहि ज्योतिष्मतः पथो रक्ष धिया कृतान् । अनुल्बणं वयत जोगुवामपो मनुर्भव जनया दैव्यं जनम् ॥६॥ अक्षानहो नह्यतनोत सोम्या इष्कृणुध्वं रशना ओत पिंशत । अष्टावन्धुरं वहताभितो रथं येन देवासो अनयन्नभि प्रियम् ॥७॥ अश्मन्वती रीयते सं रभध्वमुत्तिष्ठत प्र तरता सखायः । अत्रा जहाम ये असन्नशेवाः शिवान्वयमुत्तरेमाभि वाजान् ॥८॥ त्वष्टा माया वेदपसामपस्तमो बिभ्रत्पात्रा देवपानानि शंतमा । शिशीते नूनं परशुं स्वायसं येन वृश्चादेतशो ब्रह्मणस्पतिः ॥९॥ सतो नूनं कवयः सं शिशीत वाशीभिर्याभिरमृताय तक्षथ । विद्वांसः पदा गुह्यानि कर्तन येन देवासो अमृतत्वमानशुः ॥१०॥ गर्भे योषामदधुर्वत्समासन्यपीच्येन मनसोत जिह्वया । स विश्वाहा सुमना योग्या अभि सिषासनिर्वनते कार इज्जितिम् ॥११॥