(५१ इत्यस्यानुवर्तनम्। परिचयो ५१ इत्यस्मिन् दृश्यताम्।)
०९ तव प्रयाजा ...{Loading}...
दे᳓वाः᳓ -
त᳓व प्रयाजा᳓ अनुयाजा᳓श् च के᳓वल
ऊ᳓र्जस्वंतो हवि᳓षः संतु भागाः᳓ ।
त᳓वाग्ने यज्ञो३᳓ऽय᳓मस्तु स᳓र्वस्
तु᳓भ्यं नमन्तां प्रदि᳓शश् च᳓तस्रः ॥९
०१ विश्वे देवाः ...{Loading}...
अ᳓ग्निः᳓ -
वि᳓श्वे देवाः शास्त᳓न+++(=शासन्तु)+++ मा य᳓थेह᳓
हो᳓ता वृतो᳓+++(ऽहं)+++ मन᳓वै+++(=स्तौमि)+++ य᳓न् निष᳓द्य ।
प्र᳓ मे ब्रूत भाग-धे᳓यं य᳓था वो
ये᳓न पथा᳓ हव्य᳓मा᳓ वो व᳓हानि ॥१
०२ अहं होता ...{Loading}...
अहं᳓ हो᳓ता न्य᳙सीदं य᳓जीयान्
वि᳓श्वे देवा᳓ मरु᳓तो मा जुनन्ति+++(=प्रेरयन्ति)+++ ।
अ᳓हरहर् अश्विना᳓ ऽऽध्वर्यवं वां
ब्रह्मा᳓ समि᳓द्+++(=समिद्धश् [चन्द्रमाः])+++ भवति सा᳓ +++(चन्द्र एव)+++ ऽऽहुतिर् वाम् ॥२
०३ अयं यो ...{Loading}...
अयं᳓ यो᳓ हो᳓ता कि᳓र्+++(=कः)+++ उ[ँ] स᳓ +++(भरणीस्थ)+++यम᳓स्य?
+++(हुतम् चन्द्रम्)+++ क᳓म् अ᳓प्य् ऊहे+++(=वहति)+++ य᳓त् समञ्ज᳓न्ति देवाः᳓ ।
+++(सूर्यात्मना)+++ अ᳓हरहर् जायते +++(चन्द्रात्मना तु)+++ मासि᳓मास्य्
अ᳓था देवा᳓ दधिरे हव्यवा᳓हम् ॥३
०४ मां देवा ...{Loading}...
अ᳓ग्निः᳓ -
मां᳓ देवा᳓ दधिरे हव्यवा᳓हम्
अ᳓पम्लुक्तं+++(=अपक्रम्यागतं)+++ बहु᳓ कृच्छ्रा᳓ च᳓रन्तम् ।
अग्नि᳓र् विद्वा᳓न् यज्ञं᳓ नः कल्पया+++(य)+++ति
प᳓ञ्चयामं+++(“पाङ्क्तो यज्ञः”)+++ +++(सवनत्रयभेदेन)+++ त्रिवृ᳓तं सप्त᳓तन्तुम्+++(=सप्तभिश्छन्दोभिस् ततम्)+++ ॥४
०५ आ वो ...{Loading}...
आ᳓ वो यक्ष्य्+++(=अयाचे)+++ अमृतत्वं᳓ सुवी᳓रं
य᳓था वो देवा व᳓रिवः+++(=परिचर्यां)+++ क᳓रा+++(रवा)+++णि ।
आ᳓ बाह्वो᳓र् व᳓ज्रम् इ᳓न्द्रस्य धेयाम्+++(=ग्राहयाणि)+++
अ᳓थेमा᳓ वि᳓श्वाः पृ᳓तना जयाति ॥५
०६ त्रीणि शता ...{Loading}...
त्री᳓णि शता᳓ त्री᳓ सह᳓स्राण्य् अग्निं᳓
त्रिंश᳓च्च देवा᳓ न᳓व चासपर्यन्+++(=पर्यचरन्)+++ ।
औ᳓क्षन् घृतै᳓र् अ᳓स्तृणन् बर्हि᳓रस्मा
आ᳓द् +++(=ततः)+++ इ᳓द् +हो᳓तारं न्य᳙सादयन्त ॥६
+++(अत्र ३३३९ = saros/2, समानग्रहणकालभेदमानम् इति केचित्। )+++
(अङ्ग्रिमे ऽनुवर्तते।)
विस्वरपाठः
विश्वे देवाः शास्तन मा यथेह होता वृतो मनवै यन्निषद्य । प्र मे ब्रूत भागधेयं यथा वो येन पथा हव्यमा वो वहानि ॥१॥ अहं होता न्यसीदं यजीयान्विश्वे देवा मरुतो मा जुनन्ति । अहरहरश्विनाध्वर्यवं वां ब्रह्मा समिद्भवति साहुतिर्वाम् ॥२॥ अयं यो होता किरु स यमस्य कमप्यूहे यत्समञ्जन्ति देवाः । अहरहर्जायते मासिमास्यथा देवा दधिरे हव्यवाहम् ॥३॥ मां देवा दधिरे हव्यवाहमपम्लुक्तं बहु कृच्छ्रा चरन्तम् । अग्निर्विद्वान्यज्ञं नः कल्पयाति पञ्चयामं त्रिवृतं सप्ततन्तुम् ॥४॥ आ वो यक्ष्यमृतत्वं सुवीरं यथा वो देवा वरिवः कराणि । आ बाह्वोर्वज्रमिन्द्रस्य धेयामथेमा विश्वाः पृतना जयाति ॥५॥ त्रीणि शता त्री सहस्राण्यग्निं त्रिंशच्च देवा नव चासपर्यन् । औक्षन्घृतैरस्तृणन्बर्हिरस्मा आदिद्धोतारं न्यसादयन्त ॥६॥