०५१ महत् तद् उल्बम्

परिचयः

  • MT अत्र।

कथाभूमिका

वज्रभूतेन वषट्कारेण देवानां हविर्वहनेन च हतेषु भ्रातृषु कनिष्ठः सौचीको नामाग्निर्वषट्कारहविर्वहनाभ्यां भीतो देवेभ्यो निर्गत्यापः प्राविशत् । स च मत्स्यैः प्रदर्शितः सन्नन्वेष्टुमागतैर्देवैः सहेदमादिसूक्तत्रयेण संवादं कृतवान् ।

सूक्तत्रयोक्तार्थे तैत्तिरीयब्राह्मणम्-’ अग्नेस्त्रयो ज्यायांसो भ्रातर आसन् ते देवेभ्यो हव्यं वहन्तः प्रामीयन्त ’ (तै. सं. २. ६. ६) इत्यादि ।

पाठः

देववचनम् -

०१ महत्तदुल्बं स्थविरं ...{Loading}...

दे᳓व᳓व᳓च᳓न᳓म् -
मह᳓त् त᳓द् उ᳓ल्बं+++(=आवरणम् - खगोलम्!)+++ स्थ᳓विरं त᳓द् आसीद्
ये᳓ना᳓वि+++(वे)+++ष्टितः प्रविवे᳓शिथापः᳓ +++(=सूर्यपथि दक्षिणभागः)+++ ।
वि᳓श्वा अपश्यद् बहुधा᳓ ते अग्ने
जा᳓तवेदस् तन्वो᳙ देव᳓ ए᳓कः ॥१

+++(“Fire is the equinoctial colure.” - Santillana and Dechend "The point where he enters the waters is the intersection with the celestial equator. They mention that the Aztecs took Castor and Pollux to be the fire sticks from which men learned to make fire.")+++

अग्निवचनम् -

०२ को मा ...{Loading}...

अ᳓ग्नि᳓व᳓च᳓न᳓म् -

को᳓ मा ददर्श? कतमः᳓ स᳓ देवो᳓?
यो᳓ मे तन्वो᳙ बहुधा᳓ पर्य᳓पश्यत् ।
+++(अग्निः)+++ क्वा᳓ह +++(हे)+++ मित्रावरुणा क्षियन्त्य्+++(=निवसन्त्य्)+++
अग्ने᳓र् वि᳓श्वाः समि᳓धो देवया᳓नीः +++(=सूर्यपथ्य् उत्तरभागे वर्तमानाः)+++ ॥२

+++(विषुवस्थानस्थो ऽनुराधास्थो मित्रः, उत्तरायणारम्भस्थानस्थः शतभिषक्स्थो वरुणः।)+++

वरुणो ऽवदत् -

०३ ऐच्छाम त्वा ...{Loading}...

व᳓रु᳓णो᳓ ऽव᳓द᳓त् -

ऐ᳓च्छाम त्वा बहुधा᳓ जातवेदः
प्र᳓विष्टम् अग्ने अप्स्व् ओ᳓षधीषु ।
तं᳓ त्वा यमो᳓ अचिकेच् चित्रभानो
दश+अन्तरुष्या᳓द्+++(=गूढावासाद्)+++ अतिरो᳓चमानम् ॥३

+++(विषुवस्थानस्थं कृत्तिकास्थम् अग्निम् भरणिस्थो यमो ऽचिकद् इति +उत्तरायणारम्भस्थानस्थः शतभिषक्स्थो वरुणो वक्ति! अथवा कृत्तिकाभिरग्नेस् सम्बन्धः केवलं ४३०० वर्षेभ्यः पूर्वम् अजायत। ततः प्राक् खलु रोहिण्याम् अग्निरवर्तत। किञ्च तदपि स्थानं युक्तम् - अश्मन्वतीतरणप्रकरणम् अग्रे वक्ष्यमाणम् अभिलक्ष्य।)+++

अग्निः -

०४ होत्रादहं वरुण ...{Loading}...

अ᳓ग्निः᳓ -

होत्रा᳓दहं᳓ वरुण बि᳓भ्यद् आयं
ने᳓देव᳓ मा युन᳓जन्न् आ᳓त्र देवाः᳓ ।
त᳓स्य मे तन्वो᳙ बहुधा᳓ नि᳓विष्टा
एत᳓म᳓र्थं न᳓ चिकेताह᳓मग्निः᳓ ॥४

वरुणः -

०५ एहि मनुर्देवयुर्यज्ञकामोऽरंकृत्या ...{Loading}...

व᳓रु᳓णः᳓ -

ए᳓हि म᳓नुर् देवयु᳓र्+++(=देवेषु युक्तः)+++ यज्ञ᳓कामो
+++(आत्मानम्)+++ ऽरङ्कृ᳓त्या त᳓मसि क्षेष्य्+++(=वससि)+++ अग्ने ।
सुगा᳓न् पथः᳓ कृणुहि देवया᳓नान्
व᳓ह हव्या᳓नि सुमनस्य᳓मानः ॥५

अग्निः -

०६ अग्नेः पूर्वे ...{Loading}...

अ᳓ग्निः᳓ -

अग्नेः᳓ पू᳓र्वे भ्रा᳓तरो अ᳓र्थम् एतं᳓
+++(भूपतिभुवनपतिर्भूतानां पतिरिति +अयनचलनेन रिष्टाः)+++
रथी᳓वा᳓ध्वानम् अ᳓न्व्+++(=क्रमशः)+++ आ᳓वरीवुः ।
त᳓स्माद् भिया᳓ वरुण दूर᳓म् आयं
गौरो᳓ न᳓+++(=इव)+++ +++(इषु-)+++क्षेप्नो᳓र् अविजे+++(=अकम्पे)+++ ज्या᳓याः ॥६

+++("The mention of the archer shooting at the bull is important. It is an ancient motif in myth that is depicted in Egypt on the Dendera Zodiac. Here the goddess Satit shoots at Sirius which is the head of the Sothis cow! But in this instance the gaur bull is likely to be Taurus fleeing from the archer who is mR^igavyAdha (or could he gaur be another name for the antelope mR^iga?) for the Indo-Aryans.")+++

देवाः -

०७ कुर्मस्त आयुरजरं ...{Loading}...

दे᳓वाः᳓ -

कुर्म᳓स् त आ᳓युर् अज᳓रं य᳓द् अग्ने
य᳓था युक्तो᳓ जातवेदो न᳓ रि᳓ष्याः ।
अ᳓था वहासि सुमनस्य᳓मानो
भागं᳓ देवे᳓भ्यो हवि᳓षः सुजात ॥७

०८ प्रयाजान्मे अनुयाजाँश्च ...{Loading}...

+++(“त्वमजरो भविष्यसि, न रिष्टः कदाचिद्” इति देवदत्तं वरं सत्यञ् जातम् - अधुनायनांशप्रयोगेण। कृत्तिकासु वर्तमानो अग्निर् यथा विषुवस्थानस्थः स्यात्, तथा त्वयनांशश् चेतव्यः।)+++

अ᳓ग्निः᳓ -
प्रयाजा᳓न् मे अनुयाजां᳓श् च के᳓वलान्
+++(प्रत्यभिघारणात्)+++ ऊ᳓र्जस्वन्तं हवि᳓षो दत्त+++(लोट्, मध्यम, बहु)+++ भागं᳓ ।
घृतं᳓ चापां᳓ पु᳓रुषं चौ᳓षधीनाम्
+++(“शरीरदाया ह वा अग्नयो भवन्ति” इति च ब्राह्मणं, ‘ पुरुषाहुतिर् यस्य प्रियतमा’ इति च ॥)+++
अग्ने᳓श् च दीर्घ᳓म् आ᳓युर् अस्तु देवाः ॥८

+++(The fore- and after-offerings are the pra-yAjas and anu-yAja oblations made in the aprI rite. The kevala is the agni-only offering in the main course of the ritual.)+++

(अङ्ग्रिमे ऽनुवर्तते।)

विस्वरपाठः

महत्तदुल्बं स्थविरं तदासीद्येनाविष्टितः प्रविवेशिथापः । विश्वा अपश्यद्बहुधा ते अग्ने जातवेदस्तन्वो देव एकः ॥१॥ को मा ददर्श कतमः स देवो यो मे तन्वो बहुधा पर्यपश्यत् । क्वाह मित्रावरुणा क्षियन्त्यग्नेर्विश्वाः समिधो देवयानीः ॥२॥ ऐच्छाम त्वा बहुधा जातवेदः प्रविष्टमग्ने अप्स्वोषधीषु । तं त्वा यमो अचिकेच्चित्रभानो दशान्तरुष्यादतिरोचमानम् ॥३॥ होत्रादहं वरुण बिभ्यदायं नेदेव मा युनजन्नत्र देवाः । तस्य मे तन्वो बहुधा निविष्टा एतमर्थं न चिकेताहमग्निः ॥४॥ एहि मनुर्देवयुर्यज्ञकामोऽरंकृत्या तमसि क्षेष्यग्ने । सुगान्पथः कृणुहि देवयानान्वह हव्यानि सुमनस्यमानः ॥५॥ अग्नेः पूर्वे भ्रातरो अर्थमेतं रथीवाध्वानमन्वावरीवुः । तस्माद्भिया वरुण दूरमायं गौरो न क्षेप्नोरविजे ज्यायाः ॥६॥ कुर्मस्त आयुरजरं यदग्ने यथा युक्तो जातवेदो न रिष्याः । अथा वहासि सुमनस्यमानो भागं देवेभ्यो हविषः सुजात ॥७॥ प्रयाजान्मे अनुयाजाँश्च केवलानूर्जस्वन्तं हविषो दत्त भागम् । घृतं चापां पुरुषं चौषधीनामग्नेश्च दीर्घमायुरस्तु देवाः ॥८॥ तव प्रयाजा अनुयाजाश्च केवल ऊर्जस्वन्तो हविषः सन्तु भागाः । तवाग्ने यज्ञोऽयमस्तु सर्वस्तुभ्यं नमन्तां प्रदिशश्चतस्रः ॥९॥