००९ आपो हि ष्ठा

परिचयः

  • सिन्धूद्वीप ऋषिः। गायत्री। आपः।

पाठः

०१ आपो हि ...{Loading}...

आ᳓पो हि᳓ ष्ठा᳓ मयो-भु᳓वस्
ता᳓ न ऊर्जे᳓+++(जाः)+++ दधातन ।
महे᳓ र᳓णाय+++(=रमणीयाय)+++ च᳓क्षसे+++(=दर्शनाय)+++ ॥

०२ यो वः ...{Loading}...

यो᳓ वः शिव᳓तमो र᳓सस्
त᳓स्य भाजयतेह᳓ नः ।
उशती᳓र्+++(=कामयमाना)+++ इव मात᳓रः ॥

०३ तस्मा अरं ...{Loading}...

+++(रसाय)+++ त᳓स्मा अ᳓रं+++(=शीघ्रम्)+++ गमाम वो
यस्य +++(प्रभावेण)+++ क्ष᳓याय+++(=निवासाय)+++ जि᳓न्वथ+++(=प्रीणयथ)+++ ।
आ᳓पो +++(प्रजा)+++ जन᳓यथा च नः ॥
+++(चादिषु च इति न स्वर-निघातः। )+++

०४ शं नो ...{Loading}...

शं᳓ नो देवी᳓रभि᳓ष्टय
आ᳓पो भवन्तु पीत᳓ये ।
शं᳓ यो᳓र्+++(=[अ]मिश्रणाय)+++ अभि᳓ स्रवन्तु नः ॥ ०४॥

०५ ईशाना वार्याणां ...{Loading}...

ई᳓शाना वा᳓र्याणां+++(=वारिप्रभवानां)+++
क्ष᳓यन्तीश्+++(=निवासयित्रीः)+++ चर्षणीना᳓म्+++(=चलनशीलानाम्)+++ ।
अपो᳓ याचामि भेषज᳓म् ॥ ०५॥

०६ अप्सु मे ...{Loading}...

अप्सु᳓ मे सो᳓मो अब्रवीद्
अन्त᳓र् वि᳓श्वानि भेषजा᳓ +++(इति)+++ ।
अग्निं᳓ च विश्व᳓-शम्भुवम् +++(वर्तमानम् अपि)+++ ॥ ०६॥

०७ आपः पृणीत ...{Loading}...

आ᳓पः पृणीत᳓+++(=पूरयत)+++ भेषजं᳓
व᳓रूथं+++(=वर्म)+++ तन्वे३᳓ म᳓म ।
ज्यो᳓क् च सू᳓र्यं दृशे᳓ ॥ ०७॥

०८ इदमापः प्र ...{Loading}...

इद᳓म् आपः प्र᳓ वहत
य᳓त् किं᳓ च दुरितं᳓ म᳓यि ।
य᳓द् वाह᳓म् अभि-दुद्रो᳓ह
य᳓द् वा शेप᳓ उता᳓नृतम् ॥ ०८॥

०९ आपो अद्यान्वचारिषं ...{Loading}...

अ᳓पो+++(=कर्म)+++ अद्य᳓ +अ᳓न्वचारिषँ
र᳓सेन स᳓मगस्महि ।
प᳓यस्वान् अग्न आ᳓ गहि
तं᳓ मा सं᳓ सृज व᳓र्चसा ॥ ०९॥