०६७ २२-२७

२२ पवमानः सो ...{Loading}...

प᳓वमानः सो᳓ अद्य᳓ नः
पवि᳓त्रेण वि᳓चर्षणिः
यः᳓ पोता᳓ स᳓ पुनातु नः

२३ यत्ते पवित्रमर्चिष्यग्ने ...{Loading}...

य᳓त् ते पवि᳓त्रम् अर्चि᳓षि
अ᳓ग्ने वि᳓ततम् अन्त᳓र् आ᳓
ब्र᳓ह्म ते᳓न पुनीहि नः

२४ यत्ते पवित्रमर्चिवदग्ने ...{Loading}...

य᳓त् ते पवि᳓त्रम् अर्चिव᳓द्+++(=अर्चिष्मत्)+++
अ᳓ग्ने ते᳓न पुनीहि नः ।
ब्रह्म-सवैः᳓ पुनीहि नः ॥

२५ उभाभ्यां देव ...{Loading}...

उभा᳓भ्यां देव सवितः
पवि᳓त्रेण सवे᳓न च
मा᳐᳓म् पुनीहि विश्व᳓तः

२६ त्रिभिष्ट्वं देव ...{Loading}...

त्रिभि᳓ष् - ट्वं᳓ देव सवितर्
व᳓र्षिष्ठैः, सोम धा᳓मभिः ।
अ᳓ग्ने द᳓क्षैः - पुनीहि नः ॥

२७ पुनन्तु मां ...{Loading}...

पुन᳓न्तु मां᳓ देव-जनाः᳓
पुन᳓न्तु व᳓सवो धिया᳓ ।
वि᳓श्वे देवाः पुनीत᳓ मा
जा᳓तवेदः पुनीहि᳓ मा ॥