२२ पवमानः सो ...{Loading}...
पव॑मानः॒ सो अ॒द्य नः॑
प॒वित्रे॑ण॒ विच॑र्षणिः ।
यः पो॒ता, स पु॑नातु नः ॥
२३ यत्ते पवित्रमर्चिष्यग्ने ...{Loading}...
यत् ते॑ प॒वित्र॑म् अ॒र्चिष्य्
अग्ने॒ वित॑तम् अ॒न्तरा ।
ब्रह्म॒ तेन॑ पुनीहि नः ॥
२४ यत्ते पवित्रमर्चिवदग्ने ...{Loading}...
यत् ते॑ प॒वित्र॑म् अर्चि॒वद्(=अर्चिष्मत्)
अग्ने॒ तेन॑ पुनीहि नः ।
ब्र॒ह्म॒-स॒वैः पु॑नीहि नः ॥
२५ उभाभ्यां देव ...{Loading}...
उ॒भाभ्यां॑ देव सवितः
प॒वित्रे॑ण स॒वेन॑ च ।
मां पु॑नीहि वि॒श्वतः॑ ॥
२६ त्रिभिष्ट्वं देव ...{Loading}...
त्रि॒भिष् - ट्वं दे॑व सवित॒र्
वर्षि॑ष्ठैः, सोम॒ धाम॑भिः ।
अग्ने॒ दक्षैः॑ - पुनीहि नः ॥
२७ पुनन्तु मां ...{Loading}...
पु॒नन्तु॒ मां दे॑व-ज॒नाः
पु॒नन्तु॒ वस॑वो धि॒या ।
विश्वे॑ देवाः पुनी॒त मा॒
जात॑वेदः पुनी॒हि मा॑ ॥