०६७

०१ त्वं सोमासि ...{Loading}...

तुवं᳓ सोमासि धारयु᳓र्
मन्द्र᳓ ओ᳓जिष्ठो अध्वरे᳓
प᳓वस्व मंहय᳓द्रयिः

०२ त्वं सुतो ...{Loading}...

तुवं᳓ सुतो᳓ नृमा᳓दनो
दधन्वा᳓न् मत्सरि᳓न्तमः
इ᳓न्द्राय सूरि᳓र् अ᳓न्धसा

०३ त्वं सुष्वाणो ...{Loading}...

तुवं᳓ सुष्वाणो᳓ अ᳓द्रिभिर्
अभि᳓ अर्ष क᳓निक्रदत्
द्युम᳓न्तं शु᳓ष्मम् उत्तम᳓म्

०४ इन्दुर्हिन्वानो अर्षति ...{Loading}...

इ᳓न्दुर् हिन्वानो᳓ अर्षति
तिरो᳓ वा᳓राणि अव्य᳓या
ह᳓रिर् वा᳓जम् अचिक्रदत्

०५ इन्दो व्यव्यमर्षसि ...{Loading}...

इ᳓न्दो वि᳓ अ᳓व्यम् अर्षसि
वि᳓ श्र᳓वांसि वि᳓ सउ᳓भगा
वि᳓ वा᳓जान् सोम गो᳓मतः

०६ आ न ...{Loading}...

आ᳓ न इन्दो शतग्वि᳓नं
रयिं᳓ गो᳓मन्तम् अश्वि᳓नम्
भ᳓रा सोम सहस्रि᳓णम्

०७ पवमानास इन्दवस्तिरः ...{Loading}...

प᳓वमानास इ᳓न्दवस्
तिरः᳓ पवि᳓त्रम् आश᳓वः
इ᳓न्द्रं या᳓मेभिर् आशत

०८ ककुहः सोम्यो ...{Loading}...

ककुहः᳓ सोमियो᳓ र᳓स
इ᳓न्दुर् इ᳓न्द्राय पूर्वियः᳓
आयुः᳓ पवत आय᳓वे

०९ हिन्वन्ति सूरमुस्रयः ...{Loading}...

हिन्व᳓न्ति सू᳓रम् उ᳓स्रयः
प᳓वमानम् मधुश्चु᳓तम्
अभि᳓ गिरा᳓ स᳓म् अस्वरन्

१० अविता नो ...{Loading}...

अविता᳓ नो अजा᳓शुवः
पूषा᳓ या᳓मनि-यामनि
आ᳓ भक्षत् कनि᳓यासु नः

११ अयं सोमः ...{Loading}...

अयं᳓ सो᳓मः कपर्दि᳓ने
घृतं᳓ न᳓ पवते म᳓धु
आ᳓ भक्षत् कनि᳓यासु नः

१२ अयं त ...{Loading}...

अयं᳓ त आघृणे सुतो᳓
घृतं᳓ न᳓ पवते शु᳓चि
आ᳓ भक्षत् कनि᳓यासु नः

१३ वाचो जन्तुः ...{Loading}...

वाचो᳓ जन्तुः᳓ कवीना᳐᳓म्
प᳓वस्व सोम धा᳓रया
देवे᳓षु रत्नधा᳓ असि

१४ आ कलशेषु ...{Loading}...

आ᳓ कल᳓शेषु धावति
श्येनो᳓ व᳓र्म वि᳓ गाहते
अभि᳓ द्रो᳓णा क᳓निक्रदत्

१५ परि प्र ...{Loading}...

प᳓रि प्र᳓ सोम ते र᳓सो
अ᳓सर्जि कल᳓शे सुतः᳓
श्येनो᳓ न᳓ तक्तो᳓ अर्षति

१६ पवस्व सोम ...{Loading}...

प᳓वस्व सोम मन्द᳓यन्न्
इ᳓न्द्राय म᳓धुमत्तमः

१७ असृग्रन्देववीतये वाजयन्तो ...{Loading}...

अ᳓सृग्रन् देव᳓वीतये
वाजय᳓न्तो र᳓था इव

१८ ते सुतासो ...{Loading}...

ते᳓ सुता᳓सो मदि᳓न्तमाः
शुक्रा᳓ वायु᳓म् असृक्षत

१९ ग्राव्णा तुन्नो ...{Loading}...

ग्रा᳓व्णा तुन्नो᳓ अभि᳓ष्टुतः
पवि᳓त्रं सोम गछसि
द᳓धत् स्तोत्रे᳓ सुवी᳓रियम्

२० एष तुन्नो ...{Loading}...

एष᳓ तुन्नो᳓ अभि᳓ष्टुतः
पवि᳓त्रम् अ᳓ति गाहते
रक्षोहा᳓ वा᳓रम् अव्य᳓यम्

२१ यदन्ति यच्च ...{Loading}...

य᳓द् अ᳓न्ति य᳓च् च दूरके᳓
भयं᳓ विन्द᳓ति मा᳓म् इह᳓
प᳓वमान वि᳓ त᳓ज् जहि

०६७ २२-२७ ...{Loading}...

२२ पवमानः सो ...{Loading}...

प᳓वमानः सो᳓ अद्य᳓ नः
पवि᳓त्रेण वि᳓चर्षणिः
यः᳓ पोता᳓ स᳓ पुनातु नः

२३ यत्ते पवित्रमर्चिष्यग्ने ...{Loading}...

य᳓त् ते पवि᳓त्रम् अर्चि᳓षि
अ᳓ग्ने वि᳓ततम् अन्त᳓र् आ᳓
ब्र᳓ह्म ते᳓न पुनीहि नः

२४ यत्ते पवित्रमर्चिवदग्ने ...{Loading}...

य᳓त् ते पवि᳓त्रम् अर्चिव᳓द्+++(=अर्चिष्मत्)+++
अ᳓ग्ने ते᳓न पुनीहि नः ।
ब्रह्म-सवैः᳓ पुनीहि नः ॥

२५ उभाभ्यां देव ...{Loading}...

उभा᳓भ्यां देव सवितः
पवि᳓त्रेण सवे᳓न च
मा᳐᳓म् पुनीहि विश्व᳓तः

२६ त्रिभिष्ट्वं देव ...{Loading}...

त्रिभि᳓ष् - ट्वं᳓ देव सवितर्
व᳓र्षिष्ठैः, सोम धा᳓मभिः ।
अ᳓ग्ने द᳓क्षैः - पुनीहि नः ॥

२७ पुनन्तु मां ...{Loading}...

पुन᳓न्तु मां᳓ देव-जनाः᳓
पुन᳓न्तु व᳓सवो धिया᳓ ।
वि᳓श्वे देवाः पुनीत᳓ मा
जा᳓तवेदः पुनीहि᳓ मा ॥

२८ प्र प्यायस्व ...{Loading}...

प्र᳓ प्यायस्व प्र᳓ स्यन्दस्व
सो᳓म वि᳓श्वेभिर् अंशु᳓भिः
देवे᳓भ्य उत्तमं᳓ हविः᳓

२९ उप प्रियं ...{Loading}...

उ᳓प प्रिय᳓म् प᳓निप्नतं
यु᳓वानम् आहुतीवृ᳓धम्
अ᳓गन्म बि᳓भ्रतो न᳓मः

३० अलाय्यस्य परशुर्ननाश ...{Loading}...

अला᳓यियस्य परशु᳓र् ननाश
त᳓म् आ᳓ पवस्व देव सोम
आखुं᳓ चिद् एव᳓ देव सोम

३१ यः पावमानीरध्येत्यृषिभिः ...{Loading}...

यः᳓ पावमानी᳓र् अध्ये᳓ति
ऋ᳓षिभिः स᳓म्भृतं र᳓सम्
स᳓र्वं स᳓ पूत᳓म् अश्नाति
स्वदित᳓म् मातरि᳓श्वना

३२ पावमानीर्यो अध्येत्यृषिभिः ...{Loading}...

पावमानी᳓र् यो᳓ अध्ये᳓ति
ऋ᳓षिभिः स᳓म्भृतं र᳓सम्
त᳓स्मै स᳓रस्वती दुहे
क्षीरं᳓ सर्पि᳓र् म᳓धूदक᳓म्