01 उपास्मै गायता - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
उ᳓पास्मै गायता नरः
प᳓वमानाय इ᳓न्दवे
अभि᳓ देवाँ᳓ इ᳓यक्षते
मूलम् ...{Loading}...
उपा॑स्मै गायता नरः॒ पव॑माना॒येन्द॑वे ।
अ॒भि दे॒वाँ इय॑क्षते ॥
02 अभि ते - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
अभि᳓ ते म᳓धुना प᳓यो᳓
ऽथर्वाणो अशिश्रयुः +++(=मिश्रितवन्तः)+++।
देवं᳓ देवा᳓य देवयु᳓+++(←देवकामम्)+++ ॥
मूलम् ...{Loading}...
अ॒भि ते॒ मधु॑ना॒ पयोऽथ॑र्वाणो अशिश्रयुः ।
दे॒वं दे॒वाय॑ देव॒यु ॥
03 स नः - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
स᳓ नः पवस्व शं᳓ ग᳓वे
शं᳓ ज᳓नाय श᳓म् अ᳓र्वते+++(=वाजिने)+++ ।
शं᳓ राजन्न् ओ᳓षधीभ्यः ॥
मूलम् ...{Loading}...
स नः॑ पवस्व॒ शं गवे॒ शं जना॑य॒ शमर्व॑ते ।
शं रा॑ज॒न्नोष॑धीभ्यः ॥
04 बभ्रवे नु - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
बभ्र᳓वे नु᳓ स्व᳓-तवसे+++(=बलाय)+++
ऽरुणा᳓य दिवि-स्पृ᳓शे ।
सो᳓माय गाथ᳓म् अर्चत ॥
मूलम् ...{Loading}...
ब॒भ्रवे॒ नु स्वत॑वसेऽरु॒णाय॑ दिवि॒स्पृशे॑ ।
सोमा॑य गा॒थम॑र्चत ॥
05 हस्तच्युतेभिरद्रिभिः सुतम् - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
ह᳓स्त-च्युतेभिर् अ᳓द्रिभिः
सुतं᳓ सो᳓मं पुनीतन ।
म᳓धाव् आ᳓ धावता म᳓धु ॥
मूलम् ...{Loading}...
हस्त॑च्युतेभि॒रद्रि॑भिः सु॒तं सोमं॑ पुनीतन ।
मधा॒वा धा॑वता॒ मधु॑ ॥