[[ऋग्भाष्यम् Source: EB]]
[
**श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमदृग्भाष्ये **
प्रथमाष्ठकस्य प्रथमोध्यायः ॥
श्रीगुरुभ्यो नमः ॥
नारायणं निखिƒपूर्णगुणार्णमुच्चसूर्यामितद्युतिमशेषनिरस्तदोषम् ।
सर्वेश्वरं गुरुमजेशनुतं प्रणम्य वक्ष्याम्यृर्थमतितुष्टिकरं तदस्य ॥
ओमाशेषगुणाधार इति नारायणोप्यसौ । पूर्णो भूतिवरोनन्तसुखो यद् व्याहृतीरितः ॥
गुणैस्ततः प्रसविता वरणीयो गुणोन्नतेः । भारतिज्ञानरूपत्वात् भर्गो ध्येयोखिƒैर्जनैः ॥
प्रेरकोशेषबुद्धीनां स गायत्र्यर्थ ईरितः ॥
स पूर्णत्वात् पुमान् नाम पौरुषे सूक्त ईरितः । स एवाखिƒवेदार्थः सर्वशास्त्रार्थ एव च ॥
स एवाखिƒशब्दार्थः इत्याहोपनिषत् परा । ता वा एता ऋच इति विशेषेणाप्यृगर्थताम् ॥
यो देवानामिति श्रुत्या देवानाम्ना विशेषतः । स्पष्टत्वात् तद्गतत्वेन
सूक्त1
तत्राहाग्नेग्निनामकम् । अग्रणीत्वं यदग्नित्वमित्यग्रे नाम तद्भवेत् ॥
एवमेवाह भगवान् निरुक्तिं बादरायणः ॥
यथैवाग्न्यादयः शब्दाः प्रवर्तन्ते जनार्दने । तथा निरुक्तिं वक्ष्यामो ज्ञानिनां ज्ञानसिद्धये ॥
इति तेनाग्निशब्दोयमग्र एवाभिपूज्यताम् । अग्र्यत्वमग्रनेतृत्वमत्तिमङ्गागनेतृताम् ॥
आह तं स्तौम्यशेषस्य पूर्वमेव हितं प्रभुम् । ऋत्विङ्नियामकत्वेन यज्ञानामृत्विजं सदा ॥
द्योतनात् विजयात् कान्त्या स्तुत्या व्यवहृतेरपि । गत्या रत्या च देवाख्यं होतृसंस्थं विशेषतः ॥
अग्निसंस्थेन रूपेण यतोग्निर्होतृदेवता । इन्द्रियाग्निषु चार्थानां यद्धोता होतृनामकः ॥
रतिधारकोत्तमत्वात् स रत्नधातम ईरितः ॥ 1 ॥
सः पूर्वैर्नूतनैरेष्यैर्विज्ञानादृषिनामकैः । ईड्यो देवादिभिः सर्वैः स च देवानिहानयेत् ॥ 2 ॥
तेनैव रयिमाप्नोति वित्तं विद्याधनात्मकम् । दिवसे दिवसे नित्यं पुष्टिमेव न हीनताम् ॥
यशश्च पुत्रसंयुक्तं वीर्यवत्तमेव वा ॥ 3 ॥
यं यज्ञं परितो भूत्वा रक्षसि त्वं सदैव च । विधिमार्गस्थितं देवान् स एवाप्नोत्यसंशयम् ॥4॥
सोखिƒग्रहणप्रज्ञः सद्गुणैः सन्ततोखिƒम् । यमयत्यग्रकीर्तिनामुत्तमो विबुधैः सह ॥
आगन्ताखिƒभक्तानां पूजास्वीकारतत्परः ॥5॥
यजमानाय यद्भद्रं कर्तुमिच्छति सत्प्रिय । त्वच्चेष्टयैव कर्माणि वर्तयित्वा तदीहनम् ॥
तवैव सत्यमङ्गानां रस यद्वह्निगो हरिः । अङ्गिरा अङ्गिरःपुत्रो यतोग्निरभवत् क्वचित् ॥6॥
वस्तर्दिनमहोरात्रमभीष्ट प्राणिनां सदा । अल्पा अपि वयं बुद्ध्या त्वामुच्चगुणमीश्वरम् ॥
उपयाम मनःकर्मवाग्भिस्त्वन्नमसम्भराः ॥7॥
देदीप्यमानं स्वे सद्मन्यध्वरेशं सदावृधम् । यथार्थज्ञानगोपं त्वामुपेमसि…..॥8॥
…..पितेव नः ।
सूपाश्रयो भव त्वं च यद्वदौरससूनवे । रक्ष सन्ततसौख्याय सम्यक् सत्वाय वा सदा ॥9॥
****************************************************************
मुनिस्तु सर्वविद्यानां भगवान् पुरुषोत्तमः । विशेषतश्च वेदानां यो ब्रह्माणमिति श्रुतिः ॥
ऋग्वेदादिकमस्यैव श्वसितं प्राह चापरा । वाचो बभूवुरुशतीर्हयग्रीवादिति स्फुटम् ॥
वचो भागवतेप्यस्ति ब्रह्माण्डेपि तथापरम् ॥
हयग्रीवादिमाः विद्याः श्वसितत्वेन निःसृताः । ब्रह्मणा स्वीकृतास्ताश्च रुद्रशेषविपा अपि ॥
दक्षाद्याः सनकाद्याश्च शक्राद्याः मनवस्तथा । जगृहुस्ते च विश्वस्मिंश्चक्रुर्व्याप्तास्ततोखिƒाः ॥
उक्तं पद्मपुराणे च कपिƒो भगवानजः । प्रोवाच ब्रह्मणे विद्याः हृदिस्थो बादरायणः ॥
ओङ्कारपूर्वका विद्याः प्रेरयत्यखिƒेष्वपि । सदैव ब्रह्मणे पूर्वं इति सात्त्वतसंहिता ॥
सकृन्निगदमात्रेण गृहीतं ब्रह्मणाखिƒम् । अन्तर्गतस्य व्यासस्य प्रसादान्नित्यशक्तितः ॥
तेन चानन्तशक्तित्वात् युगपत्समुदीरितम् । प्रथमप्रतिपत्तृत्वात् मुनिबर्रह्माखिƒस्य च ॥
सुपर्णोखिƒवेदानां पञ्चरात्रस्य नागराट् । द्वितीयप्रतिपत्तृत्वात् मुनित्वे सम्प्रकीर्तितौ ॥
यः पश्यति स्वयं वाक्यं स ऋषिस्तस्य कीर्तितः । अर्वाक्तु द्वादशावृत्तेरधीत्याप्यृषिरेव सः ॥
यत्स्वयं प्रतिभातस्य निश्चयार्थं गुरोर्वचः । सुपर्णादेर्विरिञ्चस्य केवƒं धर्मकारणम् ॥
ऋचामृषिस्ततऋ शक्रो यजुषां सूर्य एव च । सोमः साम्नां तृतीयास्ते प्रतिपत्तार ईरिताः ॥
अथर्वाङ्गिरसामग्निरेकर्षिश्चाप्यथर्वणाम् । इत्युक्ताः समुदायस्य सन्त्यन्ये च पृथक् पृथक् ॥
एतज्ज्ञानाददृष्टस्य फƒस्याप्तिः स्फुटं भवेत् । द्रष्टृणां च चतुर्थानां ज्ञानादप्यैहिकं भवेत् ॥
ते चैकस्यापि बहवः स्युः सूक्तस्यार्थ एव वा । तस्यां तस्यामवस्थायां तत्तत्प्राप्तिविशेषतः ॥
तेषां वाक्यस्वरूपेण प्रार्थनादिषु पश्यति । विष्णुबर्रह्मा सुपर्णो वा तत्तद्योग्यार्थभेदतः ॥
सर्ववेदाभिमानित्वाच्छ्रीबर्रह्माणी च भारती । द्रष्ट्र्यश्च सर्वविद्यानां व्याख्यातो ब्रह्मणा मरुत् ॥
स्वभर्त्रनन्तरं द्रष्ट्र्यस्तेभ्यस्तन्नोदिता हिरुक् । ताः स्तुवन्ति हरिं नित्यं विद्याभिस्ते च सर्वशः ॥
छन्दस्त्वेन मुनित्वेन तासां स्मृतिरुदीरिता । स्मर्तव्यास्ते च सर्वेपि मुनित्वेन पृथक् पृथक् ॥
गायत्री बृहती चैव ताः सर्वाः गरुडस्तथा । ब्रह्माण्यनुष्टुबिन्द्राणी त्रिष्टुप् स्वाहेति चोच्यते ॥
गायत्री जगती चैव वारुणी रोहिणी तथा । अनुष्टुप् बृहती चैव तारा पङ्क्तिः शची तथा ॥
उष्णिक् सौरी जगत्यश्च सर्वदेवस्त्रियो मताः । विराण्मित्रावरुणयोर्भार्ये इति च कीर्तिते ॥
अतिच्छन्दांसि सर्वाणि सर्वदेव्यः प्रकीर्तिताः । विराडिति च नामासां तास्ता ऊनाधिकेष्वपि ॥
निचृद्भुरिग्विराट्सञ्ज्ञाः प्रस्तारेत्यादि नाम च ॥
बह्वीनामेकमानेन त्वेकं नाम च युज्यते । सर्वाभिमानिता चैव तिसृणां च यथाक्रमम् ॥
देवता सर्वविद्यानां स्वयं नारायणः स्वयम् । ऋते तत्र प्रसिद्धाश्च देवता श्रीस्तथात्र च ॥
ऋते प्रसिद्धा ब्रह्मैव ततस्तेन क्रमेण च । पूर्वप्रसिद्धवर्जं तु शक्रान्ता देवता मताः ॥
ब्रह्मवायू गिरौ वीन्द्रशेषरुद्राश्च तत्स्त्रियः । शक्रकामौ कामपुत्रमनुदक्षाङ्गिरःसुताः ॥
तद्वच्छची रतिः सूर्यसोमधर्मादितत्स्त्रियः । प्रधानमरुतो वारिपतिरग्निश्च मारुताः ॥
निर्ऋतिः स्त्रियश्च सूर्यादेरश्विनावितरे तथा । अनन्तकोटिशतकदशार्धद्यंशतः क्रमात् ॥
ज्ञानभक्तिबƒैश्वर्यपूर्वाखिƒगुणैरपि । मुक्तावपि क्रमो ह्येष देवता उदिता इमाः ॥
इन्द्रावरा विशेषेण िƒङ्गेनैव पृथक् पृथक् । देवतास्तत्र तत्र स्युरेष एव परो विधिः ॥
वेदादिवर्णपर्यन्तैः मूर्तयः केशवस्य तु । समासव्यासयोगेन वाच्यास्तात्पर्यतः पृथक् ॥
यथायोगं यथान्यायमन्यासामपि मूर्तयः ॥
ऋक्संहितायां स्वाध्याये निरुक्ते व्यासनिर्मिते । प्रवृत्ते चैतदखिƒमुक्तं हि प्रभुणा स्वयम् ॥
सर्वे वेदाश्च नामानि ता वा एता ऋचस्तथा । इन्द्रं मित्रं च वरुणमित्याद्यत्र प्रमा परा ॥
देवतातारतम्यं च सर्वोत्कृष्टं च केशवम् । ज्ञात्वैव मुच्यते ह्यस्मान्नान्यथा तु कथञ्चन ॥
इति पैङ्गिश्रुतिश्चाह दृश्यतेत्र च सर्वशः ॥
न ते महित्वमित्यादिनैश्वरानेव केवƒान् । गुणान् विष्णोः श्रुतिः ह्याह नैव दोषान् कथञ्चन ॥
जाता परि बभूवेति मर्यादा ब्रह्मणोपि हि । नैव रेमेबिभेद् ब्रह्मा नासीदित्यादिकानपि ॥
दोषान् रुद्रे च तानेव न मिनन्तीति पूर्वकान् । यं कामये तं तमुग्रं रुद्राय धनुरित्यपि ॥
अस्य देवस्य मा शिश्नदेवा अपि गुरित्यपि । घ्नञ्छिश्नदेवानित्याद्या दोषा बहव ईरिताः ॥
ततो वितिष्ठे योनिः स एतावत्यहमित्यपि । अन्याश्रयत्वं देव्याश्च कथितं बहुशोपि हि ॥
तदाश्रयत्वमन्येषामपि तत्रैव निश्यात् ॥
ब्रह्मैवाग्र इति ह्युक्त्वा रुद्रादीनां ततो जनिः । उक्ता जातानि विश्वानि स पर्यभवदित्यपि ॥
यस्य छायामृतं मृत्युरिति चादरतोब्रवीत् ॥
अनन्तादवरेशाना तस्याः प्राणस्ततश्च वाक् । तस्या रुद्र उमा तस्मादिन्द्रस्तस्यास्ततोपरे ॥
सौपर्णश्रुतिरित्याह सप्ताक्षितय इत्यपि ॥
वायुरस्मा उपामन्थत् विश्वदेवाय वायवे । विश्वेदेवैः स इत्याद्याः प्रमा अत्रापरा अपि ॥
नारायणोदितिवार्युर्वाणी रुद्र उमा विभुः । इतरे च क्रमाद्धीनाः शतांशाद्वायुतोवराः ॥
इति बर्कश्रुतिश्चाह शक्रान् सप्ताक्षितिश्रुतिः । अयं त एमि तन्वेतिपूर्वा अन्या अपि स्फुटम् ॥
वायोराधिक्यमप्याहुः इन्द्रं सोमं हुताशनम् ॥
सूर्यं रुद्रमिमान् पञ्च देवानेको महात्मनः । सृजत्यत्ति महान् प्राण इति चाह तुरश्रुतिः ॥
वि हि सोतोरसृक्षत नेन्द्रं देवममंसत । यत्रामदत् वृषाकपिरर्यः पुष्टेषु मत्सखा ॥
न यस्येन्द्र इति ह्याह विष्णोरिन्द्रस्य हीनताम् ॥
वेधा अजिन्वदित्यदिवचनं विष्णुनामतः । आनन्दश्रुतिरप्यस्य जीवतामेव दर्शयेत् ॥
आह सूर्यादपीन्द्रस्य वायोर्विष्णोरपीशताम् । यः सूर्यं य उषसं म्रियन्ते पञ्च देवताः ॥
चक्षुषा द्यौश्चादित्यश्च चक्षोः सूर्य अजायत । यमादित्यो न वेदेतिपूर्वा श्रुतिरथापराः ॥
विष्णोर्वातो अजनिष्ट वातादिन्द्रस्ततो रविः । सोमश्चेति ƒयोप्येवं पूर्वे पूर्वे गुणाधिकाः ॥
विष्णोः प्राणो अजनिष्ट प्राणादिन्द्रो रविर्विधुः । ƒयोप्येतादृशस्तेषां पूर्वः पूर्वो गुणाधिकः ॥
तुरश्रुतिश्च सौपर्णी पिङ्गश्रुतिरपीदृशी । अतः सर्वाधिको विष्णुर्निणीतः श्रुतिसञ्चयात् ॥
अतो दोषवचो यत्र तद् वाक्यमवरं वदेत् । निर्दोषतयैव विष्णोस्तु क्रमान्मध्यगतेष्वपि ॥
त्रयोर्थाः सर्ववेदेषु दशार्थाः सर्वभारते । विष्णोः सहस्रनामापि निरन्तरशतार्थकम् ॥
इति स्कान्दवचो यस्मादर्थभेदव्यपेक्षया । निर्दोषत्वं हरेर्वक्ति दोषमन्येष्वपि क्रमात् ॥
तारतम्यस्य विज्ञप्त्यै वचो दोषस्य चार्थवत् । गुणा श्रुता इति ह्याह गुणैकनियतिं हरौ ॥
निर्दोषगुणपूर्णश्च विष्णुरेको न चापरः । अपूर्णा दोषरहिता मायैका तद्वशैव च ॥
अदोषः प्रायशो ब्रह्मा दोषवन्तः क्रमात् परे । इति मान्यश्रुतिश्चाह भेदोर्थानां ततो मतः ॥
रूढिमेव समाश्रित्य विभज्यर्थान् यथाक्रमम् । विदोषगुणपूत्यर्थं विष्णौ योगार्थमानयेत् ॥
पश्चादेव यथायोगमितरेष्वपि सन्नयेत् । ऋग्वेदसंहितायां च प्रभुणैवं समीरितम् ॥
पृथग् रूपाणि विष्णोस्तु देवतान्तरगाणि च । अग्न्यादिसूक्तवाच्यानि नाम्ना सूक्तभिदा भवेत् ॥
नकिर्माकिः स्मसीत्यादि प्रोक्ताधिक्यविवक्षया । आधिक्येधिकमित्येव हरिणा सूत्रमीरितम् ॥
कृत्वी हत्वीतिपूर्वांश्च तृतीयोतिशये यतः । विश्ƒिष्टार्थे च विश्ƒिष्टमूनार्थे चोनमिष्यते ॥
व्यत्ययोभेदकरणस्वातन्त्र्येषु समीरितः ॥
अभेदो हरिरूपाणां गुणानां च क्रियासु च । तस्यैवावयवानां च भेदः श्रीब्रह्मपूर्वकैः ॥
मुक्तैरपि जडैर्भेदः कैमुत्यादेव दृश्यते । ऋग्वेदसंहितायां च प्रोक्तमेतत् समस्तशः ॥
अभेदः स्वगुणाद्यैश्च मुक्तानामपि सर्वशः । भेदाभेदस्त्वभेदश्च गुणैः संसारिणामपि ॥
जडानामंशतोभेदः समुदायेन चोभयम् ॥
मनुष्यगन्धर्वपितृगणकार्मिकतात्विकाः । देवाः शक्रः शिवो ब्रह्मा मुक्तौ सौख्यादिभिर्गुणैः ॥
शतायुतोत्तरा नित्यमन्योन्यप्रीतिसंयुताः । इति सिद्धान्तगं वाक्यं स्वयं भगवतेरितम् ॥
स्वाध्यायस्तत्त्वविज्ञानं विष्णुभक्तिर्विरागिता । निषिद्धकर्मसन्त्यागो विहितस्य सदा क्रिया ॥
सदा विष्णुस्मृतिश्चैव केवƒं मोक्षसाधनम् । एतैर्विना न मोक्षः स्यात् भवेदेतैरपि ध्रुवम् ॥
ऋषिच्छन्दोदैवतानि ज्ञात्वार्थं चैव भक्तितः । स्वाध्यायेनैव मोक्षः स्यात् विरक्तस्य हरिस्मृतेः ॥
जप्येनैव तु संसिद्ध्येत् ब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वा कुर्यात् मैत्रो ब्राह्मण उच्यते ॥
तस्मान्नित्यं हरिं ध्यायेत् कुर्यात् स्वाध्यायमञ्जसा । ऐहिकामुष्मिका भोगा रक्तस्यान्यस्तु मुच्यते ॥
इति स्वाध्यायवचनं स्वयं भगवतोदितम् ॥
स्वाध्यायात्तु प्रवचने सहस्रगुणितं फƒम् । अर्थद्रष्टुः कोटिगुणं ततोनन्तं नियामके ॥
तर्कागमाभ्यां नियतिं यः करोत्यधिकं ततः । पूर्णं वेदाखिलƒद्रष्टुबर्रह्मणः फƒमुच्यते ॥
दार्ढ्यमेवानुदात्तार्थं उदात्तस्योच्चतार्थता । नीचता स्वरितस्यार्थः प्रचयस्य यथास्थितिः ॥
समाहारेखिƒला अर्थाः स्वरार्थानामियं स्थितिः ॥
स्तुत्यधर्मस्य भेदेन पदाद्यादिस्वरे भिदा । साधारणो विधिस्त्वेव विशेषो यत्र यत्र च ॥
क्रमादेव तदन्येषामृष्यादीनां स्वयोग्यतः । विपर्ययार्थकथने विपरीतं तथा तमः ॥
यावत् प्रयोजको ज्ञाने तावत् तावच्छुभाधिकः । तथैव विपरीतेपि स्मृतौ ज्ञाने च तत् समम् ॥
तमोनिरयमानुष्यस्वर्गमोक्षातिरेकतः । योग्यतातारतम्येन फƒं सर्वेषु चोच्यते ॥
इति प्रवृत्तवचनं विवेकेप्येतदीरितम् ॥
यादृशो योग्यतां यायात् स ज्ञेयोर्थस्तथा स्फुटम् । अनन्तनियमैर्युक्ता अनन्तार्थविशेषिणः ॥
वेदा इति समासेन नियमोयं समीरितः ॥
ऋक्संहितागतं वाक्यमिति चान्यन्नियामकम् । तस्मात् वन्द्याश्च पूज्याश्च ब्रह्माद्याः ज्ञानयोजकाः ॥
गुरुत्वेन क्रमेणैव विशेषेणैव केशवः ॥
आरभ्य स्वगुरुं यावद् विष्णुरेवोत्तरोत्तराः । क्रमान्निष्फƒतान्यत्र गुरुतत्त्वे समीरितः ॥
एवं स्थितेग्निगं विष्णुमग्निनामानमेव च । मधुच्छन्दा ऋक्शतेन वाय्वादिगतमेव च ॥
साग्न्यादिं स्तौति सद्भक्त्या तत्तन्नामानमेव च ॥
****************************************************************
सूक्त2
बƒत्वादयनाच्चैव वायुरित्यभिधीयते । वात्यायुरिति वा ज्ञानात् वरणादाश्रयत्वतः ॥
वय बन्धन इत्यस्मात् संसारादेर्व्ययादपि । व्यैत्यस्मिन्निति वा वायुर्वय श्रेष्ठत्व इत्यपि ॥
मुख्यतो वासुदेवे ते गुणाः सन्त्येव सर्वशः । अनिषिद्धास्तदन्येषु यथायोग्यतया मताः ॥
दर्शतस्ततदृष्टित्वात् सर्वज्ञोसौ यतो विभुः । भक्त्याद्यƒङ्कृताः सोमा मनांस्यन्ये हिरण्यतः ॥
हिरण्याƒङ्कृता यस्माद् हूयन्ते वायवे सुताः ॥
तान् पाहि श्रुधि चाह्वानं स्वातन्त्र्ये व्यत्ययोप्ययम् । मनोपि भोग्यमीशस्य प्रीतिमात्रेण केवƒम् ॥
गुणाधिक्यं येन भवेत् वेदस्यार्थः स एव हि । प्रयोजकत्वान्नान्यस्य फƒाभावात् तदर्थता ॥
उपक्रमादयो यत्र तात्पर्यार्थः स एव हि ॥ 1 ॥
स्तुवन्ति शस्त्रैः स्तोतारो यथावत् यज्ञवेदिनः ॥ 2 ॥
वाक् त्वत्सम्पर्किणी यज्ञकृते प्रापयतीप्सितम् । सोमपायातिमहती महार्थत्वात् त्वदर्थतः ॥3॥
इन्द्रः स परमैश्वर्यादिदमुद्दिश्य च द्रुतेः । ददर्शेदं दीप्तिमत्वादिदं रातीति वा भवेत् ॥
सोमाभिमानिनो देवा वामिच्छन्ति हि सोमगाः । प्रियैरुपागतं तेनोपेन्द्रः सङ्कर्षणो हरिः ॥
द्विरूपत्वात् बहुत्वं च विशेषादेव केवƒम् । एकस्यैव हरेर्नात्र भेदः शङ्क्यः कथञ्चन ॥
एकमेवाद्वितीयं नेह नानास्ति किञ्चन । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥
यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति । एवं धर्मान् पृथक् पश्यंस्तानेवानु विधावति ॥
उक्त्वा धर्मान् पृथक्त्वस्य निषेधादेवमेव हि । विशेषो ज्ञायते श्रुत्या भेदादन्यश्च साक्षितः ॥4॥
विजानतः सुतानन्नपतौ सूर्ये सदा स्थितौ । द्रवद् द्रुतं सुतात्पर्यद्योतकोभ्यास इष्यते ॥5॥
यजन् सुन्वन् कृतस्यानुसारि कर्मैव निष्कृतम् । तदर्थं क्षिप्रमायातं धियेत्थम्भूतयाचƒौ ॥
नरौ तावविनाशित्वादुपचारः क्वचित् भवेत् । अमरत्ववद् यतो मोक्षो देवतानां सुनिश्चितः ॥6॥
मित्वा त्रातीति मित्रोयं मितमह्ना करोति वा । मितं रातीति वा नित्यं मितं रमयतीति वा ॥
आवृणोतीति वरुणस्तमसाज्ञानतोपि वा । वरमुन्नयनीत्यस्मात् वरानन्दत्वतोपि वा ॥
पूता दक्षा अनेनेति पूतदक्ष इतीरितः । तमाह्वयामि सुखिनं शमदन् रमते यतः ॥
अनूनसुखभोक्तृत्वात् रिशादा इति कीर्तितः ॥
हरिर्घृतः सुशुद्धत्वात् घृताची च तदञ्चनात् । स्वधीतिसाधको विष्णुर्भक्तानां च यथार्थतः ॥7॥
नित्यवृद्धः स भगवानृतेनानुपचारतः । ऋतस्पृग् वेदवाच्यत्वादन्यो चेत् भगवानृतः ॥
ऋ गतावित्यतः सर्ववस्तुष्वनुगतत्वतः । तेन वृद्धौ तत्स्पृशौ च सर्वदा मित्रवारिपौ ॥
संहितायां तु दैर्घ्यादिरुक्ताधिक्ये पदेन्यथा । अनन्यार्थत्वविज्ञप्त्या ईशाथे च महाक्रतुम् ॥
महत् सुखं वा ………… ॥8॥
…..तुविजौ ब्रह्मजातौ तथाविधौ । हरिस्तथैव भूतत्वात् स्थानं क्षय इहोच्यते ॥
कर्मापसं च कर्तारं दक्षं कर्तारमेव वा । अस्मदर्थे दधाते तौ नित्यं बुद्धौ गतागतौ ॥9॥
****************************************************************
सूक्त 3
अन्नानि यज्ञयोग्यानि क्षिप्रहस्तौ शुभाधिपौ । बहुगौपौ बहुभुजौ नो योजयतमश्विनौ ॥
यज्ञे वृत्तान् स्वभागान् वा संयोजयतमाशु वै ॥
आशु वानाद् गतेरश्वी क्षिप्रावगतितोथवा । अश्नुतेखिƒमित्येवाप्यश्वजत्वात् तथाश्विनौ ॥1॥
बहुकर्मकृतौ सौख्यवीर्यात्मिक्या धिया गिरः । अस्मदीयाः सम्भजनं धिष्ण्यौ सर्वाश्रयौ सदा ॥2॥
भेदकौ सर्वशत्रूणां दस्रौ सम्बन्धिनो हि वाम् । सुता युवाकवः सोमा चज्वनः स्तृतबर्हिषः ॥
नासत्यौ नासिकासंस्थौ नैव चासद्गुणौ क्वचित् । रुजां द्रवणतो रुद्रो वायुतदनुवर्तनात् ॥
स्नेहतोनुवशत्वात् वा तन्मार्गगतितोथवा । कस्मिन् न्वहमिति श्रुत्या वासुदेवोश्विनावपि ॥
रुद्रवर्तनिशब्दोक्ताः ….. ॥3॥
….. चित्रं भद्रं रतं चितौ । चिद्रतेश्चायनीयत्वाददनात् वा चितोभिदा ॥
तादृशा रश्मयो ज्ञानमस्येति भगवान् परः ॥
चित्रभानुरिति प्रोक्तस्तेजो वा तादृशं प्रभोः । त्वदिच्छवः इमे सोमा पटीभिः सूक्ष्मतन्तुभिः ॥
विस्तृत्य शोधिताः सूक्ष्मप्रमाभिर्वा मनांसि च ॥
सोमानां मनसां चैव देवताः सोमरश्मिगाः । सोमभृत्याः समस्तस्य सोम एवाधिपो हरिः ॥4॥
अस्मद्बुद्ध्या प्रार्थितो वा स्वबुद्ध्या प्रेरितोपि वा । ब्राह्मणैः प्रेरितो भक्त्या वदतो होतुरञ्जसा ॥
ब्रह्माणि सोमयुक्तानि यजमानस्य वेच्छतः ॥
उपायाह्यपि यः कोपि साधको यज्ञकृन्मतः । मानसो वाचिको वा स्यात् यज्ञो होता ह्वयन् स च ॥5॥
वेगवांस्तूतुजानः स्यात् संसारमुपसंहरन् । वर्तते येन हरिवा हरिभिर्वर्ततेथवा ॥
हरणात् विषयाणां च प्राणा हरय ईरिताः । तेषु वर्तत इत्यस्मात् तान् वाथ गमयेदसौ ॥
हरिवा हरिवान् वापि विष्णुना वर्ततेथवा । चनो मन इह प्रोक्तं सुखं च क्वचिदीर्यते ॥6॥
आ समन्तात् स्वीकृता मा ओमा इति च कीर्तिताः । ओनामा भगवान् विष्णुस्तेन वा निर्मिताः सुराः ॥
ओता मानेषु मा वैषु प्रोता ओमा इतीरिताः । प्रजाश्चर्षणयः प्रोक्ताः विश्वे ते च प्रवेशनात् ॥
सर्वे वाथ विशां वानाच्छब्दः कस्मै यथा भवेत् । दातारो यजमाना वा ….. ॥7॥
….. अप्तुरः कर्मवेगिनः । उस्रास्तु रश्मयश्चैव स्वसराणि दिनानि च ॥8॥
असंसारादस्त्रिधस्ते देवाश्चेन्मोक्षनिश्चयात् । यथेष्टनिश्चितज्ञाना एहिमायाः समन्ततः ॥
अदुःखत्वादद्रुहस्ते मेधं यज्ञं जुषन्तु नः । वह्नयो वहनादस्य …… ॥9॥
……शोधकत्वात्तु पावकाः ॥
सरणात् सर्वगतत्वेन सर्वज्ञो वा सरो हरिः । सरसः सरतित्वात् वा तद्वत्येव सरस्वती ॥
हरौ गुणाः सरःशब्दा देवी तु हरिवाचिनौ ॥
हरिप्रियत्वतो वायुः सरस्वांस्तत्प्रियाथवा । गुणस्वेन ततत्वाद्वा भगवांस्तु सरस्वती ॥
स्त्रीरूपश्चैव पुंरूपो भगवान् न नपुंसकः । स्त्रीषु दोषविहीनत्वादपि तच्छब्दगोचरः ॥
अन्नेनो वाजिनामीशो वाजिनी सूर्य उच्यते । वाजीनच्छब्दसां वापि स्वामी प्रोक्तः स वाजिनी ॥
छन्दांस्यश्वा यतस्तस्य ते चेना अन्यवाजिनाम् । अन्नवत्वात् वाजिनी वाग् ज्ञानयुद्धत्वतोपि वा ॥
स पुत्रो वागुमा तस्याः पुत्री तद् वाजिनीवती । सरस्वती हरिर्वापि यज्ञं वहतु नोशनैः ॥
अन्नदा हि सदा देवी धिया सह वसेद् यतः । धियावसुर्नित्यबोधा …… ॥10॥
सुवाचां प्रेरिका सदा ॥
सुबुद्धिज्ञापिका सैव स्वातन्त्र्याल्लुप्तयो भवेत् । अनेनैव प्रकारेण सैव यज्ञादिधारिणी ॥11॥
महो अर्णः परं ब्रह्म तेजस्त्वाच्च महत्वतः । अरमानन्दरूपत्वाण्णो हि निर्वृत्तिवाचकः ॥
तज्ज्ञापयति सा देवी ज्ञानं दत्वा महत्तरम् ॥
महो अर्णः स्वयं देवः स्वमात्मानं प्रकाशयेत् । विराजयति विश्वाश्च धियः सुज्ञानदानतः ॥12॥
सूक्तं त्वनारतं प्रोक्तमनुवागेककािƒका । अन्यथात्वं च तत्र स्यादावापोद्वापतस्त्वृचाम् ॥
वेदानन्तत्वविज्ञप्त्यै तौ चक्रे बादरायणः ॥
ऋचः स ऋच उद्धृत्य ऋग्वेदं कृतवान् प्रभुः । यजूंषि निगदाच्चैव तथा सामानि सामतः ॥
एवं पुरामवचनादुद्धृता हि ततस्ततः । ऋचः शाखात्वमापन्नाः शिष्यतच्छिष्यकैरिमाः ॥
मानःस्तेनेतिपूर्वासु ह्यूनता दृश्यतेर्थतः । शुनश्शेपोदिताभ्यश्च पठ्यन्तेन्यत्र काश्चन ॥
अत्राप्यक्रमतो दृष्टिरिति नैकक्रमो भवेत् । अनन्तत्वात् तु वेदानां प्रायः कर्मानुसारतः ॥
सङ्क्षेपं कृतवान् देवः शिष्याश्च तदनुज्ञया । अष्टकाध्यायवर्गादिभेदं च कृतवान् स्वयम् ॥
स्वाध्यायविश्रमार्थाय तस्मात् क्रमविपर्ययः । तत्र तत्रैवान्तरिता दृश्यन्ते च खिƒा अपि ॥
यत्रार्थे न विशेषोस्ति पदान्तरिततात्र च । यत्राल्पोपि विशेषोस्ति पदं नान्तरितं भवेत् ॥
****************************************************************
सूक्त 4
विष्णुं सुरूपकर्तारमभिप्रेतार्थसिद्धये । त्राणाय वा कामधेनुमिव दोहाय तत्स्थितेः ॥
दिने दिने स्वाह्वयामः ….. ॥1॥
…… ज्ञानदोस्यैव चाधिकम् । ज्ञानाख्यरयियुक्तस्य हिरण्यादिमतोपि वा ॥
सुखकारी भवान् ….. ॥2॥
…. तस्माल्लभेम सुमतीस्तव । अन्ते मितास्त्वद्विषया मतयो ह्युत्तमोत्तमाः ॥
अस्मानतीत्य मा पश्य करुणार्द्रदृशा सदा ॥3॥
मन्मनो वाथ शक्रो वा दूरेपि परमेश्वरम् । गच्छाग्राह्यमनष्टं च व्याप्तचित्तं य एव च ॥
सखिभ्य उत्तमो नित्यम् …. ॥4॥
…. निदस्तस्य समीपगाः । तेपि ब्रुवन्तु नो देवं प्रापुर्ये चान्यतोपि तम् ॥
निर्गत्याज्ञानतस्त्वस्माद्दधाना ईश एव च । दुवः प्राणान् ब्रुवन्त्वेव तेपि नः परमेश्वरम् ॥5॥
अस्योपि प्रजा अस्मान् वोचेयुः सुभगान् सदा । शत्रुभेदिस्तवेन्द्रस्य स्यामैवानुग्रहे सुखे ॥6॥
आशुवीर्य तवैवाशुं सोमं क्षिप्रं मनोपि वा । आभरं स्वोदरे तुष्ट्या हृदि वा यज्ञभूषणम् ॥
ईमेव पुम्मदकरं मदादुत्पनादिके । हेतुं मन्दत्वहेतुं च तत्सखीनां पुरोगतेः ॥7॥
एनं पीत्वा बहुज्ञानाभूस्तमोभिरनावृताः । प्रसादादेव मुक्तेषु तमोसह्यतया घनः ॥
आवृतेरेव वृत्राणि ह्यज्ञानान्यन्नदं नरम् । प्रावो युद्धेषु योद्धारं भक्तं ज्ञानिनमेव च ॥8॥
योधयामो वयं तं त्वां ज्ञानादिधनƒब्धये । अज्ञानाद्यस्मदरिभिः ….. ॥9॥
….. योशेषद्रविणावनिः । सुखदः संसृतेः पारस्तस्मा इन्द्राय गायत ॥
कम्पोशेग्रहे क्वापि ƒज्जायां वा पुरातने । पृथक्त्वे पृष्यतायां वा हरिणर्क्संसंहितोदितः ॥10॥
****************************************************************
सूक्त 5
सुपूर्णानां पूर्णतमं वरेण्यानामधीश्वरम् । सुते सोमे सुखेनैव सचा गायत तं प्रभुम् ॥1-2॥
मुक्तौ योगायासमन्तात् भवेन्नो घोवधारणे । स एव भगवान् ज्ञानवित्ताय स च बुद्धिग ॥
बुद्धिः पुराश्रयत्वेन पुरन्धिः पत्न्यपि वा । पत्न्यर्थत्वे तु तादर्थ्यं सोन्नैः सह न आव्रजेत् ॥3॥
यस्य स्थितौ न वृणते हर्यग्रमपि शत्रवः । मनः पुरो वा विषयहरणान्मन एव च ॥
बुद्धिश्च हरिशब्दोक्ते तमआदीनि शत्रवः ॥4॥
सोमपे शुचयः सोमाः प्राप्त्यै दधिविमिश्रिताः । मनांसि ध्यानयुक्तानि वायान्ति हरये सदा ॥5॥
सदा पूर्णः शुभज्ञान ज्यैष्ठ्यव्यक्त्यै सुताप्तये । न क्षुदादेरभिव्यक्तोभवः ….. ॥6॥
…. गीर्भिवृतं प्रभो । प्रकृष्टचेतास्त्वद्भृत्यो योस्मै स्युः शङ्कराः सुताः ॥7॥
व्यञ्जयन्त्यधिकं स्तोमा साम्युक्थान्यृक्षु चैव हि । महागुणैर्व्यञ्जयन्तु गिरोस्माकमपि प्रभो ॥
आकाशवृद्धिवत् वृद्धिः विष्णौ स्यान्नैव चान्यथा । न वर्द्धते नो कनीयान् इति ह्येनं श्रुतिर्जगौ ॥
महातात्पर्यरोधाच्च श्रुत्यर्थो नापरो भवेत् । यद्यन्यापेक्षया वृद्धिरीशत्वं स्यात् कुतोस्य च ॥
अक्षितोतिरिति ह्यस्मान् पूर्णाभिप्रायतोदिता ॥8॥
अनन्तफƒदं वाजमस्मत्तो ƒभतां स च । ददातु वा पौरुषाणि शक्तयो यत्र चाखिƒाः ॥
अतश्चानन्तशक्तित्वान्न वृद्ध्याद्याः कथञ्चन । सर्वोपेतेत्येतमर्थमभिप्रेत्याह वेदराट् ॥9॥
मा मर्ता नस्तनूनां तु द्रोग्धारः स्युः कथञ्चन । ईशोस्यपाकुरु वधं तेन नो मुक्तिदानतः ॥
मनुष्येभ्यस्तनूनां च नैव नः स्युर्विपत्तयः । काƒेन दैवतः प्राप्तो स्याददेहत्वतो वधः ॥10॥
****************************************************************
सूक्त 6
पौंस्यानि वासुदेवस्य ब्रध्नं वृद्धं दिवाकरम् । अरुणं चरन्तं परितो गिरीन् युञ्जन्ति सर्वदा ॥
तैरेवान्यानि चन्द्रादिरोचनानि त्रिविष्टपे । रोचयन्ति …… ॥1॥
…. हरी चास्य मनोबुद्धौ स्वशक्तयः । युञ्जन्त्यधिगुणत्वेन काम्यावश्ववथापि वा ॥
विशिपक्षसंयुक्ताविव क्षिप्रतरी सदा । रथे देहेपि वा देवाः स्वमनो बुद्धिमेव च ॥
अस्य देहे प्रयुञ्जन्ति सूर्यादीन् स्थापयन्ति च । सूर्यादिस्थापकत्वं च ब्रह्मादीनां भवेत् सदा ॥
शोणौ च शमणौ प्रोक्तौ सुखप्राप्तौ यतः सदा । श्यामौ मूर्द्धनि शोणौ च शक्राश्वावग्रगौ स्मृतौ ॥
दृष्टौ नॄन् प्रति तं चेशं वहन्तौ तावुभावपि ॥2॥
अज्ञाय कुर्वन् सज्ज्ञानं हेमाहेमाय चेश्वरः । उषद्भिः सम्प्रकाशद्भिः शक्तिभिर्व्यक्ततामगाः ॥
मर्या मरणवन्तोपि देवा एवम् … ॥3॥
…. हरेर्वशात् । तदैव सुखमन्वेव पुनर्गूढत्वमापिरे ॥
स्वेच्छयैव परेशस्य शक्तयो देवता अपि । यज्ञे वाच्यं दधानाश्च नाम ॥4॥
….वीƒु दृढं ह्यपि । आरुजद्भिः स्वसामर्थ्यैर्गुहायां संस्थितोपि सन् ॥
वहद्भिरखिƒं ƒोकं प्रकाशत्वानि ƒब्धवान् । देवैर्वैतादृशैः साकमानुकूल्येन ƒब्धवान् ॥5॥
सम्यक् प्रद्योतयन्तोमुं मतिरूपं यथास्थितम् । विदद्वित्तं महान्तं च विश्रुतं सुगिरोस्तुवन् ॥6॥
तस्य सन्दर्शनायैव सङ्गतस्तेन शङ्करः । मखात्मा पुरुहूतो वा श्रीर्भूमी च सुखाधिके ॥7॥
अनवद्यैर्महाज्ञानैः प्रियैर्देवगणैः सह । वायुना च सहार्चन्ति सुधीत्वात् परमेश्वरम् ॥8॥
अतो हेतुरिहायाहि दिवो वा सूर्यमण्डƒात् । परिज्मन् सर्वगास्माकमधिकृत्य समर्हणम् ॥
अस्मिन् गिरः प्राप्नुवन्ति सम्यक् परममुख्यतः । युञ्जन्तीत्यत्र बाहुल्यात् देवयन्तोत इत्यपि ॥
बाहुल्यादृष्टितो गीर्भिर्विनार्थो नान्य इष्यते ॥9॥
इतो दिवो वा पाताƒात् सातिं ƒाभस्वरूपिणम् । महतो रञ्जकात् विष्णोर्ƒोकाद् वा तमधीमहे ॥10॥
****************************************************************
सूक्त 7
तमेव गाथिनः साम्ना स्तुवन्त्यृग्भिश्च बहृचाः । बृहन्तमन्यवाणीभिरपि …. ॥1॥
….हर्योर्विमिश्रिताः । रथेथवा मनोबुद्ध्योर्वाङ्मात्रेणैव योगिनोः । सचा सुखेन वज्रौ च ज्ञानानन्दो हि धातुतः ॥
हितश्च रमणीयश्च हिरण्यय इतीरितः ॥2॥
दीर्घकाƒं दर्शनाय सूर्यमारोहयद् दिवि । ज्ञानैरादरयोग्यं च प्राणात्मानं समैरयत् ॥3॥
बहुभिर्युद्ध्यमानेषु युद्धेष्वपि सदाव नः । दुष्टोग्रैः सदभिप्रायैः …… ॥4॥
…… महदल्पधनार्थिनः । हवामहेरिवर्ज्यं तं तमसां प्रतियोगिनम् ॥5॥
अस्मदीयं चरुं भोज्यमानन्दं तमपाकुरु । मोक्षं सर्वदातस्त्वमप्रतिद्वन्द्व नो वृषन् ॥6॥
त्वयैव प्रेरणे जाते तत्र तत्र च उत्तराः । तेपि स्तोमाः सुष्टुतित्वमस्यानन्त्यन्न चाप्नुयुः ॥7॥
प्रतिवीरो वृषा वंसस्तद्गन्ता वंसगो विभीः । यूथान्याकर्षति यथा प्रजाः प्रेरयति प्रभुः ॥
अल्पस्यापि प्रसिद्ध्यैव दृष्टान्तत्वं तु युज्यते ॥8॥
राजा भवति वित्तानां प्रजानां चैक एव यः । देवगन्धर्वदैतेयपितृमानुषभेदतः ॥
प्रजानामपि पञ्चानां सामान्याच्च विशेषतः ॥9॥
सम्यग्घवामहे सर्वगतं च व्यक्तरूपतः । स्थातुमेकत्र वोर्थाय जना नोस्तु स केवƒः ॥10॥
****************************************************************
सूक्त 8
जनिता सहितं ƒाभयुक्तं वित्तं सदाबƒम् । वर्षिष्ठं सुमहद् रक्षानिमित्तं नित्यदा भर ॥1॥
येनारीन् मुष्टियुद्धेन तमांसि ज्ञानयुद्धतः । त्वत्प्रेरिता निरुन्धामः कांश्चित् वा तुरगादिभिः ॥
आवृत्यैवोपसर्गस्य क्रियावृत्तिर्भविष्यति ॥2॥
त्वत्प्रेरिताः ज्ञानरतिं दृढत्वेनाददीमहि ॥3॥
त्वया पृतन्यतः शत्रूनभिष्याम सुयोद्धृभिः ॥4॥
यस्मान्महाननादिश्च विष्णुर्जीवोवरस्तथा । तस्यैवास्तु महत्वं तन्न जीवब्रह्मतां स्मरेत् ॥
आकाशवत् प्रथिम्नासौ शवः सुखबƒे तथा ॥5॥
अन्यसंवहनेनापि ये तं प्राप्ता जनार्दनम् । ज्ञानƒाभेन तु नरस्त एव पशवोपरे ॥
विप्राश्चैव धिया युक्ता मूर्खाः शूद्रसमा मताः ॥6॥
यः कुक्षिस्तस्य देवस्य समुद्र इव सोखिƒान् । कामान् क्षरति भक्ताय महाप इव तर्पकाः ॥
काकुदस्तस्य जिह्वास्तु बह्व्यो बहुमुखेषु याः ॥7॥
एवमेवासय वाणी च वेदेता महती तथा । पक्वा शाखेव यजते वरदात्री विरप्शिनः ॥
बिƒष्ठस्य हि ते …… ॥8॥
…. सन्ति सद्योपि यजतेस्य ते । मावते ज्ञानिने नित्यमूतयश्च विभूतयः ॥9॥
स्तोमा उक्थानि चैवास्य तस्मै काम्यानि सर्वदा । गेयाः शंस्यानि सोमस्य पीतये नान्यथा पिबेत् ॥10॥
****************************************************************
सूक्त 9
सोमपाः सोमपर्वाणः सर्वं यस्मात् तदिच्छया । अभिष्टिरोजसा नित्यं मदं सुखमवाप्स्यति ॥1॥
एनमासृजतेन्दौ च विष्णुं तं मदकारिणम् । मन्दिने विष्णवे सम्यक् कर्मिणं सर्वकर्मिणे ॥2॥
स्वानन्द विश्वजीवेशामत्स्वास्मद्रक्षया सह ॥3॥
त्वन्निस्सृता वेदवाचस्त्वां प्रत्येवाप्यनारतम् । उच्चौर्मुख्यतया सम्यग्विसृष्टाः स्वपतिं प्रति ॥
अजोषाः स्तुत्यरूपेण त्वत्सेव्यास्त्वदृते क्वचित् ॥4॥
अर्वाङ् नीचान् प्रति त्वस्मान् भद्रं राधः प्रचोदय । अस्त्येव ते विशेषेण प्रकृष्टं शुभमच्युतम् ॥5॥
रभस्वनः शब्दवतः स्तोतॄन् अस्मान् यशस्वतः । तत्र त्वयि महाराये महाकीर्ते सुचोदय ॥6॥
अस्मास्वतिबृहज्ज्ञानं नित्यं सन्धेहि चाक्षयम् ॥ 7॥
विद्यां कीर्तिं सदेहान्नं बहुƒाभयुतं बृहत् । प्रार्थने पौनरुक्त्यं न चोदयेति ततः पुनः ॥8॥
वसोर्वसूनां च पतिं देवदेवेश्वरं प्रभुम् । ऋङ्मेयमाह्वयामोत्र गृणन्तोभीष्टसिद्धये ॥9॥
अविनाश्यरिरुद्दिष्टो बृहच्छूषं सुखं प्रति । सुते सुते सद्गृहाय देवाय बृहतेर्चति ॥10॥
****************************************************************
सूक्त10
गायन्ति सामगास्त्वृग्भिः शंसन्त्यृग्वेदिनोतिकम् । विरिञ्चास्त्वां बहुज्ञान शक्रकेतुमिवोच्छ्रितम् ॥
व्यजानन् …… ॥1॥
…. उच्चतोप्युच्चं सामर्थ्यं करणे तव । ततोपि भूरि यत् तेन चेतत्यर्थमतो भवान् ॥
मुक्तामुक्तसमूहेन शोभते गूढशक्तिमान् । उच्चादुच्चं विरिञ्चादिगतं कर्तृत्वमेव यत् ॥
भूरि स्पष्टमभूत् तेन परेशस्य ततश्च सः । चेतत्यर्थानशेषांश्च महायूथेन चेष्टते ॥2॥
कश्याभिपूरकौ पुष्ट्या युङ्क्ष्व त्वं केशिनौ हरौ । अथोपगम्य शृणु नो गिरः ….. ॥3॥
प्रशंसां कुरु शब्दं च पुनर्हर्षान्महत्तरम् । ब्रह्म यज्ञं च नोन्तस्थो बहिष्ठश्चैव वर्धय ॥4॥
नित्यवृद्धत्वतो विष्णोर्वर्धनं तु प्रकाशनम् । बहुशत्रून् निष्पदसौ हरिर्दनुजघातकः ॥
अस्मत्सख्याय शब्दं च चकारास्मासु संस्थितः । यथा सुतेषु सोमेषु करोत्यृत्विक्षु संस्थितः ॥5॥
तमेव शरणं नित्यं सखित्वाद्यर्थमीमहे । शक्त्यानन्दस्वरूपत्वाच्छक्रः सर्वत्र चाशकत् ॥
अस्माकं च सदा वित्तं दददेव प्रवर्तते ॥6॥
विस्पष्टं सुष्ठ्वकाल्यं च यशस्त्वद्दत्तमेव हि । गूढं ज्ञानसमूहं त्वं विवृण्वृद्धिं च नः कुरु ॥
अद्रिरादरणीयत्वात् प्राणस्तद्वर्तकोद्रिवाः । हरिः शक्रस्तथाद्रीणां छेदनात् वारणादपि ॥7॥
न त्वामृघायमाणं हि वर्धमानं तु रोदसी । सम्प्राप्नुतः श्रीभूमी च सहिते वाप्रसादतः ॥
अपः प्रजाः सुखवतीरजयस्त्वद्वशत्वतः । ज्ञानानि सन्धुनु हि च प्रापयोच्चा अपि स्वयम् ॥8॥
बहुश्रवणकर्णास्मदाह्वानं शृणु चादरात् । अद्यैव च गिरो धेहि मयि स्तोमं च मत्कृतम् ॥
प्रियं योगादपि कुरु ….. ॥9॥
…… विद्म त्वां शक्तिमत्तमम् । श्रोतारं युत्सु चाह्वानमाह्वयामस्तवावनम् ॥ 10॥
बहुƒाभोत्तममिति स्थानान्तरगते ऋचौ । दृष्ट्वेन्द्रं यज्ञगं याभ्यां मधुच्छन्दास्तमस्तुवन् ॥
आतून इति तेनैव न विरुद्धा शतर्चिता । मात्रा कुशैर्गृहीतत्वाज्जन्मन्यासीत् स कौशिकः ॥
गाधित्वाद्वा हिरण्यण्डकोशस्थत्वात् हरिस्तथा । मन्दसानो नित्यसुखी स्तुत्यमायुश्च नस्तिर ॥
ऋषिं सहस्रƒाभं मां कुरु च ….. ॥11॥
……त्वा इमा गिरः । सर्वदा परितः सन्तु मदीयाः सर्वƒाभिनम् ॥
वृद्धिरूपा गिरो जुष्टाः सेवारूपाश्च सन्तु नः ॥12॥
****************************************************************
सूक्त11
अष्टावृचः पुनस्तेन दृष्टा अन्यत्रगास्तपः । कुर्वता ….॥
….. सम्यगुद्रिक्तगुणव्यक्तिस्तथाभिधः ॥1॥
प्रथमानि महत्वेन ते दानान्यवनानि च । न भिद्यन्ते न नश्यन्ति गोमदन्नं यशस्तथा ॥
यदि मंहते ददातीशो …. ॥2-3॥
….. बƒस्तिर्यग्गतिर्धियः । वाचामन्यार्थबुद्धेस्तु बिƒं मूƒं तमो हि यत् ॥
तदपावृतवांस्त्वं च प्रदर्श्य विनिवार्य च । त्वां हि देवा भयापेताः प्रेर्यमाणास्त्वयै च ॥
छाद्यमानं गिरादैत्यैररक्षन्निव सद्गिरा । इन्द्रस्य गोसवार्थे च समुत्सृष्टा जगत्यपि ॥
चर्तुं गावो हृता दैत्यैः सरमारक्षिताः पुरा । तस्याः स्वसृत्वमुक्त्वैव तयोच्छिष्टं च गोपयः ॥
तदर्थं पणयो नाम ते दैत्याः बƒपूर्वकाः । इन्द्रेण निहताः पश्चाज्ज्ञात्वा च सरमाकृतम् ॥
ताडयित्वा पदा वक्त्रात् सृते पयसि तां भयात् । शरणागतां प्रेषयित्वा दौत्येन पणिनां पुनः ॥
भित्वा गिरव्रजं तं च गावो यत्र प्रतिष्ठिताः । निस्सारिताः पुनस्ताश्च गोसवेनेष्टमेव च ॥
तदा देवा अभीत्यैव परितो जुगुुपुः पतिम् ॥5॥
तव दानैरहं सिन्धुं नदीं प्रत्यागमं पुनः । त्वामावदन् स्तुतिपदैर्यज्ञदीक्षार्थमुद्यतः ॥
उपातिष्ठन्त कर्तारो विदुस्त्वां ये गिरोदित ॥6॥
शक्तिभिः शक्तिमन्तं त्वं शोषकं वृत्रमातिरः । तमो वा त्वां विदुर्मेधारतास्तेषां श्रवांसि च ॥
विद्या उच्चैस्तरां देहि ……. ॥7॥
स्तुवन्ति त्वां सहौजसा ॥8॥
ऋक्संहितायाः स्वाध्यायात् प्रबन्धात् व्यासनिर्मितात् । ब्राह्मणेभ्यस्तथा मानात् प्रोक्ताः स्युर्मुनयोत्र ये ॥
श्रुत्यभावादिƒङ्गाच्च मुनिर्नान्यः प्रतीयते । श्रुतििƒङ्गान्यता यावत् तावत् पूर्वप्रमा भवेत् ॥
शतार्ग्भिरुत्तराभिस्तु वह्निनामानमच्युतम् । अस्तौन्मेधातिथिस्ताभ्यः उत्तरा अपि तद्दृशः ॥
अन्यत्रगास्तपस्यन् स ता ददर्श कदाचन । काƒस्तानान्तरत्वं चेत् सङ्ख्यातोभ्यधिकं भवेत् ॥
अन्यस्थानगता अन्यदृष्टा अप्यत्रगा यदि । सङ्ख्यान्तर्भावमेष्यन्ति ता इतोपगता यतः ॥
****************************************************************
सूक्त 12
यज्ञभागार्थमत्रस्थो देवसम्प्रेषितो यतः । दूताग्निर्वासुदेवश्च तत्तत्प्रार्थितकृद् यतः ॥
विश्ववेदाः स सर्वज्ञो यज्ञज्ञो यज्ञसुक्रतुः ॥1॥
अग्निनामा जामदग्न्यो भगवान् सम्प्रकीर्तितः । तस्य रूपबहुत्वेन वीप्सा चैवोपपद्यते ॥
हवीमभिऋर्र्गाह्वानैराह्वयन्त प्रजापतिम् ॥ 2॥
जज्ञानो व्यज्यमानस्तु वृक्तं प्रस्तृतमुच्यते । यजमानो वृक्तबर्हिः ….. ॥3॥
…. बोधयेशेच्छतः सुरान् । देवैः सहोपविशसि ….. ॥4॥
….. यस्य ते सुघृतं हविः । रिषतो नाशकान् रक्षोजनान् प्रतिदहैव च ॥5॥
यस्यास्ये हूयते सोग्निः परेशेन समिध्यते । अथवाहवनीयोग्निर्मथितेन समिध्यते ॥6॥
सत्यधर्मा सद्गुणभृत् दुःखघ्नोमीवचातनः । चातनं काƒनं वा स्यात् …… ॥7॥
…. देववीतिस्तु तद्गतिः । आवासयति यस्त्वां च तं त्वं मृलय सर्वदा ॥8-9॥
त्वत्पूजाविषये देवानामवहेन्द्रियमानिनः ॥10॥
गायत्रेण स्तूयमानो दृश्यमानेन नो रयिम् । पुत्रयुक्तामिषं चैव वीर्ययुक्तामथावह ॥11॥
ज्वƒता तेजसा विश्वदेवाह्वानैर्वृणु स्तुतिम् ॥12॥
****************************************************************
सूक्त 13
अस्मद्धविष्मते देवानाहूय यज चादरात् ॥1॥
तनूभ्यो वाक् ततो देवो व्यक्तस्तेन तनूनपात् ॥2॥
नरैः स्तुत्यो नराशंसो वह्नेरन्याथवा तनूः ॥3॥
मनूनां च हितत्वेन मनुर्हित इतीरितः ॥4॥
आनुषक् सर्वतो देवस्थानं बर्हिः स्तृणीत च । शुद्धस्य विष्णोर्यत् स्थानं घृतपृष्ठं हि तन्मनः ॥
यत्र स्यात् दर्शनं विष्णोः नित्यामरणधर्मिणः ॥ 5 ॥
ऋतरूपेण हरिणा समृद्धा या ऋतावृधः । द्वारो देव्यः श्रियो दास्यः श्रयन्तामिह नो मखे ॥
मानसे बाह्ययज्ञे वा ह्यसङ्गत्वादसश्चतः । अद्याहनि तथा नूनमद्यैव यजनार्थतः ॥
द्वारभूतः स भगवानपि साक्षान्मुमुक्षतः । स्त्रीरूपश्च सः ….. ॥6॥
…… नक्ता स्यान्नाक्तो यस्मात् स सर्वतः । उषाः प्रकाशरूपत्वात् सुभद्रे ते उपह्वये ॥
अस्मिन् बर्हिषि संस्थित्यै….. ॥7॥
….. होतारौ देवगावपि । मथ्यमानोपरश्चैव वह्वी तद्गोथवा हरिः ।
आत्मान्तरात्मरूपेण द्विरूपो वा व्यवस्थितः । देवेषु यजतां यज्ञमस्मदीयमिमं सदा ॥ 8 ॥
इलेड्यत्वाद्धरिः श्रीर्वा भूरूपा सैव चापरा । मही तु भारती नाम वायव्या ब्रह्मणोपरा ॥
तद्गतस्तादृशैः रूपैः पृथक्स्थो वा हरिस्तथा ॥9॥
त्वष्टा तेजस्त्वतो विष्णुर्बƒत्वात् वा समीरितः । विश्वरूपकरत्वाच्च विश्वरूपोथ पूर्तितः ॥10॥
वननीयपतित्वेन वनस्पतिरितीरितः । ज्ञानं तु चेतनम् ….. ॥11॥
….. स्वाहा स्वभागगतिमान् स्मृतः । अव्ययत्वादमोघश्च …… ॥12॥
****************************************************************
सूक्त 14
……. कामदोहात् दुवः स्मृताः ॥1॥
बृहन् पतिर्बृहत्या वा वाच एव बृहस्पतिः । मित्रेति मित्रवरुणौ पूषा नाम स पोषणात् ॥
पूर्णत्वात् वा भगः प्रोक्तः पूर्णैश्वर्यादिकत्वतः । आदिस्थत्वात् स आदित्य आददानः प्रयाति वा ॥
बहुरूपत्वतश्चैव मानोक्तत्वात्तु मारुतः ॥2-3॥
मत्सरा मदकारित्वात् ताच्छील्यादुत्तरं पदम् । द्रप्सास्ते द्रवणाच्चैव चमसस्थाश्चमूषदः ॥
शिरश्च चमसं प्रोक्तमिष्टदानात् तथेन्दवः ॥4॥
अवस्युर्यजमानः स्यादवनार्थप्रवृत्तितः । आत्मस्थं वा बहुवचो बहवो मुनयोत्र वा ॥
उत्तराणां वचस्त्वेन स्वयं वदति चेश्वरः । अरङ्कृतोतिकर्तारस्त्वƒङ्कर्तार एव वा ॥5॥
स्निग्धपृष्ठाः समारूढाः हरिणा वा विदोषिणा । मनोमात्रेण योज्याश्च त्वां देवांश्चावहन्ति ये ॥6॥
तैर्देवान् यजतः स्तोतॄन् ज्ञातेन ब्रह्मणैधितान् । पत्नीभिर्योजयागन्तुं सह मध्वश्च पायय ॥7॥
ते षष्ठ्यतोनुदात्तः स्यादुदात्तो बहुवाचकः । आवृत्तस्तु भवत्यर्थस्थे पिबन्तु वषट्कृतौ ॥8॥
सूर्यस्य रोचनात् स्वर्गादावक्षत्यग्निरिन्दुपान् । उषः प्रकाशनात् ब्रह्म तद्विदस्त उषर्बुधः ॥9॥
देवास्ते विष्णुधामत्वात् मित्रधामान ईरिताः ॥10॥
अग्निवाहा अश्वतर्यो दूर्वापद्माग्निसप्रभाः । ƒोहिताः क्वचिदश्वाश्च रोहिन्मृग्योपि कुत्रचित् ॥11-12॥
****************************************************************
सूक्त 15
ऋतुर्मार्गस्तु नेतृत्वान्नेष्टाग्निर्हरिरेव वा । ईष्टे न कश्चिदस्येति ग्ना नद्यश्च समीरिताः ॥
गतिशीƒत्वतो ग्नास्ता ज्ञातृनेतृत्वतो हरिः । गमनान्नयनात् वा ग्ना ऋतुपात्रमृतुस्तथा ॥
सोमास्तदोकसः प्रोक्ताः ऋतुपात्रस्थिता यतः । पत्नीनेतृत्वतो नेष्टा नेष्टर्त्विक् सम्प्रकीर्तितः ॥
ज्ञापयन्ति स्विƒङ्गानीत्यृतवः षट् प्रकीर्तिताः । पावनाच्चैव पोतारो मरुतः पोतृदेवताः ॥
अग्निस्तु देवता नेष्टुस्त्वष्टेन्द्रो विष्णुरेव वा ॥1-3॥
वेद्युत्तरा सदश्चैव प्राग्वंशो योनयः स्मृताः । भूष भूषय नो यज्ञम् ….. ॥4॥
…… ब्राह्मणाच्छंसिपात्रतः । पिबेन्द्र नो राधसोर्थे त्वामनु त्वर्तुदेवताः ॥
स्तृतं छिन्नमिति प्रोक्तम् …… ॥5॥
….. अस्तभ्यं दुर्दभं स्मृतम् । दक्षाख्यं यजमानं वापीशाथे यज्ञमेव च ॥
सोमं पीत्वर्तृपात्रेण सह वा तेन चर्तुना ॥6॥
होता च होतृकाश्चैव द्रविणोदा द्रविणसः । अग्निश्चैवाग्नयस्तेषां देवता विष्णुमीलते ॥7॥
पातुमिच्छति सोमं स सोमस्तस्मै प्रतिष्ठिताः । ऋतुपात्रैः देवताभिः सहैवैनमभीप्सत ॥8-9॥
चतुर्थवारमपि यत् त्वां यजामो ददिर्भव ॥10॥
दीद्यग्नी इति दीप्ताग्नी …. ॥11॥
….सन्त्योग्निः सन्ततत्वतः । विष्णुर्वर्त्वधिपो विष्णुः केशवादिस्वरूपतः ॥
ग्रहान् सोमस्य मिमते इति तस्यैव कथ्यते । गार्हपत्येन पात्रेण यजमानस्तु देवयन् ॥
देवान् यातीति …… ॥12॥
****************************************************************
सूक्त16
….. सुष्ठूरीकुर्वन्ति विषयान् यतः । चक्षूंषीन्द्रस्य हरयस्तेनोक्ताः सूरचक्षसः ॥1॥
भक्तिस्नुतानि धानानि बुद्धेर्धाना इति ह्यपि ॥2॥
प्रातरित्यादिवाक्येन सवनत्रयमीरितम् । समाप्तत्वात् सोमपीतिस्तृतीयं सवनं स्मृतम् ॥
सदा …… ॥3॥
…… विष्णुविवक्षायां यजमानबƒं सहः । तदिष्टस्यैव दानाय तद्गुणव्यतिरेव वा ॥
पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । हेयोपादेयरहितगुणपूर्णो हरिः सदा ॥
अनुग्रहव्यक्तिरेव तद्गुणानां न चान्यथा । इत्यादिवेदवाक्येभ्यो नैव वृद्धिः हरेः क्वचित् ॥4-6॥
पृण सम्पूरय स्वाध्यः सुधीतय इति स्मृताः ॥7-9॥
****************************************************************
सूक्त 17
अविकारेण संस्थानमीदृकत्वं नाम कीर्तितम् ॥1॥
मावतो ज्ञानयुक्तस्य प्रजाश्चर्षणीयः स्मृताः ॥2॥
नेदिष्ठत्वं समीपत्वं क्षिप्रं शरणमीमहे ॥3॥
युवयोरेव वाक्यानां सुमतीनां च सर्वशः । भवेमान्नप्रदातॄणां सर्वदा विषया वयम् ॥4॥
क्रतुः प्रधान उक्थ्यश्च शस्त्रैः स्तुत्यो विशेषतः ॥5॥
रक्षणेन तयोर्वित्तं ज्ञानं वा प्राप्नुमः सदा । निधीमहि च दानं च स्यादेवास्माकमर्थिने ॥6॥
ह्रस्वता संहितायां तु देवतैक्यप्रदर्शिनी । स्वरूपैक्यं हरौ तत्तु मत्यैक्यं भिन्नयोरपि ॥7॥
अद्य वां नु नुमो ƒोपः स्वातन्त्र्यार्थे हि सूत्रतः । साधयन्तीषु धीष्वेव शर्मास्मभ्यं प्रयच्छताम् ॥8॥
यथास्थितस्तुतिं यां च वर्धयेथे सदैव मे ॥9॥
****************************************************************
सूक्त18
सौम्यं शब्दं कृणु त्वं नो विष्णो वायो सुवाक्पते । कक्षीवन्तं प्रति हि यो दत्तो यः स उशिक्सुतः ॥
विवक्षितो मुनिः सोपि तस्मादर्थोपि मां प्रति ॥1॥
वित्तवान् रोगहा ज्ञानवेत्तास्माभिः सयुग् भवेत् । तुरो वेगात् हरिर्वायुः …..॥2॥
… अररुद् चातिरोषणात् । तस्य धूर्तिर्वचो नास्मान् पूरयेत् रक्ष नो हरे ॥3॥
घेति हावधृतिश्चैव सोमः सौम्यत्वतो हरिः । उना मया च युक्तत्वादूमैर्युक्तत्वतोथवा ॥
अमः स इति वा ……. ॥4॥
….. साक्षाच्छ्रीर्दक्षेणेति तु दक्षिणा । दक्षिणा चतुरत्वात् वा स्वयमेव जनार्दनः ॥5॥
सदसस्पतिर्हरिः साक्षात् वायुरग्निरथापि वा । ƒाभज्ञानस्वरूपोसौ शरणं तमयासिषम् ॥6॥
धीप्रेरकः स ध्येयश्च धीभिर्योगं तदाप्नुते ॥7॥
तस्माद्धविष्कृतः स्वृद्धिं करोति यजतो विभुः । करोति चोत्तमं यज्ञं देवाह्वानानि गच्छति ॥8॥
नरैः स्तुत्यो नराशंसो हरिर्धृष्टतमश्च सः । गुणानां प्रथिमाधिक्यात् सप्रथस्तम ईरितः ॥
यस्य स्वर्गादपि गृहं मखः प्रियमिवेयते ॥9॥
****************************************************************
सूक्त19
यज्ञं प्रति प्रति त्यं तं सम्यक् शास्त्रोक्तƒक्षणम् । आहूयसे ….. ॥1॥
…. महान् नैव त्वदन्योस्ति क्रतुं प्रति । विष्णौ हि मुख्यतोर्थोयमग्नौ कांश्चिदृते सुरान् ॥2॥
महतो रञ्जकात् स्वर्गादद्रोग्धारोखिƒं विदुः ॥3॥
प्राप्ता अर्कं विशेषेण सन्निधिस्तव यद्धरेः ॥4॥
शुद्धा घोरबƒाः क्षेत्रत्रातारः क्षतितोपि वा । रम्यसत्सुखभोक्तारो मरुतो मारुतत्वतः ॥
एतादृशानि रूपाणि प्राणाग्निस्थानि चेशितुः । पृथग् वा तादृशान्येव देवगान्यपि सर्वशः ॥5॥
स्वर्गोपरि प्रकाशे च सूर्यादावासते सुराः । नाको निर्दुःखरूपत्वात् द्यौः प्रकाशस्वरूपतः ॥6॥
प्रतोƒयन्ति च गिरींस्तिरस्कृत्य च सागरम् । पुरुषान् प्रकृतिं वापि पर्ववन्तो हि जन्मना ॥
पुरुषाः सुसमुद्रेकात् समुद्रः प्रकृतिर्मता । प्रकृतेः पुरुषाणां च प्रेरकः सन् सदा हरे ॥
स्वरूपैर्बहुभिः युक्तः आयाहि सम सद्गुणैः ॥7-9॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमदृग्भाष्ये प्रथमाष्ठकस्य प्रथमोध्यायः ॥
****************************************************************
द्वितीयोध्यायः
सूक्त20
सर्वजन्मकृते विष्णुदेवयेयं स्तुतिः कृता । मुखेन विप्रैः काण्वाद्यैः सैव यद्रतिधातमा ॥1॥
वाङ्मात्रेणैव योज्यो ये चक्रुरिन्द्राय वाजिनी । शमीभिर्विष्णुनिष्ठाभिर्यज्ञभागं च ƒेभिरे ॥
भगवांश्चैतदखिƒं कृतवानृभुषु स्थितः । पृथग् वा फƒदातृत्वात् …… ॥2॥
….. परितो ज्मां यतश्चरेत् । परिज्मातो रथः काम्यं सबरित्यभिधीयते ॥
व कामन इति ह्यस्मात् ….. ॥3॥
…… सुधन्वैषां पिता स्मृतः । बृहस्पतेः कामधेनुमृजुभक्ता ऋजूयवः ॥
अवेतनं स्वामिबƒात् कर्म विष्ट्यत्र तेक्रत । ऋतभूमिर्ज्ञानभूमिर्भगवानृभुरीरितः ॥
येषां भूतमृतं कर्म यज्ञभागाप्तितोपि ते ॥4॥
सहेन्द्रेण सहादित्यैः प्राप्ता युष्माकमिन्दवः ॥5॥
एकं चमसं चतुरः कुरुतेत्याह तान्पुरा । त्वष्टाग्निश्चैव देवानां वाक्यात् तदपि तैः कृतम् ॥
द्य्वादि स्वोक्तं परित्यज्य त्वष्टुः शुश्रूषणं कृतम् । तं पूर्वकृतमेवैकं चमसं चतुरोक्रत ॥6॥
सप्तसङ्ख्यानि रत्नानि त्रिकाƒेष्वपि धत्तन । पुराणपञ्चरात्रेतिहासवेदान् हरिस्तथा ॥
मीमांसातर्कसहितान् पञ्चवेदानथापि वा । सप्त च्छन्दांसि वैकैकं तद्गुणैरखिƒैः सह ॥7॥
सुकर्मणां यज्ञभागमभजन्नप्यधारयन् । वह्नयो धारकत्वेन स्थिरत्वेन यथागतिः ॥8॥
****************************************************************
सूक्त 21
ह्वये सोमं प्रति च तौ ….. ॥1॥
……. शुम्भनं भूषणं मतम् ॥2॥
तौ मित्रस्य प्रशस्त्यर्थौ हरेः ….. ॥3॥
…. रक्षांसि चोब्जताम् । रक्षोरक्ष्याः प्रजा यस्मादत्र्यो मार्गत्रयोज्झिताः ॥
पितृदेवमनुष्याणां गत्यभावदधोगतेः ॥4-5॥
सत्येन गुणपूर्णेन विष्णुना तेन जागृतम् । स्वगुणैरेव विष्णुस्तु प्रकृष्टे चेतने हरौ ॥
पदे गम्यत्वतः सम्यक् तस्मिन्नेव स्वभावतः । तथा स्थितौ तु जागृतमिति विष्णुर्विशेषतः ॥
उक्तः ….. ॥6॥
****************************************************************
सूक्त 22
…. प्रातः स्तुतत्वेन प्रोक्तौ प्रातर्युजाविति । अश्विनौ भगवांश्चैव प्रातर्योगेन गम्यते ॥
स्तुतिशब्दः स्तुतौ यस्मात् बुद्ध्यते वर्तमानकः । बोधयेत्यत उक्तं तत् परतो बुद्ध्यते कथम् ॥1॥
कशया स्पृष्टिमात्रेण मधुरं कुरुतोखिƒम् । अतो मिमिक्षतमिति स्पर्शो मेक्षणमुच्यते ॥
वेदवाक्यस्तुतत्वेन कशा सा सूनृतावती । तथैव घृतसोमादि स्पृशतं याज्ञिकं वसु ॥2-3॥
हितत्वात् रमणीयत्वात् हिरण्यं वर्णतोपि च । रूपं नारायणस्यैव पाणिशब्दोपƒक्षितम् ॥
स्रष्टृत्वात् सविता विष्णुः स ज्ञाता स्वपदादिकम् । स एव देवता मुख्या तद्गुणैक्येन देवता ॥4-5॥
व्यक्तत्वात् पार्थिवे देहे सोपां नप्ता जनार्दनः ॥6॥
सदा विभज्य दातारं वसोरुत्तमराधसः । अशेषपुण्यपापादिविशेषैश्चितिदर्शकम् ॥7॥
सः राधांसि शोभयत्यञ्जसा हरिः ॥8॥
नदीश्च भारतीं चैव होत्रामाहुतिरूपतः । वरूत्रीं वरणीयत्वात् त्राणात् बुद्धिस्वरूपिणीम् ॥
विष्णुश्च प्राणसम्बन्धात् भारतीत्येव चोदितः । प्राणस्तु भरतो भारततत्वात् भर्तृरूपतः ॥
होत्रा हुतत्वतो विष्णुः श्रीर्वापि धिषणा मता ॥9-10॥
शमं दत्वैव महतो विष्णो रक्षन्तु नोभितः । प्राणेनैवावसा साकं यस्मादविधवाः सदा ॥
अतो ह्यच्छिन्नपत्रास्ताः सदायुक्कर्णभूषणाः ॥11॥
भरणैर्न पारयेतां दुःखेभ्यः श्रीश्च भूश्च ते । स्वयं वा भगवानन्ये रोदसी ƒोकदेवते ॥12-13॥
तयोः पयस्तु विज्ञानं घृतवत्सापरोक्षकम् । यल्लोकादेवतापि स्याद् भारती ज्ञानदेवता ॥
विष्णोर्नित्यपदस्थं यज्ज्ञानं तद् घृतवत्पयः । िƒहन्ति विप्रास्तज्ज्ञानं बुद्धिभिस्तत्प्रसादतः ॥
गां धारयन् वर्तते यद्गन्धर्वस्तेन केशवः ॥14॥
स्योना सुखकरी स्या नो यतो नश्यसि नो नृवत् । निवेशनी साधारत्वाच्छर्म यच्छ महत्तरम् ॥15॥
असुरेभ्यो जगद्धृत्वा यतो विष्णुस्त्रिभिः क्रमैः । आरभ्य पृथिवीं सप्तƒोकैः साकं जगत्पतिः ॥
चक्रे सुरान् पदस्थानप्यतो देवा अवन्तु नः । विशिष्टबƒचेष्टत्वात् विष्णुरित्यभिधा हरेः ॥
प्राणं बƒं षकारं च णकारं चाह हि श्रुतिः ॥16॥
रमन्ति पांसवो यत्र पांसुरं पदमीरितम् । समूढं तत्र विश्वं हि पांसुवज्जगतः पतेः ॥17॥
वेदान् काƒान् गुणान् ƒोकान् देवमानुषदानवान् । चेतनाचेतनान् मिश्रान् त्रीणि पदा विचक्रमे ॥
रक्षकत्वेन सर्वाणि स्रष्टृभर्तृत्वतस्तथा । मोक्षदत्वेन च विभुः स्तम्भनीयो न केनचित् ॥
धारकांश्चैव वाय्वादीन् धारयन् वर्तते ततः ॥18॥
जानीथ विष्णुकर्माणि प्राणिकर्माण्यशेषतः । यतो जातान्यविज्ञातो भगवान् सर्वदैव च ॥
स्पशाज्ञातदृशौ यस्मादिन्द्रस्य सहितः सखा । प्राणस्यैवेन्द्रनाम्नश्च कस्मिन् न्वहमिति श्रुतेः ॥
त्वयेदिन्द्रेतिवचनात् प्राण इन्द्राभिधो मतः ॥19॥
रमाब्रह्मशिवादिभ्यो यद्विष्णोः परमं पदम् । रूपं पश्यन्ति निर्मुक्ताः संसारात् सूरयः सदा ॥
चक्षुर्दिवीव व्याप्तं यददृश्यं फƒदर्शितम् ॥20॥
सन्दीपयन्ति विज्ञानैः संसारात् प्राप्तजागराः । विपन्यवो ज्ञानितमा विष्णोर्यत्परमं पदम् ॥
तात्पर्याधिक्यविज्ञप्त्या अर्थमेतं पुनर्जगौ ॥21॥
****************************************************************
सूक्त 23
वीर्यवन्तश्च ये सोमाः यजमानेष्टसाधकाः । पिब तान् …. ॥1॥
…. सर्वदेवानां ज्ञानाधिक्यौ दिविस्पृशौ ॥2॥
मनसः प्रेरकौ चैव बहुज्ञानौ धियस्पती ॥3॥
जज्ञानौ व्यज्यमानौ तु यजमानाय शोधकौ ॥4॥
परेण ब्रह्मणा तस्मिन् वृद्धौ सत्यपती सदा । सत्यं ज्योतिः प्रकाशत्वात् तौ मित्रावरुणौ हुवे ॥5॥
संसिद्धान् कुरुतां नस्तौ …… ॥6॥
…….. सगणस्तृप्यतां हरिः ॥7॥
पूषा पूर्णत्वतो विष्णुस्तन्मित्राः पूषरातयः ॥8॥
सहसा बƒरूपेण शक्रेण सहिताः सुराः । मदज्ञानं हतानीव दानशीƒा न शक्नुयात् ॥
दुर्वाक् तद्वान् पुमान् वा नः ….. ॥9॥
…… भारती पृश्निरुच्यते । गोरूपा च क्वचित् साभूत् तत्सुताश्चाखिƒाः सुराः ॥
अन्यत्रापि सुतास्तस्याः …… ॥10॥
….जयतामिव तद्ध्वनिः । धैर्याद् याति यदा विष्णुं वायुं वा याथनोत्तमम् ॥11॥
दोषत्यागाद्गुणप्राप्तेर्हस्कारो वायुरुच्यते । विद्युद्विशिष्टज्ञानत्वात् भारती तत्सुता हि ये ॥
सर्वे देवाश्च मरुतो रक्षन्त्वेतादृशो हरिः । तत्तदन्तर्गतत्वेन …… ॥12॥
….. पूषा पूर्णत्वतश्च सः । आघृणिः पूर्णरश्मित्वादाज नश्चित्रबर्हिषम् ॥
ब्रह्माणं च दिवो देव्या भर्तारं वायुमाज गाम् । यथा गतम् ….. ॥13॥
…. जगद्राजमविन्दद् भगवान् सुतम् । स्वकुक्षिगूढं ब्रह्माणम् …. ॥14॥
…… मह्यं सोमैश्च तर्पितः । साधयामास षड् युक्तानिन्द्रियाणि चकार च ॥
साधनं शक्तिदानं तु गोभिर्वार्भिर्यथा यवम् ॥15॥
अम्बयो मातरो ह्यापः कारणत्वात् सहोदराः । जगतो जामयो यस्मात् सह ताभिर्विवर्धते ॥
अध्वरं कुर्वतां क्षीरं सोमं चापि प्रपृश्चतीः । सम्पृक्ताः ……. ॥16॥
….. याः समीपस्थाः सूर्यस्य सहिता अपि ॥17॥
ह्वयामि ता याः पिबन्ति गावो नः सर्वथा हविः । कार्यं नदीभ्यः …… ॥18॥
…तास्वन्तरदृश्यममृतं स्थितम् । अपामेव प्रशंसार्थं सहायाः सन्तु नः सुराः ॥19॥
तात्पर्यार्थं पुनर्वाक्यं सुखाधारो हुताशनः ॥20॥
वरूथं गुप्तिरुद्दिष्टा ज्योतिर्विष्णुदृशे तथा । सूरिप्राप्यो यतो विष्णुः सूर्य इत्यभिधीयते ॥
पृण दाने ……. ॥21॥
….. अखिƒं पापमापः प्रवहतापि नः । हिंसाजं शेपजं चैव तथैवानृतसम्भवम् ॥22॥
रसेन सङ्गताश्च स्मो यस्मादनुचरा हि वः ॥23॥
कुर्युर्मामपि विद्वांसं मदर्थं सर्वदा सुराः । एतं मामिति वार्थः स्यादनुजानन्तु वोदितम् ॥24॥
****************************************************************
सूक्त24
शुनःशेपो ददर्शाथ उत्तरं परमृक्शतम् । यूपादात्मविमोक्षाय स्तुवन् देवान् पृथक् पृथक् ॥
त्र्यूनं शतमिहैवान्यच्चतुर्थे पञ्चमेपि च । मण्डƒे ब्राह्मणोक्तस्तु क्रमोत्रापि ह्यृचां भवेत् ॥
कर्तुः परनन्दतनोरिदानीं मनामहे चारु विष्णोः सुराणाम् । नामेशश्चेदिन्दिरायै पुनर्दाद् दृशेयं तां मातरं तं च देवम् ॥
स मुक्तानाममृतानाजेशमुख्यानां चाभ्यधिको यत् सुखादौ । तेनोक्तोसौ कतमोखण्डितत्वात् स चादितिर्महती तन्मही च ॥
देशानन्त्यात् तन्महित्वं गुणैस्तु काƒाच्चोक्तं तस्य चाखण्डितत्वम् ।
स एव माता च पिता च देवस्तस्मिन् सदा संस्थितास्तत् पुनर्दात् ॥
अत्ति विश्वं तेन चैवादितिः स श्रीर्वा ब्रह्मा प्रोक्तः एवं क एव ।
गुणाश्च तस्याभ्यधिकाः सदैव जीवेभ्यस्तत् सोपि तद्वाक्ययोग्यः ॥
ददात्वसौ विष्णवे चेन्दिरायै प्राप्तानस्मानपि तौ सर्वगत्वात् ।
विशेषदेशप्राप्तिस्तस्य चाप्तिर्वैकुण्ठादिर्ƒोक उक्तो हरेश्च ॥1॥
तस्यैवान्यद् रूपमग्न्याख्यमुक्तं यो यज्ञेशो हूयते जामदग्यः । स देवानां प्रथमो नाम तस्य स्मृतं सार्धं सर्वकामप्रदं स्यात् ॥2॥
सवितेत्यपरं रूपं जगत्कारणमीशितुः । वित्तानामीश्वरं तत्तु वार्यं हि वरयणीयतः ॥
वित्तं रक्षन्नवन्नित्यमात्मानं भागमेम्यहम् । त्वामैश्वर्यादिसमितिम् …. ॥3॥
….योपि ते परमो भगः ॥
इत्थम्भूतोविकारित्वाच्छशमानः सुखाधिकः । नेदीयसो ब्रह्मणोपि पूर्वो द्वेषादिवर्जितः ॥
हस्तयोस्तं दधे देव तव रूपमनामयम् । निदो दवीय इति तु विरुद्धार्थद्वयाभिधौ ॥
दूरसामीप्यवचनावुभावपि महोदधौ । यदान्यः सविता देवस्तव स्वामी भगो हरिः ॥
अद्वेषो विष्णुरित्युक्तेस्तमहं हस्तयोर्दधे ॥4॥
विष्णुभक्तस्थं ते रायो मूर्द्धानं राय उत्तमम् । तवावसारभे विद्यामुच्चैरश्नामि तत्फƒम् ॥
ऐश्वर्यादिगुणा यस्य भगो भक्तं परात्मनः । तस्य ते वित्तमश्नामि तव रक्षाबƒाद्धरे ॥5॥
क्षतात् त्राणं ते बƒं संविदं च पूर्णं नापुर्मुक्तिगा ये विशिष्टाः ।
अपि स्वयं संसृतेरुत्पतन्तः पतयन्तोन्याच्छिष्यभक्तानुदाराः ॥
सदा शुभान्याचरन्तोपि देवा अब्देवता आप इति श्रुतिर्यत् ।
गङ्गाद्या वा वायुदेवस्य विष्णोरुत्पत्तिं ये जानते देवसङ्घाः ॥
वयः सुपर्णा इति वापि …. ॥6॥
स्तूयं स्थानं ददते पूतदक्षो नीचस्था अप्यूर्ध्वगास्तेन तस्थुः । नीचाश्च ये मुक्तिगा मानुषाद्यास्तेषां बुध्नो नीचƒोकः सुरेभ्यः ॥
नीचा गुणा अप्रकाशोथवैषां नीचोच्चत्वं क्रमशश्चाविरिञ्चात् । अस्माकमन्तर्निहितानि नित्यं ज्ञानानि भूयासुरुताधिकानि ॥
भवन्त्यर्हा भवितुं वा भविष्याः स्युर्द्विगर्रहे प्रार्थनैवाधिकार्थे ॥7॥
उरुं राजा रञ्जनाद् राजनाद् वा सूर्याय पन्थानमसौ चकार । स्वाज्ञानुसारेण सदैव गत्यै पादावपादाय च गन्तवेकरोत् ॥
अज्ञाय विज्ञानमकः स गन्तुमात्मानमित्यर्थ इहाञ्जसोक्तः ।
बुद्धेर्धातुः शङ्करस्यापि दोषान् वक्ता ज्ञानाञ्छिक्षकत्वाच्च विष्णुः ॥8॥
जगद्रक्षासाधनान्यप्यनन्तान्यनन्तधा सन्ति पुनस्तवेश । अगाधरूपा महती शुभा च मतिर्मम त्वद्विषये सदास्तु ॥
ऋतं ज्ञानं प्रतिरूपत्वहेतोर्निर्ऋत्याख्यां दुर्मतिं दूर एव । बाधस्व दुर्ज्ञानिजनं निरस्य स्वर्गात् पराकृत्य च शश्वदेव ॥
कृतं च पापं प्रमुमुग्धि मत्तः …… ॥9॥
….. ऋक्षाण्यमी निहितानि त्वयोच्चैः । दृश्यानि रात्रौ न दिवा त्वयैवेत्यादीनि कर्माण्यनिरोधितानि ॥
पश्यन् परानन्दतनोस्तवैव चन्द्रो नित्यं दृश्यमानस्त्वयैव । सम्प्रेरितो याति परे च देवा एवं त्वदाज्ञाकरणाः सदैव ॥10॥
एवंगुणो यत् त्वमतो व्रजामि सदा शरण्यं शरणं वेदवाचा । नमन्नन्यो यजमानो हविर्भिस्तदाशास्ते त्वद्गतिं देवदेव ॥
अनिन्दन्नस्मान् नरमात्रबुद्ध्या सम्बोधयोच्चस्तुत मास्मदायुः । च्छेत्सीः …. ॥11॥
नक्तं दिवसे चैतदेव स्तोत्रं त्वदीयं प्राहुरार्याः सुकार्यम् । मह्यं केतो ज्ञानरूपो हृदिस्थो नारायणो वक्त्ययं तेन्यरूपम् ॥
पश्यत्यपीशो यं समह्वद् गृहीतः स नो देवो मोचयत्वग्र्यदुःखात् ॥12॥
शुनःशेपो ह्यह्वद्गृहीतः स्थानत्रये विक्रयाद्यैः सुबद्धः । द्रुतं प्राप्तानि द्रुपदानि विक्रयो यूपे बन्धः सञ्ज्ञपनोद्यमश्च ॥
आदित्योसावादिसंस्थः परेशो वारीशान्तःसंस्थितः स्तूयतेत्र । शुनश्शेपो यमित्यादिकेन वारीशोपि ह्यृषिणा स्तूयमानः ॥
गुणास्त्रयो द्रुपदानीति चोक्ता द्रवत्ययं जीवसङ्घो हि यत्र । करोत्वेनमवसृष्टं सृतेः स प्रसन्नोस्मान् कर्मपाशान्मुमोक्तु ॥13॥
निन्दां च तेवाग्गतेर्हेतुभूतामवगच्छामः सेयमित्यप्ययोग्याम् ।
नमस्कारैस्त्वद्गतैस्त्वन्मखैश्च हविर्युक्तैस्त्वत्प्रसादात् स च त्वम् ॥
क्षितिरस्मभ्यं प्राणरन्ताखिƒज्ञो वियोजयास्मत्कृतान्याश्वघानि ॥14॥
पुण्यं पापं मिश्रमित्येव पाशान् यथायोग्यं श्रथयान्येषु दत्वा । त्वन्निष्ठया तेन वयं त्वदीयƒक्ष्म्याः पुत्राः स्याम मुक्ताः सृतेश्च ॥
एषा विष्णोः केवƒाप्येवमन्या अयोग्या या अन्यदेवेषु सम्यक् । वाक्यैर्विशिष्टैरपवादहीनैर्ज्ञेया गुणा अन्यदेवेषु चैव ॥
पतिः सोमो वरुणस्याप्यथाग्नेः पतिः सूर्यस्तावुभौ तुल्यवीर्यौ ।
सूर्याचन्द्रमसोः पतिरिन्द्रोस्य रुद्रः पतिबर्रह्मा पतिरस्यापि विष्णुः ॥
पतिर्मुक्तेर्वासुदेवोथ दृष्टेबर्रह्मा विद्यायाः शर्व इन्द्रः क्रियायाः ।
क्रियांशानामधिपा अन्यदेवास्तथा फƒानामपि मुक्तिमार्गे ॥
यथायोग्यं स्वेन्द्रियप्रेरकाश्च ततः पूज्या देवता मुक्तिकामैः ।
इति श्रुतेस्तारतम्यं गुणानां ज्ञात्वा योज्याः श्रुतयस्तत्र तत्र ॥15॥
****************************************************************
सूक्त25
दिवसे दिवसे देव कुर्मो यदपि ते व्रतम् । यथैव सुजनाः ….. ॥1॥
….. मा नो हन्तु साधय निघ्नते । जिहीलानस्त्यजन् धर्मं हरतो मा च मन्यवे ॥2॥
मनस्त्वयि निबध्नीमो गीर्भिरश्वं वियोजितम् । बध्नाति सारथिर्यद्वन्मृलीको रक्षकोधिकम् ॥
त्वन्मनोस्मासु वा गीर्भी रक्षणाय विसीमहि ॥3॥
पराक् पतन्ति प्रज्ञा मे विविधाः शुभƒब्धये । पक्षिणो वसतीर्यद्बद्धा न त्वां प्राप्नुवन्ति च ॥4॥
अतोखिƒक्षत्त्रपतिमाह्वयामः कदा वयम् । अविनाशिनं रक्षणाय महादर्शनमञ्जसा ॥5॥
तत्प्रसादात् ब्रह्मवायू सममेवावागच्छतः । वेनन्तौ हि विजानन्तौ तौ हि ज्ञानिवरौ मतौ ॥
यथाज्ञानं प्रयोगं च दाशुषे कुरुतो न तौ । अश्विनौ वरुणश्चेत् स्यात् ….. ॥6॥
…. आकाशे पक्षिणां पदम् । वेत्त्यसौ सूक्ष्मविज्ञानात् तथा नावो जƒेब्धिगः ॥
मुक्तानां च स्थितिं वेद ज्ञानस्य च गतिं पराम् । क्षीराब्धिशयनो विष्णुः …. ॥7॥
….. काƒं काƒोद्भवैः सह । य आत्मनः समीपे च जायते तं च पद्मजम् ॥
मुक्तं वा…. ॥8॥
… वर्तनां वायोर्महतोतिप्रकाशिनः । बृहतो ज्ञानिनश्चैव बृहतो महतोपि वा ॥
अधिकानि पदान्येव देवा अध्यासतेपि तान् ॥9॥
साम्राज्याय स पस्त्याशु निषसाद प्रजासु च । सुज्ञानः ….. ॥10॥
…. तत्र सन् विश्वान्यद्भुतानि च पश्यति । कर्ता चिकित्वात् स कृतकर्तव्यानि च पश्यति ॥11॥
विश्वान्यहानि नो देवः सुपथानि करोत्वसौ । ददात्वायूंषि नो नित्यं मुक्तौ वा ….. ॥12॥
…. अतिद्रुतभ्रमम् । हितं च रमणीयं च चक्रं स्वर्णं च वर्णतः ॥
अबिभ्रच्च सुनिर्णिक्तं शुद्धं वस्त्रमवस्त च । अविज्ञातचरा देवाः स्पशस्तस्य निषेदिरे ॥
परितो वरुणः पाशमविभ्रद् द्रुतबन्धनम् ॥13॥
स्तम्भयन्ति न यं वीराः स्तम्भकाः अपि राक्षसाः । जनानां द्रोहिणो दैत्याः शत्रवश्चाभिमातयः ॥14॥
असमं च यशश्चक्रे योस्माकं हृदयेषु च । आमानुषेषु चान्येषु समन्तादात्मनः सदा ॥
अज्ञेष्वपि च मर्त्येषु व्यतनोदात्मनो यशः ॥15॥
महाज्ञानं परेशानमिच्छन्त्यो मम धीतयः । सर्वतो यान्ति यद्वच्च गावः शृङ्गस्वराननु ॥16॥
आपूर्णं मधु मोक्षस्थं सुखं पचसि मेग्निवत् । तत् संवोचावहै भूयः प्रियस्त्वं मम यत्सदा ॥17॥
अदर्शं तं च सर्वज्ञं तद्रथं च भुवि स्थितम् । स गिरो मे जुषत च …. ॥18॥
…. त्वावनेप्सुरहं चके । पश्येयम् …… ॥19॥
…. त्वं च विश्वस्य राजा भवसि मेधिरः । मेधावान् ग्मः पृथिव्याश्च स काƒे च प्रति श्रुधि ॥20॥
स त्वं त्रिगुणपाशान्नो मुमुग्धि च्छिन्धि चाञ्जसा ॥21॥
****************************************************************
सूक्त26
अथ स्तौत्याग्निगं विष्णुमग्निमप्यग्निगोचरैः । वचनैः सर्वदेवानां पूजायै प्रोद्यतो भवन् ॥
वसिष्वोत्तमवस्त्राणि भूषणैरप्यƒङ्कुरु । कुर्वन्नुत्सवमत्यन्तमस्मदीयं मखं यज ॥
नित्यमेध्य हरे देव भोग्यान्नानां सदा पते । ऊर्जितानां जनानां वा स्वस्मिन् नो अध्वरं यज ॥
रमयत्यध्वनि शुभे येन तेनाध्वरो मखः ॥1॥
वचो नो निनयात्यन्तं दिवि व्याप्ततया सदा । अशेषदेवगत्वेन मन्मभिर्मतिभिः सह ॥
अवमो दशदेवेषु वह्निर्विष्णुस्तु तत्स्थितः ॥2॥
सख्ये च सूनवे मह्यमायजत्येष देवताः । आपिः प्राप्यो मम स्वामी भृत्यत्वान्महायमापये ॥3-4॥
अस्य मेर्थे कुरु मदं स्वातन्त्र्यान्मादयस्व वा ॥5॥
शश्वद्विस्तरतः सर्वान् यदा देवान् यजामहे । तदा त्वय्येव हि हविर्हूयते … ॥6॥
….. स प्रियो भव । मन्द्रो मदकरः ….. ॥7-8॥
….. स्त्रीणां पुंसां चोभयवर्गिणाम् ॥9॥
चनः सुखं धा अस्मासु वायोः पुत्रोग्निरेव चेत् । भगवान् वायुना व्यङ्ग्यः …. ॥10॥
****************************************************************
सूक्त27
…. वारवान् बडवामुखः । स्वदृष्टान्तो हरेर्यस्माद् विष्णुः स वडवामुखः ॥1॥
सूनुः स शवसो वायोः पृथुज्ञानः सुशेवकृत् । सुखकृन्नो भवेन्मीढ्वान् स्वामी नः सूनुरेव वा ॥
व्यङ्ग्यत्वात् वायुना सार्द्धं सुशेवः सुसुखात्मकः ॥2॥
आसात् समीपतश्चास्मानघार्थायोर्निपाहि च । प्रतिप्रति सदो नित्यो विश्वायुः …. ॥3॥
…. त्वमिमां स्तुतिम् । सनिं दानस्वरूपां च गायत्रच्छन्दआत्मिकाम् ॥
नव्यांसं स्तुतिषु श्रेष्ठां वद देवेषु सादरम् ॥4॥
उत्तमाधममध्येषु भोगेष्वस्मानवाप्नुहि । रक्षकत्वेन शिक्षास्मान् ज्ञानवस्वर्थमेव च ॥
अन्ते मोक्षे मितत्वेन ज्ञानमन्तममुच्यते ॥5॥
क्षीराब्ध्यूर्मिसमीपस्थो मुक्तभोगविभागतः । यजमानस्य सद्यश्च क्षरस्याखिƒमीप्सितम् ॥
नित्यमुत्तमतेजस्त्वाच्चित्रभानुर्हरिः स्मृतः ॥6॥
यं मर्त्यं रक्षसि विभो यं युत्सु प्रेरयस्यपि । ज्ञानाज्ञानत्मकेष्वेव स गन्ता नित्यसत्सुखम् ॥
भोगान् वा मुक्तिगान् नित्यानिह चेदुपचारतः ॥7॥
परिपूर्णोस्य नैवास्ति त्वदीयस्य तु कस्यचित् । भोगोपि बहुƒो यस्माद् दित्सस्येव पुनः पुनः ॥
सहन्त्यः सन्ततबƒः सहसः पुत्र एव च । श्रवाय्यः श्रवणीयश्च सुप्रसिद्धतमोपि वा ॥8॥
वाजं तारयितानेता सोर्वद्भिर्गोसमाप्तितः । त्वदीयस्तु भवेद् विप्रैर्दाता विपुƒदानतः ॥
युद्धस्य तारकोन्नस्य दाता भोगस्य वा भवेद् । इन्द्रियैस्तमसा युद्धं तरुता ज्ञानदोथवा ॥9॥
स्तुतिबोद्धा यतस्तां त्वमवाधारय सर्वदा । नित्यज्ञानोपि दत्वा तत्फƒं वेत्तेति कथ्यते ॥
रुजां विद्रावकेशाय प्रत्यक्षां तव वा स्तुतिम् ॥10॥
नितराममितत्वेन महान्पुरुसुखश्च सः । धूत्करोति गरुत्मान् यद्धरेश्चेद्धूमकेतुना ॥
ताच्छील्ये म इति ह्यस्मात् सूत्राद्धूम इतीरितः । ज्ञानायान्नाय च स नः प्रहिणोतु सुकर्मणाम् ॥11॥
देवानां केतुभूतोसौ वित्तवान् विश्पतियथा । अस्मदीयानि चोक्थानि बृहत्तेजाः शृणोत्वथ ॥12॥
नारायणब्रह्मपुरस्सरास्तु देवा महान्तः शिशवः स्कन्दपूर्वाः । वटुस्वरूपाश्च त एव कुत्रचिद् युवान इन्द्रादय एत एव च ॥
महत्त्वमेषां गुणतोपि यूनामिन्द्रादयो मध्यगुणा युवानः । आपेक्षिकाल्पैश्च गुणैस्तीयैः समीरिता आशिना अर्भकाश्च ॥
कृतं नः शक्तिमन्तो यजाम न ज्यायसां स्तुतिमात्रं ƒुपामः । एकस्य विष्णोरपि रूपभेदाः अणीयांसः सन्त्यथवा महान्तः ॥
युवत्वसाम्येपि महत्त्वभेदाद् युवा महानित्यपि भेद उक्तः ॥13॥
****************************************************************
सूक्त28
विस्तीर्णाधस्तना यत्र ग्रावाणोभिषवोद्धृताः । धिषणाभियुतान् सोमानव नः स्वीकृतस्तुते ॥
गुर स्वीकार इत्यस्माद् धातोः स्तुत्यो हि जल्गुƒः ॥1॥
फƒकेभिषवस्यैव स्त्रियो जघनसाम्यतः । प्रोक्ते …. ॥2॥
…. उपच्यवश्चापच्यवः सङ्गतिभेदतः । जिह्वा ग्रावोथ वाग्युक्तिरुच्यतेभिषवस्तथा ॥
खƒश्चोरुस्तथा देहः सोमो मन इतीरितः । ज्ञानोत्पत्तौ च फƒकस्थाने ओष्ठे उदीरिते ॥3॥
मन्थरश्मीनश्वरश्मीन् यथा यत्र विबध्नते । रश्मयोन्यत्र नाड्यश्च …. ॥4॥
….. यस्मात् युक्तो गृहे गृहे । देहे देहेथवा तेन द्युमद्दुन्दुभिमद्वद ॥
पृथिवी देवता तस्य तद्गतो वा स्वयं हरिः । सोमामात्योपरो देवो वनस्पतिरितीरितः ॥
सोमो वा तद्गविष्णुर्वा श्रुतः फƒकदेवता । वृक्षाणामपि सर्वेषामतः….. ॥5॥
….. वृक्षाग्र एव तु । वायुर्वाति वनानां वा भजनीयदिवौकसाम् ॥
पतिर्विष्णुस्तु तस्याग्रे वायुर्देवी हि गच्छति । पातवे स्वस्य सोमं वा मनो वा सुनु विष्णवे ॥6॥
आयाज्यावन्नƒब्धॄणामुत्तमावतिभक्षकौ । जह भक्षण इत्यस्माद् यथाश्वावन्नभक्षकौ ॥
सोमस्य भक्षकावत्र ….. ॥7॥
…. ऋष्वावतिमहत्तरौ । महद्भिः सोतृभिः सोममिन्द्राय मधुमत् सुतम् ॥8॥
सोममुत्पवनायैतं द्रोणोपरि पवित्रके । भर शिष्टं चमसयोर्ऋजीषं गोरधित्वचि ॥
भरेत्यात्मानमेवाह स्वान्तर्यामिणमेव वा । शिरोभेदी तु चमसौ द्रोणं चोदरमीरितम् ॥
पवित्रं बुद्धिरेवात्र मनःशुद्धिस्तथा यतः । मुखचर्मैव गोचर्म मन एतेषु विष्णवि ॥
धार्यम् ….. ॥9॥
****************************************************************
सूक्त29
…. यत्सद्गुणाशस्ता इव स्मसि वयं ततः । शुभ्रवाङ्मनआदीनां विषयेस्मान् प्रशंसय ॥
बहुवाच्यज्ञेययुक्तान् कृत्वास्मांस्त्वं महामख ॥1॥
सुखिन्नन्नपते वाग्ज्ञ तव कर्माणि सर्वशः ॥2॥
दैत्यरक्षःप्रजे मिथ्यादृशौ सस्तां पुनर्बहु । अबुद्ध्यमाने नित्यं च यथा निष्वापयेश्वर ॥3॥
स्वपन्तु ते शत्रवस्ते सर्वदाज्ञानमोहिताः । बोधन्तु चैव मित्राणि तव रूपं सुनिर्भयम् ॥4॥
पापया मायया मिथ्या स्तुवन्तं त्वामपि प्रभो । मायामयास्तव गुणा न सन्ति परमार्थतः ॥
इति नित्यं रुवन्तं च मायावाद्याख्यगर्दभम् । सञ्चूर्णय तमस्येव क्षिप्त्वा तप्ताश्मभिः सदा ॥5॥
दूरं च पातयेत्वेतान् वायुस्तस्मिंस्तमस्यधः । वनं दृढग्रहेणैव तत्तमो वेदनोल्बणा ॥
कुण्ड्ढणाचीति सम्प्रोक्ता कुण्डान्नीचत्वतोधिकम् । कुम्भः कुण्डभिधः कुम्भीपाकान्नीचा हि तद्गतिः ॥
रेफः स्वरव्यत्ययश्च तदाधिक्यार्थमीरितौ ॥6॥
सर्वं परिक्रोशकरं पापिनं जहि जम्भय । दंशय श्वादिभिर्नित्यं क्रकचैर्दंशनं यथा ॥7॥
****************************************************************
सूक्त30
हे वाजयन्तो युद्ध्यन्तो देवा भोगिन एव वा । सोमैर्व इन्द्रमासिञ्चे क्रिवि यद्वन्नृपं कृतेः ॥
कर्तारमीशमिव वा स्वदृष्टान्तो हरेर्भवेत् ॥1॥
शतेन वा सहस्रेण सोमानामाशिरावताम् । पाताƒ इव नैवायं निƒीनो भवति क्वचित् ॥
विƒापयति तानेव …. ॥2॥
….. बिƒनेस्मै मदाय च । सन्दधुर्नैव विश्वानि व्यक्तीरस्योदरे क्वचित् ॥
समुद्रेकात् समुद्राख्या प्रकृतिश्च महत्त्वतः ॥3॥
तवैवायं प्रपञ्चश्च कपोतो गर्भधिं यथा । सम्यग्व्याप्नोति विश्वं च तस्मान्नो वच ओहसे ॥4॥
गिरां वाहक ते स्तोत्रमखिƒं वेदवैदिकम् । सूनृता वागियं मे च विभूतिरिति कल्प्यताम् ॥
अस्त्वित्येतत् प्रसादेन फƒदानादुदीर्यते ॥5॥
उत्तमः सन्नत्र युद्धे ज्ञानाज्ञानमये विभो । अभिप्रेतार्थसिद्ध्यर्थमस्माकं तिष्ठ सर्वदा ॥
मत्स्थितस्त्वमहं चैव त्वामन्येषु ब्रवावहै ॥6॥
तेजस्वितममिन्द्रं तं योगे योगे हवामहे ॥7॥
उक्तं चेत् स शृणोत्येव श्रुतं चेदागमिष्यति । बह्वर्थयुक्ताभिप्रायैरन्नैरप्युप नो हवम् ॥8॥
पुरातनस्य विष्णोस्तदोकसोर्थे ह्वये हरिम् । महान् प्रति प्रतिस्थश्च तुविप्रतिरितीरितः ॥
यं त्वा पूर्वं पिता ज्ञातैवाह्वयामास विश्वकृत् । त्वद्भक्त इति वा ब्रह्मा …… ॥9॥
….. तं त्वामाशास्महे वयम् ॥10॥
अस्माकं सुखिनां सोमपातॄणाम् … ॥11॥
… अस्तु तत् तथा । ते सकाशात् यथेच्छामः प्राप्तुं देव तथा कृणु ॥
वज्रो ज्ञानं वज गतावित्यस्मात् …. ॥12॥
…. वित्तसंयुताः । रेवतीः पशवः प्रोक्ताः सधमादे सुखस्थितौ ॥
तुविवाजा महान्नानि क्षुमन्तः स्थितसंयुताः । ज्ञानयुक्तं सुखं वा स्यात् सतीशेस्माकमूर्जितम् ॥13॥
त्वद्वांस्त्वयैव चाप्तः स्यात् स्तोतॄणामा समन्ततः । इयानो गम्यमानस्तै रणतोश्चक्रयोर्यथा ॥
अक्षमाश्रयभावेन …. ॥14॥
….. स्तोतॄणां काममादुहः । आ समन्तात् स्थितं काममत्याधिक्ये पृथक् पृथक् ॥15॥
क्रोधाच्छ्वसद्भिः प्रथयद्भिरात्मवीर्यं सुरैः शश्वदिन्द्रो जिगाय ।
धनानि नः स्वर्णरथं च दाता ƒब्धा प्रादाल्लाभकृते च नोखिƒम् ॥16॥
गोमद्धिरण्यवच्च स्याद् यथायातं तथैव सः । सुखपुत्रयुजा चाश्ववत्येषा शं सुखं यतः ॥
इडैश्वर्यं तथा वीरं वीर्यं खान्यश्वनामतः । गौर्वाग् हितं च रमणं परं ब्रह्म गुणोच्छ्रितम् ॥17॥
समानयोगयुक्तोयं रथो देहस्त्वदात्मनाम् । चित्सुखत्वादमर्त्यश्च ज्ञायते क्षीरसागरे ॥
मोक्षस्य यावता प्राप्तिः समानो योग उच्यते ॥18॥
एकं चक्रं गिरेर्मूध्नि नियतं दिवि चापरम् । पापं चक्रं हरिघ्यस्य पुण्यं दिव्यस्य चोपरि ॥19॥
को मर्त्यस्तव भोगाय यतः सर्वप्रियो भवान् । किमपि प्रियमस्येति पूर्णानन्दात् कधप्रियः ॥
आप्तकामत्वतः कं च गच्छसि स्वार्थहेतुतः । विशेषाद्भावृतेर्विष्णुः कथितश्च विभावरी ॥20॥
चिन्तयामस्तवैकस्य विश्वमान्तपराक योः । पराकः सुसुखैव श्रीरन्तः किƒरुदाहृतः ॥
नरकस्वर्गयोरेव देव्युषा उदिता यदा । जात्यश्ववत् सदा भद्रे चारुणे ….. ॥21॥
……. प्राणवाक्सुते । तद्व्यङ्ग्यत्वाद्धरिश्चैव दिवः पुत्र उदाहृतः ॥22॥
****************************************************************
सूक्त31
अग्नीन्द्रादिगतं पृथक् स्थितमपि स्तौत्यच्युतं भक्तितः । स्वर्णस्तूप इति प्रसिद्धिमगमद्यः संस्तुवन् सूर्यगम् ॥
विष्णुं स्वर्णसमानचारुवपुषं स्वर्णाभिधं शाश्वतम् । तं दृष्ट्वा परतोभवच्च महितः सुज्ञानमप्याप्तवान् ॥
अङ्गे रसो ज्ञानत एव चर्षिः सखा प्रियत्वेन दिवौकसां हरिः । तव व्रतेनैव सविद्यकर्मिणो महाविज्ञाना मरुतो बभूविरे ॥1॥
व्यापी च विश्वस्य सुमेधया युतो जडाजडे वेत्ति तथाब्धिशायी ।
कतिप्रकारोपि स हि प्रजायै स्वामी गुरुर्नित्यसखा पिता च ॥2॥
त्वं विष्णो प्रथमो मातरिश्व आविर्बभूवास्य सुबोधवत्त्वात् । वायुर्विवस्वान् विविधेषु वासादशोभेतां श्रीश्च भूः सर्वहोतुः ॥
वरत्वतस्ते रदनाद् रोदसी ते सैका हि दीर्णा द्विविधा बभूव । सहन्तेमुं नैव केचिद्ध्यसघ्नुर्वायुर्विरिञ्चोपि महांश्च तस्मै ॥
विश्वस्यभारं प्रतिदिष्टवांस्त्वं वासाच्च सर्वत्र वसुर्भवानसि ॥3॥
विशिष्टबोधान्मनवे वायवे त्वं प्रादा दिवं ज्ञानरूपां प्रियां च । यथा तदीयेति तु वाशनं स्याल्लोकस्य सर्वस्य तथैव देव ॥
पुरूरवा वायुरेवोरुशब्दादन्यस्मै वा सुकृते सुकृत्तरः । श्वा वै वायुः श्वसनात् त्रणतोस्य नित्यं मुक्तः प्रकृतेः पूरुषाच्च ॥
तेनैव त्वामानयन् पूर्वसन्तो नीतं पुनश्चाप्यपरे सुभक्त्या ॥4॥
श्रोतव्यस्त्वं यजमानेन नित्यं नित्यायुरग्रे जनताप्रविष्ठः । ऐश्वर्याद्याः षड्गुणाः नित्यवृत्ता वषट्कारस्यार्थ इत्याह वेद ॥5॥
सद्विद्याख्ये विदथे सम्प्रजाते पापाचारं पुरुषं वा पिपर्षि । स्कमन् गृहे स्वे विविधप्रजेशे विचर्षणिः शूरसातौ च युद्धे ॥
सातिर्ƒाभे यत् परितक्म्येधिगम्ये दभ्रा अपि त्वां शरणं यदि स्म ।
ऋता गतास्तत्र हि भूयसोपि तैर्हंसि शक्त्या सङ्ख्यया वाप्रयत्नात् ॥6॥
दिने दिने तत्स्तुतिं श्रोतुकामस्तवं स्तोतारममृतत्वे दधासि । प्रीत्याधिक्यात् ततृषाणो मनुष्यदेवोभयेषां सुखमानतनोषि ॥
आ समन्ताज्ज्ञानिने तत्र नित्यं प्रियं मोक्षाख्यं ततृषाणो विशेषात् ॥7॥
प्रज्ञाधनानां ƒब्धये नः कृधि त्वं यशस्विनं कारिणं ज्ञानदं च । कतापरोक्ष्यं यावदुपासनादीन् कारुस्तेन प्रोच्यते तत्त्वदर्शी ॥
संस्तूयमानः कर्मणा नूतनेन समृद्धिं च प्राप्नुमः प्राक्तनस्या ॥8॥
त्वं नः पित्रोः प्रकृतेः पूरुषस्य समीपस्थस्तन्नियन्ता सदैव । देवेषु त्वं जागृविर्नित्यवेत्ता तनूकृन्नो बोधय प्राज्ञवर्यः ॥
विश्वं वसु प्रार्पयसे च कारवे …. ॥9॥
…. आयुष्करो भ्रातरस्ते वयं च । देहे त्वेकस्मिन् गर्भवद् वासतश्च भ्रातास्य जीवः परमस्य नित्यम् ॥10॥
आयो राज्ञो हृदये प्रेरकत्वादायोयुर्नहुषस्याधिपश्च । चक्रुर्देवा देहसृष्ट्यैव तस्य यन्नामान्तर्यामिणो जीवगं च ॥
नामार्थभाग्वासुदेवो हि शक्त्या तेन ह्यायुः प्रथमोसाविहोक्तः ।
मनुर्नाम्ना मनुषस्तस्य चेला पुत्री नामास्या अपि विष्णोः सदैव ॥
इलेज्यत्वादुपजीव्यत्वतश्च स एवायुरयनाज्ज्ञानतश्च ।
तच्छास्यत्वाच्छासनी मानवीला तच्छासकत्वाच्छासनी वासुदेवः ॥
ममत्वकर्तुर्हि पितुः स पुत्रः स्वातन्त्र्यं च ममता नान्यदस्ति ॥11॥
त्वं नो मघोनो यजमानस्य तन्वस्तवैव रक्षाशक्तिभी रक्ष देव । चशब्देन ज्ञानभक्त्यादिकं च सदास्माकं जयमानस्य चाद्धा ॥
त्राता तोकस्य पुत्रस्य च त्वं सन्ततित्वात् तनयस्यास्य सूनोः । गवां च त्वं रक्षिता ज्ञानसौख्यवाचां वाद्धैवानिमेषं सुरांश्च ॥
संरक्षमाणस्त्वद्वते तैः प्रवृत्ते ….. ॥12॥
….. यज्योश्च त्वं पाƒको ह्यन्तरश्च । नितरां यः सङ्गहीनोनिषङ्गस्तस्मै भक्त्या दीप्यसे ज्ञानदृष्ट्या ॥
द्विशीर्षत्वाच्चतुरक्षोधियज्ञो द्वे शीर्षे इति वागुत्तरत्र । यो दत्तहव्यस्तेतिसौम्याय पीत्यै कर्तुर्मन्त्रं सम्भजसे हि तस्य ॥13॥
महास्तोत्राय वदते स्पार्हमिष्टं रेक्णः सुखं परमं तद् ददासि ।
आ समन्तात् धारकस्यापि वायोः प्रज्ञानदः प्रोच्यसे त्वं पिता च ॥
प्रशास्सि त्वं परिपक्वाधिकारं प्रदेशकत्वादखिƒं त्वं सुवेत्ता ॥14॥
धृतं वर्मेव परिपासि नित्यं प्रयत्नाद् यो दक्षिणादो मखेषु । स्वादुक्षद्मा सुखगेहो गृहे च स्योनं सुखं यः परेषां करोति ॥
यावज्जीवं यजने सुप्रतिज्ञो भूत्वा च यो यजते तस्य सैव । द्युप्राप्तिभावे ह्युपमा देह एव क्षमेति वा वसतिर्ज्ञानमार्गे ॥15॥
या मे भवच्छरणप्राप्तिरेषा मर्षस्व तामल्प इति क्रुधो मा । त्वत्प्राप्त्यर्थे दूरमगां च यत्तत्प्राप्यः पिता ज्ञानतो देवतानाम् ॥
त्वं भ्रामको मानुषाणामृषीणां कर्ता तथा ज्ञानदानेन देव ॥16॥
यथा मनुश्चाङ्गिरा वा ययातिर्गृहे प्राप्तास्त्वां तथा मद्गृहं च । अभ्यायाह्यावह देवसङ्घमासादय बर्हिषि यक्षि च प्रियम् ॥
यष्टा त्वमेवाखिƒजीवगो यत् ….. ॥17॥
…. स्पष्टत्वं च प्राप्नुहि वेदवाचा । शक्त्या यत् ते चकृम ज्ञानतो वा वस्यो भद्रं प्रणयास्मान् सुमत्या ॥
भोगेतया संसृज नित्यमेव यस्माच्छक्त्या चकृम त्वत्सुकर्म ॥18॥
****************************************************************
सूक्त32
इन्द्रस्य वा वासुदेवस्य वीर्याण्याचक्षेहं यानि मुख्यानि चक्रे । अहिं दैत्यं संशयं वा जघान जƒानुसारेण चखान मार्गम् ॥
ततर्द विघ्नान् कर्मणा वानुसारात् वहनात् पक्षा वक्षणा दुर्वचांसि ।
जीवानां चेद् वक्षणा जन्मपर्ववतां बिभेदैव सुयुक्तिभिस्ताः ॥1॥
त्वष्टा त्वेतज्ज्ञानवज्रं विरिञ्चस्ततक्षैतद्विषयं यत् त्विडात्मा । स्वर्थं वज्रं निशितं शब्दजं वा शिशुवत्सा गाव इवैतदीरिताः ॥
अञ्जः समुद्रं जग्मुरापः क्रिया वा समुद्रिक्तं देवमेनं व्रजन्ति ॥2॥
वव्रे सोमं तृषितो यद्वदेव वृषापिबत् सवनेषु त्रिषु स्म । सवनानां कद्रुकत्वं द्रुतं यत् कमत्र सोमा ध्यानयोगे मनो वा ॥
सायङ्करं ƒयकृज्ज्ञानमेव समाददे संशयमीशवद्वा ॥3॥
अहन्नेनं प्रथमं मायिनां च व्यानाशयो व्याजरूपाश्च मायाः । ततः सूर्यद्युदिनादेश्च कर्ता त्वमेव तावद्बƒतो न शत्रुम् ॥
ƒभसे मायावादिनां वाथ माया व्यनाशयः स्वजनैस्तज्जयेन ॥4॥
अहन् वृत्रं व्यंसमतोधिकं च तमोमिथ्याप्रत्ययौ व्यंसनाद्वा । स्कन्धास्तरोर्यद्वदथो विवृक्णा अहिश्च वज्रेण कुƒस्य शङ्कृतेः ॥
विद्या नाम्ना कुिƒशो बुद्धिरेव पृथिव्याख्या संशयस्तद्गतो यत् । अतः पृथिव्या उपपृक् … ॥5॥
… यस्य योद्धा नायोद्धासौ तद्वदेवेन्द्रशत्रुः । दर्पोद्रिक्तो ह्याह्वयामास शक्रं विष्णुं वाज्ञानं वीरतमं रिपूणाम् ॥
महोच्चानां बाधकं दार्ढ्यहेतोर्ऋजीषाख्यं नास्य विष्णोर्वधानाम् ।
सम्प्राप्तिमज्ञानमथापि वृत्रः शक्रस्यातारीत् सम्पिपिषे प्रजाश्च ॥
रुजा युक्ता मानुषीर्या सृतिस्था इन्द्रः शत्रुर्यस्य स हीन्द्रशत्रुः ।
पुंसोः पूर्वस्मिन् स्वरितान्ते समासो बहुव्रीहिर्हीति सूत्रं पुराणम् ॥6॥
सञ्छिन्नपाद्बाहुरपीन्द्रमेव युयोध वज्रं व्यसृजत् स तस्य । गिरे सानुप्रतिमे कण्ठदेशे तर्कागमाभ्यां रहितं तमो वा ॥
संयुद्ध्यमानं मानवज्रेण विष्णुर्जघान वध्रिर्वधयोग्योथ नीचः ।
ईशस्य शत्रुर्भवितुं स इच्छन् व्यस्तोशयद् बहुधेशेन तेन ॥7॥
अपां रोद्धारममुया स्वमात्रा सहैव शक्रेण हतं शयानम् । भिन्नं नदं यद्वदतीव चापो मनःपूर्वं चारुहाणाः प्रयान्ति ॥
वृत्रो याः पूर्वं स्वमहिम्ना परीत्य पुरातिष्ठत् तत्सुतोहिश्च तासाम् । पत्सुतःशीः पादतोनन्तरं तु शेताभवत् तद्वदेवाभिरुन्धन् ॥
तमःपुत्रः संशयो वाभिरुन्धन् शुभान्यास्ते निहतः सोपि तेन ॥8॥
नीचस्थाने बन्धनं यापि चापां करोति दानुर्वृत्रमाता दनुः सा । वृत्रो ह्यभूद् दनुजः कश्यपाच्च पापात्मासौ वैष्णवस्त्वष्टृजातः ॥
वृत्रः पुत्रोस्या इति सा वृत्रपुत्रा वधं तस्या अहरत् पूर्वमिन्द्रः । प्रकृतिर्वा वृत्रमाता तमो हि तस्या अभूत् तां जघानेशिता वा ॥
प्रातिस्विकी प्रकृतिर्यत् तमश्च दोषाश्चान्ये पुंस्वतो युक्तमेतत् । सुतावनार्थमुपरिस्था बभूव सुतस्य माता तां निहत्यामुमेव ॥
जघानेन्द्रः कारणस्यैव नाशात् कार्योत्थानं वारयामास विष्णुः ।
स्यादेव पूर्वं कार्यनाशो ह्यथापि निश्शेषनाशः कारणस्यैव नाशात् ॥
एवं भक्ताननुजग्राह देवो नारायणः पारयन् संसृतेश्च । उत्तरत्वं प्रकृतेः शक्तितः स्यात् … ॥9॥
…. अनन्तत्वान्नैव तिष्ठन्ति काष्ठाः । अतस्तासां न गृहं किञ्चिदस्ति निण्यं सुखेनैव चरन्ति चापः ॥
दीर्घं तमो वृत्रसञ्ज्ञं तमो वा दीर्घमन्धं प्राप वृत्रः स एव ॥10॥
दासस्य विर्ष्णोर्वरुणस्य पत्न्यो निरुद्धा आसन्नहिना यद्वदेव । गावो बƒेनेन्द्रयज्ञे सुक्लृप्ता वृत्रं हत्वा तमहिं चाशु शक्रः ॥
उद्धाटयामास बिƒं तदापां शुभद्वारं भगवान् वा तमो घन्न् ॥11॥
सृके युद्धे प्रत्यहंस्त्वां यदि स्म देवाः प्रधानोपि तदश्ववारः । वाƒीव त्वं ननु देवस्तदानीं प्रतिहन्ता ते नैव कश्चिद्धि तस्मात् ॥
अजयो बƒाद् गा अजयो हिरण्यं सोमं गन्तुममुचः सप्त सिन्धून् ॥12॥
अशनिं याः विद्युतं यां मिहं च नाम्ना हेतिं वेद्युपमां सुतीक्ष्णाम् । अशनिभेदं ह्रादुनिनामधेयं त्वामुद्दिश्यैवाकिरत् सोहिरुग्रः ॥
त्वां प्रत्येतन्नैव सिद्धिं चकार पश्चात् काƒे त्वजयस्त्वं तमेव ॥13॥
अहेर्योद्धारं कमपश्य इन्द्र यज्जघ्नुषस्तेपि भयं जगाम । ज्ञानानि मिथ्याबोधतोस्मन्मनश्च शब्दादिकादमुचः सप्तसिन्धून् ॥
महत्तत्वादीन् विपरीता मतिस्तु विद्युच्छब्दास्तन्यतुर्वक्तृशक्तिः ।
मिहेत्युक्ता ह्रादुनिर्हुङ्कृतिश्च प्रतिवक्तॄणामनुकूƒे परेशे ॥
न साधयन्ति स्म तमस्समुत्या जयत्येनं संशयं वासुदेवः । स्वभक्तार्थे तद्धृदिस्थः क एव त्वदन्योहेरभिगन्ता भवेत ॥
तवैव यस्मात् संशयं जघ्नुषस्तु त्वदीयानां भयमञ्जो व्यपैति । शतमेकोनमतरस्त्वं नदीनामहिं दैत्यं घन्न् यथाकाशदेशान् ॥
भीतः श्येनो ह्यभिगच्छेत् तथैव नानानदीवारकत्वात्तु तस्य । ईशो देवानां तावतां तावतीश्च सृत्यापगास्तारयामास यद्वत् ॥
भीतः श्येनस्तरतीत्थं तथैषां कृत्वोपमां तारयामास देवः । स्वातन्त्र्यभेद त्र्यभेदे करणे चोक्त एव व्यत्यास इत्यनवद्यं तदेतत् ॥
वस्वादित्या मरुतश्चाश्विनौ च बृहस्पतिः शेषविपानिरुद्धाः ।
ब्रह्मा ब्रह्माण ऋभवश्चैव रुद्रा ऊनं शतं देवतासंहितोक्तम् ॥14॥
स एवेन्द्रो भगवांस्तत्प्रसादात् प्राप्तो भक्तैः पर्यवसानगन्तुः । मुक्तस्य राजाथापि शमस्य मुक्तेर्ज्ञानं शृङ्गं तद्वतश्चैव नित्यम् ॥
स एव राजा क्षयति प्रजानां भूतान्यराणीव च पर्यभूत् सः ॥15॥
इति द्वितीयोध्यायः ॥
****************************************************************
अथ तृतीयोध्यायः
सूक्त33
ये सखायस्त्वरिता एत देवा उपायाम पशुवत् तद्वशस्थाः । गव्यन्त उक्ता अतिनिश्चितेर्थेभूते शब्दश्चेत्याह सूत्रं परेशः ॥
प्रकृष्टज्ञानं वर्धयत्येव सुष्ठु स नोभेद्योनामृणः क्वापि तस्य । वित्तानि तस्माद् वेदवाक्योत्थमेव केतं ज्ञानं परमावर्जते नः ॥
ददाति ॥1॥
… उपैवेशमहं पतामि यथा श्येनो वसतिं पूर्वभुक्ताम् । इन्द्रं नमस्यन्ननुकूƒर्ग्भिरेव यः स्तोतृभ्यो हव्य एवास्ति काƒे ॥2॥
अशेषसेनापतिरेष शत्रूनशेषतो हन्तुमथो तमांसि । बध्नाति तूणान् निजसज्जनान् वा संयोजयत्यात्मनि मानबाणान् ॥
अर्थो गम्योधीश्वरो गा मतीर्वा सङ्काƒयत्येव च यस्य वष्टि । भक्तस्य तत्त्वं ददमानश्च भूरि भद्रं मा भूरसुरस्त्वं कदाचित् ॥
अस्मदर्थे हिंसकत्वेन नित्यं प्रवृद्ध …. ॥3॥
….. वज्रेण घनेन दस्युम् । ज्ञानेन चाज्ञानगणं धनाढ्यमयज्युं चाप्येक एवान्तरे च ॥
चरञ्छाकैः शक्तिभिः सर्वदेवनरादिƒोकं यमयञ्जघन्थ । अधिकृत्य त्वां धनुमत्यन्तपुष्टं विष्वग्जग्मुरयजन्तः सदैव ॥
मृतिं प्रापुर्दुःखबाहुल्यरूपां सनका ƒाभे योग्यरूपा अपि स्म ॥4॥
यज्वानोन्ये वक्ष्यमाणास्तु ये ते सन्त्यासुरा यज्वभिः स्पर्धमानाः ।
शिरांस्यपि स्वानि सन्तत्यजुस्ते सद्भिः स्पर्धामात्रसम्पूरितार्थाः ॥
तानब्रवीत् स्वर्गतः खात् पृथिव्या निरधमस्त्वं स्थैर्यवानिन्द्रियेशः ॥5॥
यदा नवग्वा ऋषयोसुरेन्द्रैरुपद्रुताः शरणं वासुदेवम् । प्रापुस्तमोभिस्तामसैर्वाघसङ्घैः सम्पीडिता अयुयुत्संस्तदा तैः ॥
सेनां च विष्णोर्निरयातयंस्ते वधाय तेषां हरिभक्त्यादिकान् वा ।
गुणान् समर्था इव योधाः स्वशत्रुवदैकशीƒा अपि नष्टाः प्ƒवद्भिः ॥
गुणैर्विष्णोः स्वैर्गुणैर्वा प्रसादादीशस्य सङ्काƒयन्तो ह्यगच्छन् ॥6॥
रक्षोगणान् भक्षयतो मुनींश्च सम्पीडितान् रुदतश्च त्वयैव । अयोधयो रजसोन्ते सुसत्त्ववृद्धिर्यदा जगतः स्यात् तदैव ॥
पुंदोषान् वा गुणभक्षान् नृसत्त्ववृद्धौ दिवो ज्ञानतोवादहश्च । अज्ञानदस्युं स्तुवतः संस्तुतिं च प्रावोरक्षः ….. ॥7॥
….. बन्धनं ये जनानाम् । कुर्वन्ति हेम्ना मणिभिः शोभमाना दैत्यादयो दृढदोषा धनैर्वा ॥
ते प्रेरयन्तोपि परस्परेण नैवातरन् वासुदेवं कथञ्चित् । सहैव सूर्येण च देवसङ्घांश्चरानज्ञातानदधाद् वासुदेवः ॥
दैत्यानां वा तमसां वृत्तदृष्टौ ….. ॥8॥
…. पर्यभुङ्क्थाः सह यद् रोदसी च । स्वमहिम्ना विश्वतः सम्यगेव तदभक्तानधमो भक्तसङ्घैः ॥9॥
ये दस्यवो द्युपृथिव्योरशेषभोगेच्छवो धनदं चेश्वरं तम् । जिगीषवः स्वीयमायाभिरेव नैवोदापुर्द्वयमेतत् कदाचित् ॥
युक्तं ज्ञानं वज्रमेवायुधं वा दस्यून् हन्तुं कृतवान् देवदेवः । निजेनैव ज्योतिषा भक्तहृद्गतमोगूढान्यदुहन्निश्चयेन ॥
ज्ञानानि विष्णुर्यत् तदज्ञानमुग्रम् ….. ॥10॥
….. यस्य कर्माण्यक्षरन् सौख्यमेव । यो वेदवाचां सृतिनावात्मकानां मध्येवर्धयदयथाज्ञानरूपः ॥
समीचीनज्ञानतोहंस्तमीश ओजिष्ठेन हेतिरूपेण सम्यक् । मोक्षप्रकाशार्थमथापि नावा तरणीयानां मध्यतोपां वृधं तम् ॥
अहिं वै ….. ॥11॥
… इलिनो भूस्थिताः स्युस्तत्राविशन्नसुरो नाम तस्य । इलीविशस्तस्य दृढानि यानि बƒादीनि न्यहनत् तानि देवः ॥
तमसो वा शृङ्गिणं शोषकं च वृषरूपं दैत्यमहन्नथो वा । कामं यावच्छक्तितो विक्रमाद् वा वेगेन वा शत्रुमथो पृतन्युम् ॥
जघन्थ वज्रेण सुबोधनो वा न शक्तिसामस्त्यमिहोदितं हरेः । अनन्तशक्तिर्हि हरिः सदैव कुत एव शत्रुस्तदमुष्य कोपि ॥
अतो यथाशक्त्यभियुद्ध्यमान शत्रुं जघन्थेति महानिहार्थः ॥12॥
स सर्वतः सिद्धियुतः सदैव जिगाय जीवारिगणान् पुरश्च । संसाररूपा अभिनद्वृषेण प्राणेन तिग्मेन विरोधिनः प्रति ॥
संयोजयामास वज्रेण वृत्रं ज्ञानेन वाज्ञानममुष्य हत्यै । मतिं च स्वामदिशत् स्वप्रजाभ्यः स शाशदानः सर्वदैव ॥13॥
कुत्सं दशद्युं च मुनिं नृपं च यस्मिन् स्थितः स्वात्मरूपं सुभक्त्या ।
अदर्शयस्तोषितो यः स्वतन्त्रश्चाकन्नुक्तः कर्म यतः स्वतन्त्रे ॥
वृषरूपस्यास्य नृपस्य युध्यतः शफच्युतो रेणुरुन्नक्षत द्याम् ।
श्वेता वाणी वायुभार्या सुतोस्याः श्वैत्रेयोयं युधतो ह्युदस्थात् ॥
वृषः श्वैत्रेयो धर्म एवाथ कुत्सनामाध्यात्मे कुत्सितोत्सारणात् स्यात् ।
धर्मरेणुः स्वर्गमात्राभिगामी साक्षाद् धर्मो मोक्षफƒोपगः स्यात् ॥14॥
शमात्मकं वृषभं धर्ममेवाप्यरक्षस्त्वं तुग्रियास्वप्यधीश । तुग्र्याख्या स्यात् सन्ततिर्दीर्घकाƒा मुक्तिक्षेत्रविजयायैव धर्मम् ॥
श्वेतासुतं रमणाद् रेफ उक्तस्तमरक्षस्त्वं त्वयि ये तस्थिवांसः ।
ज्योतिश्चक्रुर्निजरूपं विमुक्त्या ज्ञानान्यरीणामधराणि चाकरोः ॥15॥
****************************************************************
सूक्त34
आरभ्य चाद्यैव दिवा निशायां तदन्तरे च त्रिरपि स्म सर्वदा । अस्माकमेव भवतं यतोन्यो वेत्ता न तावित्युदितो नवेदसौ ॥
गौणं तदन्यत्र हरौ तु मुख्यतो व्यापी तु मार्गो युवयोश्च दानम् । अशेषदेशेषु गतेरशेषदातृत्वतश्चैव युवोर्हि यन्त्रम् ॥
वासोयन्त्रं यद्वदयत्नतः स्याद्धिम्या हिनोतेस्तन्तुविक्षेपणी हि । तद्वद् बुद्धिप्रेरकायत्नतो वामायार्थसेनी भवतं मनीषिभिः ॥
सहैव देवैः ….. ॥1॥
…. पवयश्चायुधानि सोमस्य पानं चेतनत्वाद् विदुस्ते । वज्रः खङ्गः शर इत्यायुधानि त्रिवेणवः स्तम्भनामान एव ॥
दिवा निशायां त्रिस्त्रिरेवानुयाथः कर्मारम्भार्थं ƒोकसिद्ध्यर्थमञ्जः । चक्रं गदा शर इत्यायुधानि वेदास्त्रयो वासुदेवस्य च स्युः ॥
रथः स्वीयो ज्ञानिनां वा शरीरं प्राणादयः स्तम्भनान्यस्य चापि ॥2॥
वैषम्यहीने सुखभाजनेह्नि विमुक्तिकाƒेखिƒदोषनाशकौ । स्वभक्तानां शोधयतं च यज्ञं त्रिरस्माकं युद्धजिता इषश्च ॥
सुखानि वा मोक्षगतानि नोƒमहोरात्रे क्षरतं सर्वदैव ॥3॥
यद्वर्तनं सर्वƒोकेषु तच्च त्रिकाƒगं युवयोरेव सर्वम् । भक्ते जने सुष्टु रक्ष्ये सुभक्ते त्रिधेव काƒानुगते सुशिक्षतम् ॥
सुखं वहेतं च युवां तु नः सदा पुष्टिं च नित्यां क्षरतं वर्णवच्च ॥4॥
वित्तं च नित्यं देवततिं च नित्यं धियं च शुभ्रां नित्यमेवावतं नः । कीर्तिं सौभाग्यं रक्षतं नः सदैव काƒत्रये युष्मदीयं रथं च ॥
पुत्री सूर्यस्यारुहद् भक्तदेहे ज्ञानोदयो वा भगवत्प्रसादात् ॥5॥
सर्वेषु काƒेष्वपि भेषजानि नः सर्वƒोकप्रभवानि दत्तम् । अद्भ्यः सुखायैव सुखं ममैव स्वल्पस्य युष्मत्पुत्रकस्याथ दत्तम् ॥
पती शुभस्याथ सुतस्य शंयोर्मदीयस्यैवावहतं सुखं वा ॥6-12॥
****************************************************************
सूक्त35
ह्वयामि देवानग्निपूर्वानथो वा विष्णुं तैस्तैर्नाभभी राति यस्मात् । रतित्वाद् वा रतिदत्वाद् स रात्री …. ॥1॥
….. कृष्णं रजः शार्वरं हृत्तमो वा । देवान् नृजातानथवा विमुक्तानन्यांश्च मर्त्यान् सृतिगान् वा ƒयेषु ॥
निशासु वा स्वात्मनि सन्निवेशयन् प्रस्वापयन् वा रविगो जनार्दनः ॥2॥
आयाति नित्यं चोच्चनीचैः प्रदेशैः शुभ्राश्वयुक्तेन रथेन याज्यः । शुभौ च तौ रमणीयौ च शुभ्रौ पुरोगाश्वौ हरिदश्वो हि सूर्यः ॥
परावतो दूरतः …… ॥3॥
अभीवृतश्च रथो हिरण्यैस्तस्य शम्या युगाणी । तमःप्रकाशौ यदधीनौ यतस्तौ दधान इत्युच्यते वासुदेवः ॥
कृष्णं रजस्तविषी सत्त्वपूर्वगुणास्त्रयो वा व्युत्क्रमात् …. ॥4॥
…. तत्तुरङ्गाः । श्यावाः श्यामत्वान्नीƒपादो जगत् ते पश्यन्ति सन्धिः प्रउगं रथस्य ॥
देवप्रियत्वात् दैव्यनाम्नो हरेस्तु समीपस्थं सर्वगत्वाज्जगद्धि ॥5॥
तिस्रो द्यावो मात्रयं द्वावुपस्थौ जडाजडे श्रीर्विराषाडधीशा । विश्वस्य साक्षात् भगवान् नियन्ता यमोस्य सर्वं गदितं सदैव ॥
जडाजडत्वान्मानमुक्तं पृथग्धि सर्वस्वाम्यं वक्तुमेवोदिता श्रीः । अन्योन्यसम्बन्धविवक्षयैव ह्युपस्थत्वं मुक्तभूतानि यानि ॥
अशेषतस्तानि रथस्य यद्वदाणिं रथ्यं संश्रितं सर्वदैव । एवं हरिं संश्रिततान्यब्जजेशपूर्वाण्यपीत्येष वेदार्थसारः ॥
इह ब्रवीत्वन्यथा योभिपश्येत् कुर्याद् वा तद्यो यथावच्च पश्येत् ।
शेषं ज्ञानं स ब्रवीत्वस्मदर्थे चकार यो विष्णुरेतत् स वा नः ॥6॥
गम्भीरवेगो भगवान् सुपर्णः परानन्दादन्तरीक्ष्याण्यपश्यत् । असौ रतिः शुभनीतिश्च विष्णुरित्यपश्यद् दुर्ƒभत्वात् क एव ॥
पश्यन् रवे रश्मिगणानपीह सर्वव्याप्तानपि विष्णोर्न रश्मीन् । ƒोकः पश्येदिति कुत्राततानेत्याक्षिप्यते व्यक्तिमपेक्ष्य रश्मेः ॥7॥
ऊर्ध्वं मध्यमधरं चेति धन्वत्रयं तमः सुखƒीनं यतस्तत् । युक्तं भवेत् तद्गतैः सर्वदैव दृढश्ƒेषात् योजनं स्यात् तमो हि ॥
अष्टौ दिशः प्रकृतेर्वा पृथिव्या ग्रहदाद्याः सिन्धवस्तान्यपश्यत् ।
हिरण्याक्षो नरसिंहात्मना स वार्याणि यद्वरणीयं सुवित्तम् ॥8॥
चर्षणिभ्यो यत्प्रजाभ्यो विशिष्टो विचर्षणिः केशवः सूर्यमेति । ऋणोति सम्पूरयति ….. ॥9॥
…. स्ववान् स स्वतन्त्रत्वात् स्वर्णपात्रं सुपूर्णम् । दधानोसौ स्वर्णवर्णश्च तेन स्वर्णपाणिः स्वर्णहस्तश्च देवः ॥
पृथक् पृथक् पाणिपूर्वाङ्गवित्त्यै स्वर्णवर्णः स्वर्णपाणिः स उक्तः । एतैर्ƒिङ्गैर्वेत्ति सूर्यं यतश्च सूर्यादन्यः सविता वासुदेवः ॥
उक्तो गायत्र्या चारणैस्तत्र तत्र कप्यास पद्माक्ष इति ह्युदाख्यः ॥10॥
ये पन्थानो देवयाना अमुत्र साध्या ये तेरेणवोरागतो वा । रजो हानादथवा तान् प्रदाय रक्षाधिकान् ब्रूहि नोथो समेभ्यः ॥11॥
****************************************************************
सूक्त36
कण्वस्त्वध्यापयन् विष्णोरनुग्रहमथाप्नुवन् । इच्छंश्च ज्ञानविततिं देवांस्तुष्टाव भक्तितः ॥
ऋक्च्छतेनाविशिष्टं च जप्यस्यान्ते तु काƒतः । शृण्वन्तु स्तोममित्यन्ता ददर्शैकाग्रमानसः ॥
बह्वाधेयत्वतः पुत्रं बहूनां वो हुताशनम् । बहुज्ञेयत्वतो विष्णुं वेमहे हे प्रजाः सदा ॥
देवज्ञानाद् वा यजनाद् देवयत्यः समीलते । यमन्ये च जनाः सन्तः … ॥1॥
…. सहसा वायुनैधितम् । धारयन्ति जनास्तस्य कर्म कुर्मो वयं च ते ॥
सन्त्यः सम्यक्ततो विष्णुर्वायोरपि विवृद्धिकृत् ॥2॥
प्रततेः पुरातनत्वाद् वा प्रत्नः ॥3-4॥
मन्द्रो महामखः ॥5॥
देवान् सुवीर्यान् यजसि ॥6॥
…. तं हि त्वामेव सर्वदा । उपासते नमस्यन्तः सन्तस्तीर्णास्तु संसृतेः ॥
स्रिधो ह्यति तितिर्वांसस्तीर्णदुःखा इहैव वा । त्वत्प्रसादेव विद्वांसः प्राप्य ब्राह्मण्यमुत्तमम् ॥7॥
तमो घ्नन्तोतरन् ƒोकानपः कर्माणि चोत्तमाः । उरु ब्रह्म क्षितित्वेन चक्रुस्तत्रैव संस्थितेः ॥
वृषा स भगवान् विष्णुर्मुनौ कण्वेभवत् स्थितः । क्रन्ददश्वस्वरूपश्च ज्ञानस्यान्वेषणे कृते ॥
ततः कण्वान्निस्सरन्ति शुद्धा वेदानुगा गिरः । द्युतिमत्वात् स तु द्युम्नी …. ॥8॥
देवेषु ज्ञानवत्तमः । स त्वं शोचस्व दीप्यस्व धूमः संसारधूत्कृतेः ॥
अरुषो रोषहीनत्वात् धूमश्चेच्छुभगन्धनात् ॥9॥
यं सुतो मे समीधेग्निं मेध्यातिथि ऋतादधि । उक्त्वा सत्यां वेदवाचं देयान्यन्नानि तस्य हि ॥
तं प्रतीमा ऋचः सर्वाः प्रकाशाद् वर्धयाम तम् । इन्धनं तु हरेर्नान्यत् क्वचिदस्ति प्रकाशनात् ॥10-11॥
वित्तानि पूरयास्माकं देवेष्वप्याप्यमस्ति ते । यज्ञभागादिपूज्यत्वात् स्वधावः सुखवर्धकः ।
श्रुत्यवाजो यज्ञभागो राजा भवसि तस्य हि ॥12॥
अस्मद्रक्षाकृते नित्यं सूद्यतो भव विष्णुवत् । विष्णुश्चेत् स्वात्मदृष्टान्तो नोन्नदाता तथोद्यमी ॥
यत् स्तुवद्भिर्द्विजैर्युक्ताः स्नेहैस्त्वां विह्वयामहे ॥13॥
ज्ञानेन पाहि नितरामुद्यम्युच्चगुणोपि नः । असुरा अत्रयः प्रोक्ता मार्गत्रयविवर्जिताः ॥
स्वर्गापवर्गमानुष्यं त्यक्त्वा यान्ति तमो हि ते । अदन्तीत्यथा रक्षांसि वात्रयोधिकभक्षणात् ॥
भोगाय जीवनायापि स्वƒोकचरणाय च । उत्तमान् कुरु नो नित्यं दोहनानि च ƒम्भय ॥
देवेभ्योखिƒकाम्यानि सदा नोतिमहान्ति च ॥14॥
अरं छिद्रं प्रापयतीत्यरा वा पापपूरुषः । धूत्कृतेस्तस्य नो रक्ष नश्यतोस्मद्वधाय च ॥
यवीयस्सु स्थितत्वेन यविष्ठो हरिरुच्यते । ब्रह्माद्यपेक्षया नित्यं यविष्ठतम एव यत् ॥
अग्निर्यविष्ठ्य इत्युक्तो यदाधिक्यार्थतोधिकम् ॥15॥
वायुर्मेधानिव जहि सर्वतः पापपूरुषान् । अस्मद्द्रोही च यस्तं च तापेनैवात्ति यत् ततः ॥
तपुर्जम्भः शिशीते यस्तीक्ष्णो भवति सर्वदा । नेशो भवतु सोस्माकं दुरात्मा पापपूरुषः ॥16॥
सुवीर्यं सौभगं ममेशः समभाजयत् । मेध्यातिथिं सुतं चैव मित्राणि च ररक्ष मे ॥
उपस्तुतं चैव मुनिं सातौ ƒाभे ररक्ष ह ॥17॥
तुर्वशादींस्तथा राज्ञो वयं तेन हवामहे । तुरोपि यद्वशे विष्णुः स च तुर्वशनामवान् ॥
यदस्ति तत उच्चत्वात् यदुरुग्रोसुरान् प्रति । तमेव तत्प्रसादेन ह्वयामोनयदेव सः ॥
नववास्त्वादिकान् राज्ञो बƒं दस्युविनिग्रहे ॥18॥
मनुष्यः सन्नहं त्वां तु ज्योतिर्मुक्तजनाय च । निदधे हृदि स त्वं च दीप्यसे मयि सर्वदा ॥
ब्रह्मजोग्निर्ऋताद् वेदवाचोभिव्यज्यते हरिः । उक्षिप्तः स्वगुणैः सर्वैयुक्तः …. ॥19॥
….. अमेयाश्च शक्तयः । त्वेषा इत्युदितास्तस्य हरे रश्मय एव च ।
भीमा न प्रतिगन्तुं च शक्या राक्षसपक्षिणः । यावतो जङ्गमास्तेषां हिंसनावांस्तु राक्षसः ॥
यातुमावानिति प्रोक्तो यातनानुभवात् क्वचित् । यातुरित्येव च प्रोक्तः सन्तं प्रत्यनुकूƒतः ॥
स्थितास्ताः शक्तयो विष्णोः …. ॥20॥
****************************************************************
सूक्त37
…. क्रीडाशीƒं च मारुतम् । शर्धः सुखबƒाढ्यं वाप्यनर्वाणमनिन्द्रियम् ॥
न वायोरिन्द्रियाणां हि देवाः सन्त्यभिमानिनः । अतोनिन्द्रियता तस्य रथे देहे शुभश्च सः ॥
कण्वास्तं गायताभीक्ष्णं विष्णुं वा तादृशं गुणैः ॥1॥
पृषत्यो वाहनान्येषामन्यदायुधमुच्यते । स्वप्रकाशोथवा विष्णुस्तैर्ƒिङ्गैर्व्यज्यते सह ॥
तत्तद्देवगतस्यापि विष्णोर्ƒिङ्गं च तद् भवेत् ॥2॥
यत् ते वदन्ति वचनं मेघनादात्मकं हि तत् । इहापि श्रूयत इव वर्णाव्यक्तेरिवेति च ॥
हस्तेष्वेषां कशाः सन्ति चित्रं मार्गेधिगम्यते । रेण्वादिसर्ववस्तूनां गमनान्मार्गचित्रता ॥
विष्णोः सर्वं जगच्चित्रं मार्गे सम्प्रेर्यतेमुना ॥3॥
शोधकाय प्रधानाय वो बƒाय च वायवे । शुद्धाय वा सुप्रकाशज्ञानायातिबƒाय च ॥
गायत ब्रह्म देवत्तं देवेषु ततमीश्वरम् । प्रीतिर्वायोर्विष्णुगानाद् वेदाख्यं ब्रह्म विष्णवे ॥
देवैरधीयमानत्वात् देवत्तं ब्रह्म वैष्णवम् ॥4॥
अहन्तव्यत्वतस्त्वघ्यं वायुं वृषभरूपिणम् । क्रीडन्तं वेदरूपासु गोषु तं स्तुहि मारुतम् ॥
माभिर्वेदैः स्तुतत्वेन मारुतो विष्णुरेव वा । भक्षणार्थं रसस्यासौ ववृधे मरुतां पिता ॥5॥
आ समन्तादुत्तमः कः प्रधानो वायुरेव वः । विष्णोराक्षेप एव स्यात् को नामास्ति परस्विति ॥
त्वत्पर्यन्तं च वर्पिष्ठः को भवेदिति वा भवेत् । आ धूतयो दिवो ग्मश्च भूम्या इत्यन्वयो भवेत् ॥
तस्मादन्तं प्रतीवैतज्जगत् सन्धूनुथाखिƒम् ॥6॥
नीचैर्धृतो मानुषो वो मार्गायोग्राय मन्यवे । न पूर्यते च कोपाय स्वल्पत्वान्मानुषः क्वचित् ॥
बहुपर्वयुतोत्युच्चगिरिर्मार्गे हि वोत्यजत् । मूƒम् …. ॥7॥
…. येषां तथाज्मेषु मागेष्वतिभिया धरा । कम्पते जीर्णराजेव …. ॥8॥
….. स्थिरं वो जननं यतः । जाता वायोर्दिवि वयो मातुः प्राप्तानि रेतवे ॥
निर्गन्तुं तत्क्षणेनैव सर्वƒोकाटनाय हि । यौवनं ते युवानो हि निसर्गान्मातुराः जनेः ॥
मातुरेव प्रसादेन सम्यक् तद्द्विविधं बƒम् । प्रज्ञाबाहुबƒं यस्मात् तस्मात् ….. ॥9॥
….. दिश उदापिरे । ते गिरः सूनवो देव्या वाश्रा वचनशीिƒनः ॥
अभिजन्मानुसारेण गुणान् यातुमुदापिरे ॥10॥
पद्भ्यां भूमिरिति श्रुत्या सुता विष्णोर्वसुन्धरा । तज्जत्वात् पर्वता विष्णोर्नप्तारः सेचनाद्धि मिट् ॥
हरिस्तमपि मेर्वादि मरुतश्च्यावयन्ति हि । अमृध्रमप्रधृष्यत्वात् ॥11॥
…… बƒं यदपि वोखिƒम् । जनांश्च्यावयितुं स्थानाच्छक्ताः सम्यग् गिरीनपि ॥12॥
कुर्वन्ति शास्त्रसंवादं मार्गे शृण्वन्ति केचन । तेषां मध्ये हि मरुताम् ….॥13॥
…. शीभं क्षिप्रं प्रयात नः । मदं कुरुत तत्रैव दोहनान्यत्र सन्ति हि ॥14॥
सर्वमायुर्जीवसेस्ति प्रसादान्मरुतां हि नः ॥15॥
****************************************************************
सूक्त38
कदनयोर्हस्तयोर्देवा दधिध्वे प्रियतातवत् । कदापि यत् प्रियस्तातः कधप्रिय इतीरितः ॥
स्तृतं बर्हिर्यद्विषये ते प्रोक्ता वृक्तबर्हिषः ॥1॥
दिवः पृथिव्याश्चेदानीं क्व गच्छथ च किं फƒम् । न गच्छथ क्व वाप्येतज्ज्ञातव्यं तत्प्रसादतः ॥
आह्वयन्ति क्व वो गावो यथैव यवसार्थिनः । फƒार्थिनः स्तुवन्तो वः क्वाह्वयन्ति तथैव च ॥2॥
स्तुत्यानि वः सुखानि च कथं ज्ञेयानि नः सदा । इत्यभिप्रायतः प्रश्नः कस्मिन् नो ज्ञापकस्त्विति ॥
सुवितानि सुभद्राणि सौभगं ƒक्षणं परम् ॥3॥
पृशिर्नवेदः प्रश्नयोग्यः पृश्निमाता हरिस्ततः । ज्ञेयस्तस्यापि विज्ञाता मरुतश्चेत् सुता गिरः ॥
मानुषा यदि यूयं वः स्तोता देवो भवेदपि ॥4॥
न स्यादसेव्यः स्तोतात्र यथा यवसगोचरे । गोप्राप्ये तु मृगोसेव्यो यममार्गं न च व्रजेत् ॥
याञ्चारीतिविशेषोयं निन्दा स्तुत्येकदेशयुक् ॥5॥
मा वधीन्नः क्वचिन्मृत्युः परतः परतोपि च । दुर्हणा दुःखदा हन्त्री यातु सा तृष्णया सह ॥6॥
अप्रमेया यथा सत्यं धन्वन्नपि हि सेचनम् । रुजां विद्रावकस्यैव वायोः पुत्रा हि रुद्रियाः ॥
विनाप्यचेतनं वातं वृष्टिं कृण्वन्ति हीच्छया ॥7॥
एषां सकाशाद् वृष्टिश्च विद्युद् भूमिं प्रकाशयेत् । गौर्वत्समिव भूम्यां च …. ॥8॥
….. ƒोकं सिञ्चन्ति मातृवत् ॥9॥
मानुषादित्वमन्यच्चाबिभेदेषां स्वनादपि । गृहमानिनो गृहाद्यं वा चचाƒैषां स्वनादपि ॥10॥
अखिन्नैर्गमनैश्चैव दृढस्वीयैश्च पाणिभिः । अनुयात नदीश्चित्राः ……॥11॥
….. स्थिराः सन्ति रथादयः ॥12॥
ब्रह्मणश्च पतिं विष्णुं यथावद् व्याप्तया गिरा । जरायै संस्तुतित्वेन तृतीया भावरूपिणी ॥
सर्वा विभक्तयश्चेत्थम्भाववाचिन्य एव च । महाव्याकरणे सूत्रमिति संस्तुतिरूपतः ॥
वद विष्णुं स्वप्रकाशमग्निवत् सूर्यवत् तथा । आह चात्मानमेवात्र दाढ्ये स्वप्रतियोगिता ॥
इति सूत्रात् ….. ॥13॥
….. कीर्तिमस्य विष्णोः कुरु मुखे सदा । विस्तारयति पर्जन्यो यद्वद् वृष्टिं तथैव च ॥
विस्तृणीहि तथेशस्य तथा कीर्तिं जगत्यपि ॥14॥
पनस्यु ज्ञानशीƒं च विज्ञेयं गणमर्किणम् । अभवत् ज्ञापका वृद्धा अस्माकं तदनुग्रहात् ॥15॥
****************************************************************
सूक्त39
परावतो हरेः स्थानान्मानं शोचिरिवास्यथ । सूर्यादयो यथा शोचिर्दूरादस्यन्ति जन्तुषु ॥
एवं ज्ञानं सम्प्रदायान्मरुतो विष्णुरेव वा । इत्थं यथा सर्वदृश्यं तत् तथा भवतां कृतम् ॥
एवं यत्र क्व वा ज्ञानबƒाद्वा गच्छत क्वचित् । स्वतन्त्रत्वात् परापेक्षा नहि वः क्वचिदिष्यते ॥
किञ्चिद् याथ बƒात् किञ्चिद् धूनुथ स्वबƒाद्धि तत् ॥1॥
शत्रूणामपनोदाय सन्ति वस्त्विह हेतयः । स्तम्भनाय च शत्रूणां सुदृढान्येव ताः सदा ॥
स्थिरत्वं दीर्घकाƒत्वं वीलुत्वं दृढता तथा । युष्माकं तविषी तेजो बƒमस्त्युत्तमं सदा ॥
मायिनो न हि मर्त्यस्य बƒं तेजोथवोत्तमम् ॥2॥
स्थिरं चाज्ञानपापादि तद्भक्ताय पराहथ । गुरूनपि नरान् नित्यं गुणैर्वर्तयथाञ्जसा ॥
पर्वतानां पृथिव्याश्च दिशो नित्यं वियाथन । वनिनश्च तरून् सम्यग् भजनीयान् सुरान् हरिः ॥3॥
भूमौ दिवि च वः शत्रुः क्वचिन्नैव हि ƒभ्यते । रिशादसः सुसुखिनः सुखेन शमदन्ति यत् ॥
बƒं तेजोपि वो ह्यस्ति व्याप्ता नित्यतया युजा । अद्याप्याधर्षणायैव निखिƒाशुभसन्ततेः ॥4॥
प्रवेपयन्ति पर्वतान् विविञ्चन्ति वनस्पतीन् । जनिपर्ववतो जीवान् सम्प्रेरयति केशवः ॥
भजनीयपतीन् ब्रह्मपूर्वांश्च फƒदानतः । तारतम्येन सम्यक् च विवेचयति सर्वदा ॥
सर्वप्रजास्वतिष्ठन्त प्राप्तास्ताभिः सहैव च । मत्ता इव प्रेरयन्ति शुभाशुभकृतौ नरान् ॥5॥
अयुग्ध्वं पृषतीश्चैव रोहितं पृष्ठतो रथे । वो यामं प्रति दार्ढ्याय शेषमश्रेत्पुनर्धरा ॥
भीतिमापुर्मनुष्याश्च …. ॥6॥
…. क्षिप्रं वः प्राप्तये सुखम् । रक्षां वृणीमहे युष्मद् गन्ताद्यापि च नोवसा ॥
भीतियुक्ताय कण्वाय मह्यम् …… ॥7॥
…. युष्माभिरेव च । प्रेरितोथ नियन्तृत्वात् युष्माकं मानुषेण च ॥
बाह्यदृष्ट्या त्वभूतीर्नो य इच्छति तमोजसा । बƒेन च द्रावयत युष्मदीयोतिभिस्तथा ॥8-9॥
ओजोसमं बिभृथ च मखेज्याः सममुत्तमम् । सुदानशीƒाः कण्वाय दत्तासममभीप्सितम् ॥
असमैर्नोप्यभिप्रायैर्गन्त वृष्टिं न विद्युतः ॥10॥
****************************************************************
सूक्त 40
देवयन्तः पूजयन्तः स्तुवन्तोतिकृताशनः । प्राशूः ….. ॥1॥
….. वायोः सुतेत्येव सहसस्पुत्र इत्यथ । तद्य्वङ्ग्यत्वात् हरिः प्रोक्तः शक्रस्तत्सुत एव च ॥
युद्धं हितधनं प्रोक्तं निहितं धनमेव वा । स्वश्व्यं तु स्विन्द्रियफƒमाचकेपश्यदित्यपि ॥2॥
पतिस्तु ब्रह्मणो विष्णुर्वागीशत्वात् समीरणः । अग्रतो यात्वसावस्मात्कार्येष्वेवं सरस्वती ॥3॥
सूनृता वैष्णवी वा वाग् यज्ञं वीरं नरं प्रति । नयन्तु देवाः सर्वेपि यत् पञ्चजनवर्धनः ॥
पङ्क्तिराधा हरिस्तेन वीरो नर्यः स एव च । देवगन्धर्वनृपितृदैत्याः पञ्चजनाभिधाः ॥3॥
वायते स्तुवते विष्णुर्ददाति सूनरं वसु । सुष्ठु येन नरो भूयात् सुनरं ज्ञानमुच्यते ॥
स धत्ते चाक्षयां कीर्तिमिलामन्नं यजामहे । सुवीर्यत्वात् सुवीरं तत् सुप्रतूर्तिः सुपेशकृत् ॥
प्राणचेष्टानिमित्तत्वात् तदनेह इतीरितम् ॥4॥
स एव भगवान् विष्णुर्मन्त्रं तद्विषयं वदेत् । उक्थमुत्थापकत्वेन स एव भगवान् हरिः ॥
तन्मन्त्रवाच्या देवाश्च…… ॥5॥
……. यद्वाच्या देवतास्तु ताः । तमेव मन्त्रं वोचेम ज्ञानार्थं सुखकारणम् ॥
इमां वाचं स्वीकुरुत सकाशात् वोखिƒं शुभम् । अन्नवान् …….. ॥6॥
…. अतिदौर्ƒभ्यात् देवभक्तं क आप्नुयात् । यजमानं वानुगच्छेत् कः सम्यक् स्तृतबर्हिषम् ॥
तत्रतत्र प्रस्थितोसौ यजमानः सुखैः स्वयम् । स्वेष्टस्थानेषु चान्तर्वा विष्णुरन्तर्गतो यतः ॥
तद्वत्वेन क्षयं स्थानं प्राप्नोति ज्ञानतो यजन् ॥7॥
उपपृक्तः क्षत्रियैः स आवेशेन जनार्दनः । हन्ति शत्रूंश्च तैर्देवो भये च स्वाश्रयं ददौ ॥
वर्ताभिगन्ता तरुता जेता चास्य न हि क्वचित् । युद्धं महाधनं त्वर्भं प्रसिद्धं धनमेव हि ॥8॥
****************************************************************
]