१८८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्र नूनम् ’ इति तृचं सप्तत्रिंशं सूक्तमग्निपुत्रस्य श्येनस्यार्षं गायत्रम् । जातवेदोगुणकोऽग्निर्देवता । तथा चानुक्रान्तं– प्र नूनं तृचमाग्नेयः श्येनो जातवेदस्यम्’ इति । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥

Jamison Brereton

188 (1014)
Agni Jātavedas
Śyena Āgneya
3 verses: gāyatrī
Another slight hymn to Agni, this time with his common epithet Jātavedas. The focus of this hymn is the sacrifice and Agni’s role in it.

01 प्र नूनम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ नूनं᳓ जात᳓वेदसम्
अ᳓श्वं हिनोत वाजि᳓नम्
इदं᳓ नो बर्हि᳓र् आस᳓दे

02 अस्य प्र - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अस्य᳓ प्र᳓ जात᳓वेदसो
वि᳓प्रवीरस्य मीळ्हु᳓षः
मही᳓म् इयर्मि सुष्टुति᳓म्

03 या रुचो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

या᳓ रु᳓चो जात᳓वेदसो
देवत्रा᳓ हव्यवा᳓हनीः
ता᳓भिर् नो यज्ञ᳓म् इन्वतु