१८७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्राग्नये’ इति पञ्चर्चं षट्त्रिंशं सूक्तमग्नेः पुत्रस्य वत्सस्यार्षं गायत्रमाग्नेयम् । तथा चानुक्रान्तं —’ प्राग्नये पञ्चाग्नेयो वत्स आग्नेयं तु ’ इति । प्रातरनुवाकाश्विनशस्त्रयोर्गायत्रे छन्दसीदमादिके द्वे सूक्ते। सूत्र्यते हि–’ प्राग्नये वाचमिति सूक्त इमां मे अग्ने समिधम्’ (आश्व. श्रौ. ४. १३) इति । दशरात्रस्य नवमेऽहन्याग्निमारुत इदं जातवेदसं निविद्धानम् । सूत्रितं च— मरुतो यस्य हि प्राग्नये वाचमित्याग्निमारुतम् ’ ( आश्व. श्रौ. ८, ११ ) इति ॥

Jamison Brereton

187 (1013)
Agni
Vatsa Āgneya
5 verses: gāyatrī
Found in AVŚ VI.34, this unremarkable hymn contains a refrain that suggests the militant Agni, but only verse 3 develops this theme.

01 प्राग्नये वाचमीरय - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्रा᳓ग्न᳓ये वा᳓चम् ईरय
वृषभा᳓य क्षितीना᳐᳓म्
स᳓ नः पर्षद् अ᳓ति द्वि᳓षः

02 यः परस्याः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यः᳓ प᳓रस्याः पराव᳓तस्
तिरो᳓ ध᳓न्वातिरो᳓चते
स᳓ नः पर्षद् अ᳓ति द्वि᳓षः

03 यो रक्षांसि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ र᳓क्षांसि निजू᳓र्वति
वृ᳓षा शुक्रे᳓ण शोचि᳓षा
स᳓ नः पर्षद् अ᳓ति द्वि᳓षः

04 यो विश्वाभि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ वि᳓श्वाभि᳓ विप᳓श्यति
भु᳓वना सं᳓ च प᳓श्यति
स᳓ नः पर्षद् अ᳓ति द्वि᳓षः

05 यो अस्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ अस्य᳓ पारे᳓ र᳓जसः
शुक्रो᳓ अग्नि᳓र् अ᳓जायत
स᳓ नः पर्षद् अ᳓ति द्वि᳓षः