१८५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ महि ’ इति तृचं चतुस्त्रिंशं सूक्तं वरुणपुत्रस्य सत्यधृतेरार्षं गायत्रमादित्यदेवताकम् । तथा . चानुक्रान्तं —- ‘ महि सत्यधृतिर्वारुणिरादित्यं स्वस्त्ययनं गायत्रं वा ’ इति । धनलिप्सया प्रवसन्तं शिष्यमाचार्योऽनेन सूक्तेनाभिमन्त्रयते। सूत्र्यते हि – महि त्रीणामित्यनुमन्त्र्यैवमतिसृष्टस्य न कुतश्चिद्भयं भवतीति विज्ञायते’ (आश्व. गृ. ३. १०. ७-८) इति ।।

Jamison Brereton

185 (1011)
Aditi
Satyadhrti V̥ āruṇi
3 verses: gāyatrī
This brief appeal for the help of the three most prominent Ādityas, Mitra, Varuṇa, and Aryaman, may have been placed here, after the two pregnancy charms, because it mentions their mother Aditi (vs. 3), whose prodigious pregnancies were legend ary. Certainly the Anukramaṇī seems to have concluded something of the sort, since it identifies the divinity of the hymn as Aditi, though she appears only obliquely.

01 महि त्रीणामवोऽस्तु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

महि॑ त्री॒णामवो॑ऽस्तु द्यु॒क्षं मि॒त्रस्या॑र्य॒म्णः ।
दु॒रा॒धर्षं॒ वरु॑णस्य ॥

02 नहि तेषाममा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

न॒हि तेषा॑म॒मा च॒न नाध्व॑सु वार॒णेषु॑ ।
ईशे॑ रि॒पुर॒घशं॑सः ॥

03 यस्मै पुत्रासो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यस्मै॑ पु॒त्रासो॒ अदि॑तेः॒ प्र जी॒वसे॒ मर्त्या॑य ।
ज्योति॒र्यच्छ॒न्त्यज॑स्रम् ॥