१८४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ विष्णुः’ इति तृचं त्रयस्त्रिशं सूक्तमानुष्टुभम् । गर्भाणां कर्ता त्वष्टा नामर्षिः प्रजापतिपुत्रो विष्णुर्वा । लिङ्गोक्ता विष्णुत्वष्टृप्रजापतिसिनीवालीसरस्वत्यश्विन इति देवताः । तथा चानुक्रान्तं - विष्णुस्त्वष्टा गर्भकर्ता विष्णुर्वा प्राजापत्यो गर्भार्थाशीर्लिङ्गोक्तदैवतमानुष्टुभम् ’ इति । लैङ्गिको विनियोगः ॥

Jamison Brereton

184 (1010)
Pregnancy/Birth Charm [To Assorted Divinities]
Tvaṣṭar Garbhakartar or Viṣṇu Prājāpatya
3 verses: anuṣṭubh
This little charm follows naturally on the immediately preceding hymn. There a married couple prepares to have sex in order to conceive; here a range of gods and goddesses responsible for conception and safe pregnancy are called upon to ensure conception followed by a full-term birth.

01 विष्णुर्योनिं कल्पयतु - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓ष्णुर् यो᳓निं कल्पयतु
त्व᳓ष्टा रूपा᳓णि पिंशतु
आ᳓ सिञ्चतु प्रजा᳓पतिर्
धाता᳓ ग᳓र्भं दधातु ते

02 गर्भं धेहि - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ग᳓र्भं धेहि सिनीवालि
ग᳓र्भं धेहि सरस्वति
ग᳓र्भं ते अश्वि᳓नौ देवा᳓व्
आ᳓ धत्ताम् पु᳓ष्करस्रजा

03 हिरण्ययी अरणी - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

हिरण्य᳓यी अर᳓णी
यं᳓ निर्म᳓न्थतो अश्वि᳓ना
तं᳓ ते ग᳓र्भं हवामहे
दशमे᳓ मासि᳓ सू᳓तवे