१८२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ बृहस्पतिः ’ इति तृचमेकत्रिंशं सूक्तं बृहस्पतिदेवत्यं त्रैष्टुभम् । बृहस्पतिपुत्रस्तपुर्मूर्धा नामर्षिः । तथा चानुक्रान्तं-. बृहस्पतिस्तपुर्मूर्धा बार्हस्पत्यो बार्हस्पत्यम् ’ इति । गतो विनियोगः ।

Jamison Brereton

182 (1008)
Br̥haspati
Tapurmūrdhan Bārhaspatya
3 verses: triṣṭubh
Br̥haspati, the master of ritual speech, is called upon to aid our speech, but also to punish all forms of evil speech and their speakers.

01 बृहस्पतिर्नयतु दुर्गहा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

बृ᳓हस्प᳓तिर् नयतु दुर्ग᳓हा तिरः᳓
पु᳓नर् नेषद् अघ᳓शंसाय म᳓न्म
क्षिप᳓द् अ᳓शस्तिम् अ᳓प दुर्मतिं᳓ हन्न्
अ᳓था करद् य᳓जमानाय शं᳓ योः᳓

02 नराशंसो नोऽवतु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓राशं᳓सो नो अवतु प्रयाजे᳓
शं᳓ नो अस्तु अनुयाजो᳓ ह᳓वेषु
क्षिप᳓द् अ᳓शस्तिम् अ᳓प दुर्मतिं᳓ हन्न्
अ᳓था करद् य᳓जमानाय शं᳓ योः᳓

03 तपुर्मूर्धा तपतु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓पुर्मूर्धा तपतु रक्ष᳓सो ये᳓
ब्रह्मद्वि᳓षः श᳓रवे ह᳓न्तवा᳓ उ
क्षिप᳓द् अ᳓शस्तिम् अ᳓प दुर्मतिं᳓ हन्न्
अ᳓था करद् य᳓जमानाय शं᳓ योः᳓