१८१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ प्रथः ’ इति तृचं त्रिंशं सूक्तं वैश्वदेवं त्रैष्टुभम् । वासिष्ठः प्रथसंज्ञ ऋषिः प्रथमायाः । भारद्वाजः सप्रथाख्य ऋषिर्द्वितीयायाः । सूर्यपुत्रो घर्म ऋषिस्तृतीयायाः । तथा चानुक्रान्तं-’ प्रथश्चैकर्चाः प्रथो वासिष्ठः सप्रथो भारद्वाजो घर्मः सौर्यो वैश्वदेवम् ’ इति । प्रवर्ग्येऽभिष्टव एतत्सूक्तम् । सूत्रितं च– ’ गणानां त्वा प्रथश्च यस्य ’ ( आश्व. श्रौ. ४.६) हति ।।

Jamison Brereton

181 (1007)
All Gods
Pratha Vāsiṣṭha (1), Sapratha Bhāradvāja (2), Gharma Saurya (3)
3 verses: triṣṭubh
Like X.179 this hymn is tightly tied to the Pravargya ritual—in this case celebrating the great sāmans associated with that ritual, the Rathantara and the Br̥hat, and the gharma, the hot milk offering that is its high point.

01 प्रथश्च यस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓थश् च य᳓स्य सप्र᳓थश् च ना᳓म
आ᳓नुष्टुभस्य हवि᳓षो हवि᳓र् य᳓त्
धातु᳓र् द्यु᳓तानात् सवितु᳓श् च वि᳓ष्णो
रथंतर᳓म् आ᳓ जभारा व᳓सिष्ठः

02 अविन्दन्ते अतिहितम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓विन्दन् ते᳓ अ᳓तिहितं य᳓द् आ᳓सीद्
यज्ञ᳓स्य धा᳓म परमं᳓ गु᳓हा य᳓त्
धातु᳓र् द्यु᳓तानात् सवितु᳓श् च वि᳓ष्णोर्
भर᳓द्वाजो बृह᳓द् आ᳓ चक्रे अग्नेः᳓

03 तेऽविन्दन्मनसा दीध्याना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ते᳓ अविन्दन् म᳓नसा दी᳓धियाना
य᳓जु ष्कन्न᳓म् प्रथमं᳓ देवया᳓नम्
धातु᳓र् द्यु᳓तानात् सवितु᳓श् च वि᳓ष्णोर्
आ᳓ सू᳓रियाद् अभरन् घर्म᳓म् एते᳓