१८०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्र ससाहिषे ’ इति तृचमेकोनत्रिंशं सूक्तमिन्द्रपुत्रस्य जयस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रान्तं - प्र ससाहिषे जय ऐन्द्रः’ इति । गतः सूक्तविनियोगः । दर्शे इन्द्रस्य हविषः ‘ प्र ससाहिषे ’ इत्येषा याज्या । सूत्रितं च – ‘ प्र ससाहिषे पुरुहूत शत्रून् महाँ इन्द्रो य ओजसा’ (आश्व. श्रौ. १.६ इति । एकादशिन ऐन्द्रपशौ पुरोडाशस्येयमेव याज्या। सूत्रितं च- ‘ प्र ससाहिषे पुरुहूत शत्रून् स्वस्तये वाजिभिश्च प्रणेतः ’ (आश्व. श्रौ. ३. ७) इति । देवसुवां हविःषु इन्द्रस्येयमेवानुवाक्या । सूत्रितं च – प्र ससाहिषे पुरुहूत शत्रून् भुवस्त्वमिन्द्र ब्रह्मणा महान् ’ ( आश्व. श्रौ. ४.११ ) इति ॥

Jamison Brereton

180 (1006)
Indra
Jaya Aindri
3 verses: triṣṭubh
Indra’s victories over his (and our) enemies are the special focus of this hymn, but the poet does not fail to mention our interest in his gifts as well (vs. 1).

01 प्र ससाहिषे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र स॑साहिषे पुरुहूत॒ शत्रू॒ञ्ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु ।
इन्द्रा भ॑र॒ दक्षि॑णेना॒ वसू॑नि॒ पतिः॒ सिन्धू॑नामसि रे॒वती॑नाम् ॥

02 मृगो न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः
प॑रा॒वत॒ आ ज॑गन्था॒ पर॑स्याः ।
सृ॒कं सं॒शाय॑ प॒विम् इ॑न्द्र ति॒ग्मं
वि शत्रू॑न् ताळ्हि॒ वि मृधो॑ नुदस्व ॥

03 इन्द्र क्षत्रमभि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॑ क्ष॒त्रम् अ॒भि वा॒मम् ओजो
ऽजा॑यथा वृषभ चर्षणी॒नाम् ।
अपा॑नुदो॒ जन॑म् अमित्र॒यन्त॑म्
उ॒रुं दे॒वेभ्यो॑ अकृणोरु लो॒कम् ॥