१७९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘उत्तिष्ठत ’ इति तृचमष्टाविंशं सूक्तमैन्द्रम् । आद्यानुष्टुप् शिष्टे त्रिष्टुभौ । उशीनरपुत्रः शिबिर्नाम राजा प्रथमाया ऋषिः । काशीनामधिपतिः प्रतर्दनो नाम द्वितीयायाः । रोहिदश्वपुत्रो वसुमना नाम तृतीयायाः। तथा चानुक्रान्तम्- उत्तिष्ठतैकर्चाः शिबिरौशीनरः काशिराजः प्रतर्दनो रौहिदश्वो वसुमना आद्यानुष्टुप्’ इति । दधिधर्म आद्या वक्तव्या । सूत्रितं च- ‘ होतर्वदस्वेत्युक्त उत्तिष्ठताव पश्यतेत्याह’ ( आश्व. श्रौ. ५. १३) इति ॥

Jamison Brereton

179 (1005)
Indra
Śibi Auśīnara (1), Pratardana Daivodāsi (2), Vasumanas Rauhidaśva (3) 3 verses: anuṣṭubh 1, triṣṭubh 2–3
This hymn is later used for the dadhi-gharma (sour milk and hot milk) oblation at the midday libation associated with the Pravargya ritual, and indeed, unlike many R̥gvedic passages pressed into service in middle Vedic śrauta rituals, it seems to have been composed for just this purpose. The first verse invites the priests to assess the readiness of the libation; the second and third verses, later the Puro’nuvākyā and Yājyā respectively, invite Indra to the midday service and offer him the cooked por
tion, clearly identified in verse 3c.

01 उत्तिष्टताव पश्यतेन्द्रस्य - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓त् तिष्ठता᳓व पश्यत
इ᳓न्द्रस्य भाग᳓म् ऋत्वि᳓यम्
य᳓दि श्रातो᳓ जुहो᳓तन
य᳓द्य् अ᳓श्रातो ममत्त᳓न

02 श्रातं हविरो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

श्रातं᳓ हवि᳓र् ओ᳓ षु᳓ इन्द्र प्र᳓ याहि
जगा᳓म सू᳓रो अ᳓ध्वनो वि᳓मध्यम्
प᳓रि त्वासते निधि᳓भिः स᳓खायः
कुलपा᳓ न᳓ व्राज᳓पतिं च᳓रन्तम्

03 श्रातं मन्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

श्रात᳓म् मन्य ऊ᳓धनि श्रात᳓म् अग्नउ᳓
सु᳓श्रातम् मन्ये त᳓द् ऋतं᳓ न᳓वीयः
मा᳓ध्यंदिनस्य स᳓वनस्य दध्नः᳓
पि᳓बेन्द्र वज्रिन् पुरुकृज् जुषाणः᳓