१७८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘त्यमू षु’ इति तृचं सप्तविंशं सूक्तं तार्क्ष्यपुत्रस्यारिष्टनेमेरार्षं त्रैष्टुभं तार्क्ष्यदेवताकम् । तथा चानुक्रान्तं - त्यमू ष्वरिष्टनेमिस्तार्क्ष्यस्तार्क्ष्यम्’ इति । अहर्गणेषु द्वितीयादिष्वहःसु निष्केवल्यसूक्तानां पुरस्तादिदं सूक्तं शंसनीयम् । सूत्रितं च – त्यमू षु वाजिनं देवजूतमिति तार्क्ष्यमग्रे निष्केवल्यसूक्तानाम् ’ ( आश्व. श्रौ. ७.१.१३ ) इति । विषुवति तु निष्केवल्यसूक्तानामन्त एव तत्सूक्तम् । सूत्र्यते हि - त्यमू ष्वितीह तार्क्ष्यमन्ततः’ (आश्व. श्रौ. ८.६.१४) इति । महाव्रतेऽपि निष्केवल्य एतत् । तथैव पञ्चमारण्यके सूत्र्यते (ऐ. आ. ५. ३. १)॥

Jamison Brereton

178 (1004)
Tārksyạ
Ariṣṭanemi Tārkṣya
3 verses: triṣṭubh
A being named Tārkṣya is found in a few other places in Vedic literature, with varying identities. Here it seems to be the name of a prodigious and mythical racehorse, much like Dadhikrā(van) (see IV.38–40); indeed verse 3 here is a vari ant of the Dadhikrā verse IV.38.10. Both horses are associated with Trasadasyu, leader of the Pūrus: his association with Dadhikrā is announced directly in the first Dadhikrā verse (IV.38.1), whereas his association with Tārkṣya is mediated through the horse’s name, which is a vr̥ddhi derivative of Tr̥kṣi, himself a descendant of Trasadasyu (see VIII.22.7, see also VI.46.8).

01 त्यमू षु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्य᳓मू+++(=तं)+++ षु᳓ वाजि᳓नं+++(=अन्नवन्तं बलवन्तं वा)+++ देव᳓जूतं +++(प्रेरितम् प्रीतं वा [सोमाहरणाय])+++
सहा᳓वानं+++(=सहस्वन्तं)+++ तरुता᳓रं+++(=तारकम्)+++ र᳓थानाम् ।
अ᳓रिष्ट-नेमिं+++(=परिरेखाम्)+++ पृतना᳓+++(=[पर]सेना)++++ऽजमाशुं᳓+++(←अज गति-क्षेपणयोः)+++
स्वस्त᳓ये ता᳓र्क्ष्यम्+++(=तृक्षजम्)+++ इहा᳓ हुवेम ॥

02 इन्द्रस्येव रातिमाजोहुवानाः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रस्येव राति᳓म् आजो᳓हुवानाः
सुअस्त᳓ये ना᳓वम् इवा᳓ रुहेम
उ᳓र्वी न᳓ पृ᳓थ्वी ब᳓हुले ग᳓भीरे
मा᳓ वाम् ए᳓तौ मा᳓ प᳓रेतौ रिषाम

03 सद्यश्चिद्यः शवसा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सद्य᳓श् चिद् यः᳓ श᳓वसा प᳓ञ्च कृष्टीः᳓
सू᳓र्य इव ज्यो᳓तिषाप᳓स् तता᳓न
सहस्रसाः᳓ शतसा᳓ अस्य रं᳓हिर्
न᳓ स्मा वरन्ते युवतिं᳓ न᳓ श᳓र्याम्