१७७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ पतङ्गम् ’ इति तृचं षड्विंशं सूक्तं प्रजापतिपुत्रस्य पतङ्गस्यार्षम् । आद्या जगती ततस्त्रिष्टुभौ । मायाभेदस्य प्रतिपाद्यत्वात्तद्देवत्यमिदं सूक्तम् । अनुक्रान्तं च– ‘ पतङ्गं तृचं पतङ्गः प्राजापत्यो मायाभेदं जगत्यादि ’ इति । प्रवर्ग्येऽभिष्टव आद्ये ऋचौ । सूत्रितं च - पतङ्गमक्तमसुरस्य मायया यो नः सनुत्यः’ (आश्व. श्रौ. ४. ६) इति ।।

Jamison Brereton

177 (1003)
Pataṃga
Pataṃga Prājāpatya
3 verses: jagatī 1, triṣṭubh 2–3
An enigmatic hymn, mystically representing inspired poetic thought and vision ary knowledge as a bird, clothed in light, seen inwardly by enlightened poets and1654 X.178
priests. The images, though not always clear, echo many found in similarly mystical treatments of poetic inspiration, such as the famous Vena hymn (X.123), and make a powerful impression.

01 पतङ्गमक्तमसुरस्य मायया - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

पतंग᳓म् अक्त᳓म् अ᳓सुरस्य माय᳓या
हृदा᳓ पश्यन्ति म᳓नसा विपश्चि᳓तः
समुद्रे᳓ अन्तः᳓ कव᳓यो वि᳓ चक्षते
म᳓रीचीनाम् पद᳓म् इछन्ति वेध᳓सः

02 पतङ्गो वाचम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पतंगो᳓ वा᳓चम् म᳓नसा बिभर्ति
तां᳓ गन्धर्वो᳓ अवदद् ग᳓र्भे अन्तः᳓
तां᳓ द्यो᳓तमानां स्वरि᳓यम् मनीषा᳓म्
ऋत᳓स्य पदे᳓ कव᳓यो नि᳓ पान्ति

03 अपश्यं गोपामनिपद्यमानमा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓पश्यं गोपा᳓म् अ᳓निपद्यमानम्
आ᳓ च प᳓रा च पथि᳓भिश् च᳓रन्तम्
स᳓ सध्री᳓चीः स᳓ वि᳓षूचीर् व᳓सान
आ᳓ वरीवर्ति भु᳓वनेषु अन्तः᳓