१७५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्र वः’ इति चतुर्ऋचं चतुर्विंशं सूक्तं गायत्रम् । अर्बुदस्य सर्पर्षेः पुत्र ऊर्ध्वग्रावा नामर्षिः । सोमाभिषवार्था ग्रावाणो देवता । तथा चानुक्रान्तं-प्र वश्चतुष्कमूर्ध्वग्रावार्बुदिर्ग्राव्णोऽस्तौद्गायत्रम्’ इति । ग्रावस्तोत्र एतत्सूक्तम् । सूत्रितं च— आ व ऋञ्जसे प्र वो ग्रावाण इति सूक्तयोः’ ( आश्व. श्रौ. ५. १२) इति । यद्वा । इदमेकमेव सूक्तं ग्रावस्तोत्रम् । सूत्र्यते हि—* प्र वो ग्रावाण इत्येक उक्तं सर्पणम्’ (आश्व. श्रौ. ५. १२ ) इति । ।

Jamison Brereton

175 (1001)
Pressing Stones
Ūrdhvagrāvan Āṅgirasa
4 verses: gāyatrī
This third hymn to the pressing stones (the others being X.76 and X.94) has none of the rhetorical ambition or vividness of the other two. It begins and ends (vss. 1,4) with an appeal to the god Savitar, literally “the Impeller,” to provide the impul sion to set the stones to pressing.

01 प्र वो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ वो ग्रावाणः सविता᳓
देवः᳓ सुवतु ध᳓र्मणा
धूर्षु᳓ युज्यध्वं सुनुत᳓

02 ग्रावाणो अप - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ग्रा᳓वाणो अ᳓प दुछु᳓नाम्
अ᳓प सेधत दुर्मति᳓म्
उस्राः᳓ कर्तन भेषज᳓म्

03 ग्रावाण उपरेष्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ग्रा᳓वाण उ᳓परेषु आ᳓
महीय᳓न्ते सजो᳓षसः
वृ᳓ष्णे द᳓धतो वृ᳓ष्णियम्

04 ग्रावाणः सविता - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ग्रा᳓वाणः सविता᳓ नु᳓ वो
देवः᳓ सुवतु ध᳓र्मणा
य᳓जमानाय सुन्वते᳓