१७४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ अभीवर्तेन ’ इति पञ्चर्चं त्रयोविंशं सूक्तमाङ्गिरसस्याभीवर्ताख्यस्यार्षमानुष्टुभम् । पूर्ववद्राजस्तुतिर्देवता । तथा चानुक्रान्तम्-’ अभीवर्तेन पञ्चाभीवर्तः ’ इति । पुरोहित इदं सूक्तं राजानं युद्धाय कृतसंनाहं वाचयीत । सूत्र्यते हि–’ अथैनं सारथमाणमुपारुह्याभीवर्तं वाचयति ’ ( आश्व. गृ. ३.१२. १२) इति ।।

Jamison Brereton

174 (1000)
Praise of the King
Abhīvarta Āṅgirasa
5 verses: anuṣṭubh
A companion piece to the preceding consecration hymn, but one that focuses only on the combative and confrontational aspects of kingship. Here the signature idiom is abhí-√vr̥t “roll over,” again providing the Anukramaṇī’s poet’s name. The king’s ability to “roll over” and crush his opponents as Indra did, leaving him the only one standing, is celebrated and ritually effected with an oblation named with the idiom and associated with Indra (vss. 1, 4).

01 अभीवर्तेन हविषा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भी॒व॒र्तेन॑ ह॒विषा॒ येनेन्द्रो॑ अभिवावृ॒ते ।
तेना॒स्मान्ब्र॑ह्मणस्पते॒ऽभि रा॒ष्ट्राय॑ वर्तय ॥

02 अभिवृत्य सपत्नानभि - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भि॒वृत्य॑ स॒पत्ना॑न॒भि या नो॒ अरा॑तयः ।
अ॒भि पृ॑त॒न्यन्तं॑ तिष्ठा॒भि यो न॑ इर॒स्यति॑ ॥

03 अभि त्वा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भि त्वा॑ दे॒वः स॑वि॒ताभि सोमो॑ अवीवृतत् ।
अ॒भि त्वा॒ विश्वा॑ भू॒तान्य॑भीव॒र्तो यथास॑सि ॥

04 येनेन्द्रो हविषा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

येनेन्द्रो॑ ह॒विषा॑ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः ।
इ॒दं तद॑क्रि देवा असप॒त्नः किला॑भुवम् ॥

05 असपत्नः सपत्नहाभिराष्थ्रो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स॒प॒त्नः स॑पत्न॒हाभिरा॑ष्ट्रो विषास॒हिः ।
यथा॒हमे॑षां भू॒तानां॑ वि॒राजा॑नि॒ जन॑स्य च ॥