१७१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

त्वं त्यम्’ इति चतुर्ऋचं विंशं सूक्तं भृगुपुत्रस्येटस्यार्षं गायत्रमैन्द्रम् । अनुक्रान्तं च— * त्वं त्यमिटो भार्गवो गायत्रम्’ इति । गतो विनियोगः ॥

Jamison Brereton

171 (997)
Indra
Iṭa Bhārgava
4 verses: gāyatrī
This brief hymn makes allusion to four unknown or little-known myths involving Indra, one per verse. All four verses begin with t(u)vám “you,” and three of the four (not vs. 2) contain a vocative addressed to Indra—repetitions that provide some unity to a hymn made up of fragments.

01 त्वं त्यमिथतो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ त्य᳓म् इट᳓तो र᳓थम्
इ᳓न्द्र प्रा᳓वः सुता᳓वतः
अ᳓शृणोः सोमि᳓नो ह᳓वम्

02 त्वं मखस्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तुव᳓म् मख᳓स्य दो᳓धतः
शि᳓रो अ᳓व त्वचो᳓ भरः
अ᳓गछः सोमि᳓नो गृह᳓म्

03 त्वं त्यमिन्द्र - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ त्य᳓म् इन्द्र म᳓र्तियम्
आस्त्रबुध्ना᳓य वेनिय᳓म्
मु᳓हुः श्रथ्ना मनस्य᳓वे

04 त्वं त्यमिन्द्र - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं᳓ त्य᳓म् इन्द्र सू᳓र्यं
+++(ग्रहणे)+++ पश्चा᳓ स᳓न्तं पुर᳓स् कृधि
देवा᳓नां चित्-तिरो᳓ व᳓शम् ॥