१७०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ विभ्राट् ’ इति चतुर्ऋचमेकोनविंशं सूक्तं सूर्यपुत्रस्य विभ्राट्संज्ञकस्यार्षं सूर्यदेवत्यम् । आदौ तिस्रो जगत्यः । द्व्यष्टकद्विद्वादशकवत्यास्तारपङ्क्तिश्चतुर्थी । तथा चानुक्रान्तं - ’ विभ्राड्विभ्राट् सौर्यः सौर्यं जागतमास्तारपङ्क्त्यन्तम् ’ इति । विषुवति निष्केवल्य आद्यस्तृचः स्तोत्रियः । सूत्रितं च –’ विभ्राड्बृहत्पिबतु सोम्यं मधु नमो मित्रस्य वरुणस्य चक्षस इति स्तोत्रियानुरूपौ ’ ( आश्व. श्रौ. ८. ६) इति । वाजपेयेऽतिरिक्तोक्थस्य विभ्राडित्येषा शस्त्रे याज्या । सूत्र्यते हि -’ विभ्राड्बृहत्पिबतु सोम्यं मध्विति याज्या तस्य गवां शतानाम् ’ ( आश्व. श्रौ. ९.९) इति ।।

मानसतरङ्गिणीकृत् - टिप्पनी

The vikarNa sAman amongst the divAkIrtya-s is based on RV 10.170.1. This sUktaM is noteworthy in some other respects:

  1. It uses the word bhrAjaH which corresponds to the name of one of the divAkIrtya-s.
  2. Prominent words in this sUktaM like s [vi]bhrAT, bhrAjaH, jyotiH, divaH, ayuH, satya, dharman occur as [or as parts of] the magical stobhas of the divAkIrtya-s.
  3. This is one of those relatively few mantra-s to the sun [sUrya] in the RV.
  4. It has the word asura in a negative connotation– such a negative usage of asura is rare in the RV and occurs elsewhere in the context of sUrya and the eclipse (svarbhAnu is also called asura).
Jamison Brereton

170 (996)
Sūrya
Vibhrāj Saurya
4 verses: jagatī, except āstārapaṅkti 4
This hymn celebrates the god Sun, or more specifically his light, in terms more usu ally applied to heroic warrior-gods like Indra.

01 विभ्राड्बृहत्पिबतु सोम्यम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

+++(सूर्यो)+++ विभ्रा᳓ड् बृह᳓त् पिबतु सोम्यं᳓+++(=सोममयं)+++ म᳓ध्व्
आ᳓युर् द᳓धद् यज्ञ᳓पताव् अ᳓विह्रुतम्+++(=अकुटिलम्)+++ ।
वा᳓त-जूतो+++(=प्रेरितो)+++ यो᳓ अभिर᳓क्षति त्म᳓ना प्रजाः᳓
पुपोष पुरु+++(=बहु)+++-धा᳓ वि᳓ राजति ॥ १

02 विभ्राड्बृहत्सुभृतं वाजसातमम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

विभ्रा᳓ड् बृह᳓त् सु᳓भृतं वाज+++(=बल)+++-सा᳓+++(दातृ)+++तमं
ध᳓र्मन्+++(णि =धारयितव्ये)+++ दिवो᳓ धरु᳓णे+++(=धारके [सूर्यमण्डले])+++ सत्य᳓म् अ᳓र्पितम्
अमित्र-हा᳓ वृत्र-हा᳓ दस्यु-ह᳓न्-तमं
ज्यो᳓तिर् जज्ञे +++(ग्रहण-कृत्–स्वर्-भान्व्–आख्य-)+++असुर-हा᳓ स-पत्न-हा᳓ ॥ २

03 इदं श्रेष्टम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इदं᳓ श्रे᳓ष्ठं ज्यो᳓तिषां ज्यो᳓तिर् उत्तमं᳓
विश्वजि᳓द् धनजि᳓द् उच्यते बृह᳓त् ।
विश्वभ्रा᳓ड् भ्राजो᳓+++(=भ्राजमानः)+++ म᳓हि+++(=महान्)+++ सू᳓र्यो दृश᳓+++(=दर्शनाय)+++
उरु᳓ पप्रथे स᳓ह+++(=अभिभवितृ)+++ ओ᳓जो अ᳓च्युतम् ॥ ३

04 विभ्राजञ्ज्योतिषा स्वट्रगच्छो - आस्तारपङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

विभ्रा᳓जञ् ज्यो᳓तिषा स्व᳓१᳓र्
अ᳓गच्छो रोच+++(मा)+++नं᳓ दिवः᳓ ।
ये᳓नेमा᳓ वि᳓श्वा भु᳓वनान्य् आ᳓भृता
विश्व᳓कर्मणा विश्व᳓देव्या+++(=वैश्वदेवयागादि)+++वता ॥ ४
+++(विश्वे देवास् तु सङ्ख्यया समस्थान-ग्रहणावर्तनावधि-दिनानीति ज्ञायते “महत् तदुल्बम्” इत्यस्मात्।)+++