१६९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ मयोभूः ’ इति चतुर्ऋचमष्टादशं सूक्तं कक्षीवद्गोत्रस्य शबरस्यार्षं त्रैष्टुभं गोदेवत्यम् । अनुक्रान्तं च –’ मयोभूः शबरः काक्षीवतो गव्यम् ’ इति । घासाय वनं प्रतिष्ठमाना गा आदितो द्वाभ्यामभिमन्त्रणीयाः । सूत्रितं च –’ गाः प्रतिष्ठमाना अनुमन्त्रयेत मयोभूर्वातो अभि वातूस्रा इति द्वाभ्याम् ’ (आश्व गृ. २. १०.५) इति ।।

Jamison Brereton

169 (995)
Cows
Śabara Kākṣīvata
4 verses: triṣṭubh
For the protection, thriving, and safe return of the cows, invoking a formidable range of gods to ensure these goals. In later ritual the first two verses are spoken when the cows go to pasture, the latter two when they return home.

01 मयोभूर्वातो अभि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

म॒यो॒भूर्वातो॑ अ॒भि वा॑तू॒स्रा ऊर्ज॑स्वती॒रोष॑धी॒रा रि॑शन्ताम् ।
पीव॑स्वतीर्जी॒वध॑न्याः पिबन्त्वव॒साय॑ प॒द्वते॑ रुद्र मृळ ॥

02 याः सरूपा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

याः सरू॑पा॒ विरू॑पा॒ एक॑रूपा॒ यासा॑म॒ग्निरिष्ट्या॒ नामा॑नि॒ वेद॑ ।
या अङ्गि॑रस॒स्तप॑से॒ह च॒क्रुस्ताभ्यः॑ पर्जन्य॒ महि॒ शर्म॑ यच्छ ॥

03 या देवेषु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

या दे॒वेषु॑ त॒न्व१॒॑मैर॑यन्त॒ यासां॒ सोमो॒ विश्वा॑ रू॒पाणि॒ वेद॑ ।
ता अ॒स्मभ्यं॒ पय॑सा॒ पिन्व॑मानाः प्र॒जाव॑तीरिन्द्र गो॒ष्ठे रि॑रीहि ॥

04 प्रजापतिर्मह्यमेता रराणो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र॒जाप॑ति॒र्मह्य॑मे॒ता ररा॑णो॒ विश्वै॑र्दे॒वैः पि॒तृभिः॑ संविदा॒नः ।
शि॒वाः स॒तीरुप॑ नो गो॒ष्ठमाक॒स्तासां॑ व॒यं प्र॒जया॒ सं स॑देम ॥