१६६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ ऋषभम् ’ इति पञ्चर्चं पञ्चदशं सूक्तं वैराजस्य शाक्वरस्य वर्षभाख्यस्यार्षं पञ्चमी षडष्टका महापङ्क्तिः । सपत्ननाशनरूपोऽर्थो देवता । तथा चानुक्रान्तम् —- ‘ ऋषभमऋषभो वैराजः शाक्वरो वा सपत्नघ्नमानुष्टुभं महापङ्क्त्यन्तम् ’ इति । प्रयाणसमये…….जपेत् । सूत्रितं च – ऋषभं मा समानानामित्यभिक्रामन् ’ ( आश्व. गृ. २. ६. १३) इति ॥

Jamison Brereton

166 (992)
Against Rivals
R̥ṣabha Vairāja or R̥ṣabha Śākvara
5 verses: anuṣṭubh, except mahāpaṅkti 5
The extremely aggressive 1st-person speaker of this hymn proclaims his triumph over his rivals and their utter humiliation. Using the well-nigh universal tropes of high and low, he repeatedly emphasizes the spatial (and thus conceptual) position of his defeated enemies, who are literally beneath his feet (vss. 2, 5; see also vss. 3–4). Verse 4 is notable for the trio of attributes that the speaker seizes from his rivals, a set that easily accommodates a trifunctional (Dumézilian) analysis: “cognition” as the higher mental power appropriate to the priestly First Function, “command
ment” representative of the warrior-ruler Second Function, and “company, assem bly” the Third Function mass of followers. Although we are not over-sympathetic to the Dumézilian paradigm, this particular passage gains resonance from such an analysis.

01 ऋषभं मा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋषभ᳓म् मा समाना᳓नां
सप᳓त्नानां विषासहि᳓म्
हन्ता᳓रं श᳓त्रूणां कृधि
विरा᳓जं गो᳓पतिं ग᳓वाम्

02 अहमस्मि सपत्नहेन्द्र - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अह᳓म् अस्मि सपत्नहा᳓
इ᳓न्द्र ऽवा᳓रिष्टो° अ᳓क्षतः
अधः᳓ सप᳓त्ना मे पदो᳓र्
इमे᳓ स᳓र्वे अभि᳓ष्ठिताः

03 अत्रैव वोऽपि - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓त्रैव᳓ वो᳓ ऽपि नह्यामि
उभे᳓ आ᳓र्त्नी इव ज्य᳓या
वा᳓चस् पते नि᳓ षेधेमा᳓न्
य᳓था म᳓द् अ᳓धरं व᳓दान्

04 अभिभूरहमागमं विश्वकर्मेण - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अभिभू᳓र् अह᳓म् आ᳓गमं
विश्व᳓कर्मेण धा᳓मना
आ᳓ वश् चित्त᳓म् आ᳓ वो व्रत᳓म्
आ᳓ वो ऽहं᳓ स᳓मितिं ददे

05 योगक्षेमं व - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

योगक्षेमं᳓ व आदा᳓य
अह᳓म् भूयासम् उत्तम᳓
आ᳓ वो मूर्धा᳓नम् अक्रमीम्
अधस्पदा᳓न् म उ᳓द् वदत
मण्डू᳓का इव उदका᳓न्
मण्डू᳓का उदका᳓द् इव