१६५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ देवाः ’ इति पञ्चर्चं चतुर्दशं सूक्तं निर्ऋतिपुत्रस्य कपोताख्यस्यार्षं त्रैष्टुभं वैश्वदेवम् । तथा चानुक्रान्तं - ’ देवा नैर्ऋतः कपोतः कपोतोपहतौ प्रायश्चित्तं वैश्वदेवम् ’ इति । कपोतो यदि गृहं प्रविशेत् तदानेन सूक्तेन होतव्यम् । सूत्र्यते हि -’ कपोतश्चेदगारमुपहन्यादनुपतेद्वा देवाः कपोत इति प्रत्यृचं जुहुयाज्जपेद्वा ’ ( आश्व. गृ. ३.७.७) इति ।।

Jamison Brereton

165 (991)
All Gods (Bird of Ill Omen)
Kapota Nairrtḁ
5 verses: triṣṭubh
Though the Anukramaṇī identifies the dedicands as the All Gods, the hymn is entirely devoted to countering the possible evil effects of a bird of ill-omen, the dove of death, sent as a messenger from Yama, the lord of the dead. Not surpris ingly, given their style and contents, the verses of this hymn are found in variant form in the Atharvaveda (AVŚ VI.27, 29.1, 28.1).

01 देवाः कपोत - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

देवाः॑ क॒पोत॑ इषि॒तो यदि॒च्छन्दू॒तो निरृ॑त्या इ॒दमा॑ज॒गाम॑ ।
तस्मा॑ अर्चाम कृ॒णवा॑म॒ निष्कृ॑तिं॒ शं नो॑ अस्तु द्वि॒पदे॒ शं चतु॑ष्पदे ॥

02 शिवः कपोत - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शि॒वः क॒पोत॑ इषि॒तो नो॑ अस्त्वना॒गा दे॑वाः शकु॒नो गृ॒हेषु॑ ।
अ॒ग्निर्हि विप्रो॑ जु॒षतां॑ ह॒विर्नः॒ परि॑ हे॒तिः प॒क्षिणी॑ नो वृणक्तु ॥

03 हेतिः पक्षिणी - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

हे॒तिः प॒क्षिणी॒ न द॑भात्य॒स्माना॒ष्ट्र्यां प॒दं कृ॑णुते अग्नि॒धाने॑ ।
शं नो॒ गोभ्य॑श्च॒ पुरु॑षेभ्यश्चास्तु॒ मा नो॑ हिंसीदि॒ह दे॑वाः क॒पोतः॑ ॥

04 यदुलूको वदति - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यदुलू॑को॒ वद॑ति मो॒घमे॒तद्यत्क॒पोतः॑ प॒दम॒ग्नौ कृ॒णोति॑ ।
यस्य॑ दू॒तः प्रहि॑त ए॒ष ए॒तत्तस्मै॑ य॒माय॒ नमो॑ अस्तु मृ॒त्यवे॑ ॥

05 ऋचा कपोतम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋ॒चा क॒पोतं॑ नुदत प्र॒णोद॒मिषं॒ मद॑न्तः॒ परि॒ गां न॑यध्वम् ।
सं॒यो॒पय॑न्तो दुरि॒तानि॒ विश्वा॑ हि॒त्वा न॒ ऊर्जं॒ प्र प॑ता॒त्पति॑ष्ठः ॥