१६३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ अक्षीभ्याम् ’ इति षडृचं द्वादशं सूक्तमानुष्टुभम् । कश्यपगोत्रोत्पन्नो विवृहा नामर्षिः । यक्ष्मनाशनप्रतिपाद्यत्वात्तद्देवताकं कृत्स्नं सूक्तम् । अनुक्रान्तं च -अक्षीभ्यां विवृहा काश्यपो यक्ष्मघ्नम् ’ इति । लैङ्गिको विनियोगः ।।

Jamison Brereton

163 (989)
Against Disease
Vivrhan K ̥ āśyapa
6 verses: anuṣṭubh
Like X.161, this is another charm against disease with Atharvan parallels (AVŚ II.33, AVP IV.7). This hymn provides us with what we might term a body-part litany. The officiant declares the removal of disease from a series of related body parts in each verse, each associated with a particular area of the body—another valuable window on how Vedic peoples divided up and named reality. Although the names of the more standard body parts (eyes, ears, etc.) are well known and have well-established cognates, the identification of some of the more obscure terms is uncertain, though the locational association narrows the range of possibilities.

01 अक्षीभ्यां ते - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒क्षीभ्या॑न् ते॒ नासि॑काभ्यां॒
कर्णा॑भ्यां॒ चुबु॑का॒दधि॑ ।
यक्ष्मꣳ॑ शीर्ष॒ण्यं॑ म॒स्तिष्का॑ज्
जि॒ह्वाया॒ विवृ॑हामि(=संमृज्य निरस्यामि) ते ।

02 ग्रीवाभ्यस्त उष्णिहाभ्यः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ग्री॒वाभ्य॑स्(→पर्वभेदेन बहुवचनम्) त उ॒ष्णिहा॑भ्यः॒(=ग्रीवापृष्ठमूलभ्यः)
कीक॑साभ्यो(=अस्थिभ्यो) ऽनू॒क्या॑त्(=पृष्ठंवशात्)
यक्ष्मं॑ दोष॒ण्य॑म् अꣳसा॑भ्यां
बा॒हुभ्यां॒ विवृ॑हामि ते ।

03 आन्त्रेभ्यस्ते गुदाभ्यो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ॒न्त्रेभ्य॑स् ते॒ गुदा॑भ्यो
वनि॒ष्ठोर्(=वपाया) हृद॑या॒द् अधि॑ ।
यक्ष्मं॒ मत॑स्नाभ्यां(=फुप्फुसाभ्याम्?) य॒क्नः(=यकृतः)
प्ला॒शिभ्यो॒(=पर्शुभ्यः) विवृ॑हामि ते ।

04 ऊरुभ्यां ते - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऊ॒रुभ्या॑न् ते ऽष्ठी॒वद्भ्यां॒(=ऊरुजान्वोः सन्धिभ्याम्)
जङ्घा॑भ्यां॒ प्रप॑दाभ्याम् ।
यक्ष्म॒२ꣳ॒ श्रोणी॑भ्यां भा॒सदा॑द्(=गुह्यप्रदेशात्)
ध्व॒ꣳ॒ससो॒(=नाभेः/ गुदवलयात्) विवृ॑हामि ते ।

05 मेहनाद्वनङ्करणाल्लोमभ्यस्ते नखेभ्यः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मेह॑नाद्वनं॒कर॑णा॒ल्लोम॑भ्यस्ते न॒खेभ्यः॑ ।
यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ॥

06 अङ्गादङ्गाल्लोम्नोलोम्नो जातम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अङ्गा॑दङ्गा॒ल्लोम्नो॑लोम्नो जा॒तं पर्व॑णिपर्वणि ।
यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ॥