१६२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ ब्रह्मणाग्निः ’ इति षडृचमेकादशं सूक्तमानुष्टुभम् । ब्रह्मपुत्रो रक्षोहा नामर्षिः । अपप्रसवसमाधानरूपस्य गर्भरक्षणस्य प्रतिपाद्यत्वात्तद्देवताकमिदम् । अनुक्रान्तं च –’ ब्रह्मणा षड् ब्राह्मो रक्षोहा गर्भसंस्रावे प्रायश्चित्तमानुष्टुभं हि इति । विनियोगो लिङ्गादवगन्तव्यः ।।

Jamison Brereton

162 (988)
Against Miscarriage
Rakṣohan Brāhma
6 verses: anuṣṭubh
This charm is meant to deflect the dangers of miscarriage or harm to the embryo in any stage, including immediately after birth. The stages of pregnancy are nicely1644 X.163
laid out in verse 3, a good example of the indirect means by which we can gain information about Vedic people’s knowledge and conceptualization of “real life.” The methods by which the “ill-named affliction” might gain access to the fetus are graphically depicted in verses 4–6. In verse 5 it is somewhat startling that masquer
ading as a brother (in addition to husband or lover) would give intimate access to the pregnant woman; this whiff of incest is reminiscent of the situation between the siblings Yama and Yamī in X.10.

01 ब्रह्मणाग्निः संविदानो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ब्र᳓ह्मणाग्निः᳓ संविदानो᳓
रक्षोहा᳓ बाधताम् इतः᳓
अ᳓मीवा य᳓स् ते ग᳓र्भं
दुर्णा᳓मा यो᳓निम् आश᳓ये

02 यस्ते गर्भममीवा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स् ते ग᳓र्भम् अ᳓मीवा
दुर्णा᳓मा यो᳓निम् आश᳓ये
अग्नि᳓ष् ट᳓म् ब्र᳓ह्मणा सह᳓
नि᳓ष् क्रव्या᳓दम् अनीनशत्

03 यस्ते हन्ति - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स् ते ह᳓न्ति पत᳓यन्तं
निषत्स्नुं᳓ यः᳓ सरीसृप᳓म्
जातं᳓ य᳓स् ते जि᳓घांसति
त᳓म् इतो᳓ नाशयामसि

04 यस्त ऊरू - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स् त ऊरू᳓ विह᳓रति
अन्तरा᳓ द᳓म्पती श᳓ये
यो᳓निं यो᳓ अन्त᳓र् आरे᳓ळ्हि
त᳓म् इतो᳓ नाशयामसि

05 यस्त्वा भ्राता - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स् त्वा भ्रा᳓ता प᳓तिर् भूत्वा᳓
जारो᳓ भूत्वा᳓ निप᳓द्यते
प्रजां᳓ य᳓स् ते जि᳓घांसति
त᳓म् इतो᳓ नाशयामसि

06 यस्त्वा स्वप्नेन - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स् त्वा स्व᳓प्नेन त᳓मसा
मोहयित्वा᳓ निप᳓द्यते
प्रजां᳓ य᳓स् ते जि᳓घांसति
त᳓म् इतो᳓ नाशयामसि