१६१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘मुञ्चामि’ इति पञ्चर्चं दशमं सूक्तं प्रजापतिपुत्रस्य यक्ष्मनाशनाख्यस्यार्षम् । अन्त्यानुष्टुप् शिष्टास्त्रिष्टुभः । अनादेशे त्विन्द्र देवता । तथा चानुक्रान्तं– मुञ्चामि प्राजापत्यो यक्ष्मनाशनो राजयक्ष्मघ्नमन्त्यानुष्टुप् ’ इति । हृदयरोगप्रमुखस्य व्याधिजातस्योपशमनार्थमनेन सूक्तेन होतब्यम् । सूत्र्यते हि - व्याधितस्यातुरस्य यक्ष्मगृहीतस्य वा षळाहुतिश्चरुर्मुंञ्चामि त्वा हविषा जीवनाय कमित्येतेन’ (आश्व. गृ. ३. ६. ४-५) इति ॥

Jamison Brereton

161 (987)
Against Disease
Yakṣṃanāśana Prājāpatya
5 verses: triṣṭubh, except anuṣṭubh 5
With Atharvaveda parallels (AVŚ III.11.1–4, VIII.1.20; AVP I.62), this charm announces the restoration to life, indeed long life, of a man who has succumbed to some disease or other (vs. 1).

01 मुञ्चामि त्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मुञ्चा᳓मि त्वा हवि᳓षा जी᳓वनाय क᳓म्
अज्ञातयक्ष्मा᳓द् उत᳓ राजयक्ष्मा᳓त्
ग्रा᳓हिर् जग्रा᳓ह य᳓दि वैत᳓द् एनं
त᳓स्या इन्द्राग्नी प्र᳓ मुमुक्तम् एनम्

02 यदि क्षितायुर्यदि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓दि क्षिता᳓युर् य᳓दि वा प᳓रेतो
य᳓दि मृत्यो᳓र् अन्तिकं᳓ नी᳓त एव᳓
त᳓म् आ᳓ हरामि नि᳓रृतेर् उप᳓स्थाद्
अ᳓स्पार्षम् एनं शत᳓शारदाय

03 सहस्राक्षेण शतशारदेन - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सहस्राक्षे᳓ण शत᳓शारदेन
शता᳓युषा हवि᳓षा᳓हार्षम् एनम्
शतं᳓ य᳓थेमं᳓ शर᳓दो न᳓याति
इ᳓न्द्रो वि᳓श्वस्य दुरित᳓स्य पार᳓म्

04 शतं जीव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शतं᳓ जीव शर᳓दो व᳓र्धमानः
शतं᳓ हेमन्ता᳓ञ् छत᳓म् ऊ वसन्ता᳓न्
शत᳓म् इन्द्राग्नी᳓ सविता᳓ बृ᳓हस्प᳓तिः
शता᳓युषा हवि᳓षेम᳓म् पु᳓नर् दुः

05 आहार्षं त्वाविदम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓हार्षं त्वा᳓विदं तुवा
पु᳓नर् आ᳓गाः पुनर्नव
स᳓र्वाङ्ग स᳓र्वं ते च᳓क्षुः
स᳓र्वम् आ᳓युश् च ते ऽविदम्