१६१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘मुञ्चामि’ इति पञ्चर्चं दशमं सूक्तं प्रजापतिपुत्रस्य यक्ष्मनाशनाख्यस्यार्षम् । अन्त्यानुष्टुप् शिष्टास्त्रिष्टुभः । अनादेशे त्विन्द्र देवता । तथा चानुक्रान्तं– मुञ्चामि प्राजापत्यो यक्ष्मनाशनो राजयक्ष्मघ्नमन्त्यानुष्टुप् ’ इति । हृदयरोगप्रमुखस्य व्याधिजातस्योपशमनार्थमनेन सूक्तेन होतब्यम् । सूत्र्यते हि - व्याधितस्यातुरस्य यक्ष्मगृहीतस्य वा षळाहुतिश्चरुर्मुंञ्चामि त्वा हविषा जीवनाय कमित्येतेन’ (आश्व. गृ. ३. ६. ४-५) इति ॥

Jamison Brereton

161 (987)
Against Disease
Yakṣṃanāśana Prājāpatya
5 verses: triṣṭubh, except anuṣṭubh 5
With Atharvaveda parallels (AVŚ III.11.1–4, VIII.1.20; AVP I.62), this charm announces the restoration to life, indeed long life, of a man who has succumbed to some disease or other (vs. 1).

01 मुञ्चामि त्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मु॒ञ्चामि॑ त्वा ह॒विषा॒ जीव॑नाय॒ कम॑ज्ञातय॒क्ष्मादु॒त रा॑जय॒क्ष्मात् ।
ग्राहि॑र्ज॒ग्राह॒ यदि॑ वै॒तदे॑नं॒ तस्या॑ इन्द्राग्नी॒ प्र मु॑मुक्तमेनम् ॥

02 यदि क्षितायुर्यदि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यदि॑ क्षि॒तायु॒र्यदि॑ वा॒ परे॑तो॒ यदि॑ मृ॒त्योर॑न्ति॒कं नी॑त ए॒व ।
तमा ह॑रामि॒ निरृ॑तेरु॒पस्था॒दस्पा॑र्षमेनं श॒तशा॑रदाय ॥

03 सहस्राक्षेण शतशारदेन - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स॒ह॒स्रा॒क्षेण॑ श॒तशा॑रदेन श॒तायु॑षा ह॒विषाहा॑र्षमेनम् ।
श॒तं यथे॒मं श॒रदो॒ नया॒तीन्द्रो॒ विश्व॑स्य दुरि॒तस्य॑ पा॒रम् ॥

04 शतं जीव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

श॒तं जी॑व श॒रदो॒ वर्ध॑मानः श॒तं हे॑म॒न्ताञ्छ॒तमु॑ वस॒न्तान् ।
श॒तमि॑न्द्रा॒ग्नी स॑वि॒ता बृह॒स्पतिः॑ श॒तायु॑षा ह॒विषे॒मं पुन॑र्दुः ॥

05 आहार्षं त्वाविदम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आहा॑र्षं॒ त्वावि॑दं त्वा॒ पुन॒रागाः॑ पुनर्नव ।
सर्वा॑ङ्ग॒ सर्वं॑ ते॒ चक्षुः॒ सर्व॒मायु॑श्च तेऽविदम् ॥