१६०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ तीव्रस्य ’ इति पञ्चर्चं नवमं सूक्तं वैश्वामित्रस्य पूरणस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रान्तं ‘ तीव्रस्य पञ्च पूरणो वैश्वामित्रः’ इति । तीव्रसोमाख्य एकाह इदं निष्केवल्यनिविद्धानम् । सूत्रितं च – क्व स्य वीरस्तीव्रस्याभिवयस इति मध्यंदिनः ’ ( आश्व. श्रौ. ९, ७ ) इति । महाव्रतेऽपि माध्यंदिने सवने ब्रह्मशस्त्रेऽप्येतत्सूक्तम् । तथैव पञ्चमारण्यके सूत्रितं – तीव्रस्याभिवयसो अस्य पाहीति माध्यंदिने’ (ऐ. आ. ५, १. १ ) इति ।।

Jamison Brereton

160 (986)
Indra
Purāṇa Vāiśvāmitra
5 verses: triṣṭubh
A straightforward invitation to soma-drinking, also expressing the usual fear that Indra will attend another sacrifice (vs. 1) and the usual smug awareness that a non presser will be punished (vs. 4). According to the Anukramaṇī, the poet is a descen dant of the Viśvāmitras, and the last two words of the hymn, śunáṃ huvema “for blessing we would invoke” are the first two words of the Viśvāmitra clan refrain, found in most of the Viśvāmitra triṣṭubh Indra hymns (III.30.22, etc.).

01 तीव्रस्याभिवयसो अस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तीव्र᳓स्याभि᳓वयसो अस्य᳓ पाहि
सर्वरथा᳓ वि᳓ ह᳓री इह᳓ मुञ्च
इ᳓न्द्र मा᳓ त्वा य᳓जमानासो अन्ये᳓
नि᳓ रीरमन् तु᳓भ्यम् इमे᳓ सुता᳓सः

02 तुभ्यं सुतास्तुभ्यमु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तु᳓भ्यं सुता᳓स् तु᳓भ्यम् उ सो᳓तुवासस्
तुवां᳓ गि᳓रः श्वा᳓त्रिया आ᳓ ह्वयन्ति
इ᳓न्द्रेद᳓म् अद्य᳓ स᳓वनं जुषाणो᳓
वि᳓श्वस्य विद्वाँ᳓ इह᳓ पाहि सो᳓मम्

03 य उशता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓ उशता᳓ म᳓नसा सो᳓मम् अस्मै
सर्वहृदा᳓ देव᳓कामः सुनो᳓ति
न᳓ गा᳓ इ᳓न्द्रस् त᳓स्य प᳓रा ददाति
प्रशस्त᳓म् इ᳓च् चा᳓रुम् अस्मै कृणोति

04 अनुस्पष्थो भवत्येषो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓नुस्पष्टो भवति एषो᳓ अस्य
यो᳓ अस्मै रेवा᳓न् न᳓ सुनो᳓ति सो᳓मम्
नि᳓र् अरत्नउ᳓ मघ᳓वा तं᳓ दधाति
ब्रह्मद्वि᳓षो हन्ति अ᳓नानुदिष्टः

05 अश्वायन्तो गव्यन्तो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अश्वाय᳓न्तो गव्य᳓न्तो वाज᳓यन्तो
ह᳓वामहे त्वा उ᳓पगन्तवा᳓ उ
आभू᳓षन्तस् ते सुमतउ᳓ न᳓वायां
वय᳓म् इन्द्र त्वा शुनं᳓ हुवेम