१५९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ उदसौ ’ इति षडृचमष्टमं सूक्तमानुष्टुभम् । पुलोमतनया शची स्वात्मानमनेनास्तौत्। अतः सैवर्षिः सैव देवता । तथा चानुक्रान्तम् –’ उदसौ षट् पौलोमी शच्यात्मानं तुष्टावानुष्टुभम् ’ इति । विनियोगो लिङ्गादवगन्तव्यः । आपस्तम्बस्तु सपत्नीनाशने सूर्योपस्थान इदं सूक्तं विनियुक्तवान् । सूत्र्यते हि–’ एतेनैव कामेनोत्तरेणानुवाकेन सदादित्यमुपतिष्ठते ’ ( आप. गृ. ९.२) इति । अत्र एतेन इति प्रकृतं सपत्नीबाधनं परामृश्यते ।।

Jamison Brereton

159 (985)
Against Cowives
Śacī Paulomī
6 verses: anuṣṭubh
Like X.145 this hymn is in the voice of a woman, speaking in the 1st person, against her cowives. But, whereas in X.145 she was in the act of performing the spell with which she hoped to vanquish her cowife, in this hymn her triumph is complete. She recites a victory paean, in the appropriate high rhetorical style—albeit with some dips into the vernacular, such as the diminutivized derivative of the personal pro
noun in verse 1, māmaká “li’l ole me.” It is worth noting that in verse 3 she extends her triumph to her sons and her daughter; as the early parts of the Rāmāyaṇa teach us, one of the most important reasons that cowives plot against each other is to secure preferment for their children.

01 उदसौ सूर्यो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓द् असउ᳓ सू᳓रियो अगाद्
उ᳓द् अय᳓म् मामको᳓ भ᳓गः
अहं᳓ त᳓द् विद्वला᳓ प᳓तिम्
अभ्य् अ᳡साक्षि विषासहिः᳓

02 अहं केतुरहम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अहं᳓ केतु᳓र् अह᳓म् मूर्धा᳓
अह᳓म् उग्रा᳓ विवा᳓चनी
म᳓मे᳓द् अ᳓नु क्र᳓तुम् प᳓तिः
सेहाना᳓या उपा᳓चरेत्

03 मम पुत्राः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

म᳓म पुत्राः᳓ शत्रुह᳓णो
अ᳓थो मे दुहिता᳓ विरा᳓ट्
उता᳓ह᳓म् अस्मि संजया᳓
प᳓त्यौ मे श्लो᳓क उत्तमः᳓

04 येनेन्द्रो हविषा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ये᳓ने᳓न्द्रो हवि᳓षा कृत्वी᳓
अ᳓भवद् द्युम्नी᳓ उत्तमः᳓
इदं᳓ त᳓द् अक्रि देवा
असपत्ना᳓ कि᳓लाभुवम्

05 असपत्ना सपत्नघ्नी - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

असपत्ना᳓ सपत्नघ्नी᳓
ज᳓यन्ति अभिभू᳓वरी
आ᳓वृक्षम् अन्या᳓सां व᳓र्चो
रा᳓धो अ᳓स्थेयसाम् इव

06 समजैषमिमा अहम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓म् अजैषम् इमा᳓ अहं᳓
सप᳓त्नीर् अभिभू᳓वरी
य᳓थाह᳓म् अस्य᳓ वीर᳓स्य
विरा᳓जानि ज᳓नस्य च