१५६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ अग्निं हिन्वन्तु नः’ इति पञ्चर्चं पञ्चमं सूक्तमग्निपुत्रस्य केतुनाम्न आर्षं गायत्रमाग्नेयम् । तथा चानुक्रान्तम्- अग्नि केतुराग्नेय आग्नेयं गायत्रम्’ इति । प्रातरनुवाकाश्विनशस्त्रयोर्गायत्रे छन्दसीदं शस्यम् । सूत्रितं च—‘अग्निं हिन्वन्तु नः प्राग्नये वाचमिति सूक्ते’ (आश्व. श्रौ. ४.१३) इति ॥

Jamison Brereton

156 (982)
Agni
Ketu Āgneya
5 verses: gāyatrī
The ritual setting for this hymn is given in verses 4–5: the kindling of fire at sunrise. The first three verses express the hope that this kindling of the fire will bring goods to the ritual participants, an oblique reference to the distribution of the priestly gifts at the Morning Pressing. This blatant desire for reward is somewhat camou
flaged by couching it in terms of contests (vs. 1), cattle raids (vs. 2), and chariot racing (vs. 3).

01 अग्निं हिन्वन्तु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निं᳓ हिन्वन्तु नो धि᳓यः
स᳓प्तिम् आशु᳓म् इवाजि᳓षु
ते᳓न जेष्म ध᳓नं-धनम्

02 यया गा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓या गा᳓ आक᳓रामहे
से᳓नयाग्ने त᳓वोतिया᳓
तां᳓ नो हिन्व मघ᳓त्तये

03 आग्ने स्थूरम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ग्ने स्थूरं᳓ रयि᳓म् भर
पृथुं᳓ गो᳓मन्तम् अश्वि᳓नम्
अङ्धि᳓ खं᳓ वर्त᳓या पणि᳓म्

04 अग्ने नक्षत्रमजरमा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ग्ने न᳓क्षत्रम् अज᳓रम्
आ᳓ सू᳓र्यं रोहयो दिवि᳓
द᳓धज् ज्यो᳓तिर् ज᳓नेभियः

05 अग्ने केतुर्विशामसि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ग्ने केतु᳓र् विशा᳓म् असि
प्रे᳓ष्ठः श्रे᳓ष्ठ उपस्थस᳓त्
बो᳓धा स्तोत्रे᳓ व᳓यो द᳓धत्