१५४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

सोमः ’ इति पञ्चर्चं तृतीयं सूक्तमानुष्टुभम् । विवस्वतो दुहिता यम्यृषिः । म्रियमाणानां यजमानादीनां वर्तनमत्र प्रतिपाद्यते । अतस्तद्देवताकमिदम् । तथा चानुक्रान्तं – सोमो यमी भाववृत्तमानुष्टुभं तु ’ इति । प्रेतोपस्थान एतत्सूक्तम् । सूत्रितं च - ‘ सोम एकेभ्य उरूणसावसुतृपा उदुम्बलौ ’ ( आश्व. श्रौ. ६. १०) इति ॥

Jamison Brereton

154 (980)
To a Dead Man
Yamī
5 verses: anuṣṭubh
This hymn has a parallel in the Atharvaveda (XVIIII.2.14–18), where it is found among the funeral verses, and in the ritual sūtras it is used at the burning of the corpse. Each verse describes the character and habits of the distinguished fore fathers now resident in the other world, and ends with a refrain urging the dead man to go and join them there.

01 सोम एकेभ्यः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सोम॒ एके॑भ्यः पवते घृ॒तमेक॒ उपा॑सते ।
येभ्यो॒ मधु॑ प्र॒धाव॑ति॒ ताँश्चि॑दे॒वापि॑ गच्छतात् ॥

02 तपसा ये - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तप॑सा॒ ये अ॑नाधृ॒ष्यास्तप॑सा॒ ये स्व॑र्य॒युः ।
तपो॒ ये च॑क्रि॒रे मह॒स्ताँश्चि॑दे॒वापि॑ गच्छतात् ॥

03 ये युध्यन्ते - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ये युध्य॑न्ते प्र॒धने॑षु॒ शूरा॑सो॒ ये त॑नू॒त्यजः॑ ।
ये वा॑ स॒हस्र॑दक्षिणा॒स्ताँश्चि॑दे॒वापि॑ गच्छतात् ॥

04 ये चित्पूर्व - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ये चि॒त्पूर्व॑ ऋत॒साप॑ ऋ॒तावा॑न ऋता॒वृधः॑ ।
पि॒तॄन्तप॑स्वतो यम॒ ताँश्चि॑दे॒वापि॑ गच्छतात् ॥

05 सहस्रणीथाः कवयो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स॒हस्र॑णीथाः क॒वयो॒ ये गो॑पा॒यन्ति॒ सूर्य॑म् ।
ऋषी॒न्तप॑स्वतो यम तपो॒जाँ अपि॑ गच्छतात् ॥