१५३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ईङ्खयन्तीः’ इति पञ्चर्चं गायत्रमैन्द्रं द्वितीयं सूक्तम् । देवानां स्वसृभूता इन्द्रमातरो नामर्षिकाः । तथा चानुक्रान्तम्— ईङ्खयन्तीर्देवजामय इन्द्रमातरो गायत्रम्’ इति । द्वितीये पर्याये प्रशास्तुः शस्त्र इदं सूक्तम् । सूत्रितं च – ईङ्खयन्तीरहं दां पाता सुतम्’ (आश्व. श्रौ. ६. ४) इति (सूत्रितं च – ईंखयंतीरपस्युव इति ब्राह्मणाच्छंस्यावपेत (ऐ. आ. ५. १. १) इति पाठभेदः)। महाव्रतेऽपि प्रातः सवनिके ब्रह्मशस्त्र एतत्सूक्तम् ॥

Jamison Brereton

153 (979)
Indra
Devajāmaya Indramātaraḥ
5 verses: gāyatrī
The first verse of this hymn presents a tender image of unidentified females rocking the baby Indra, and verse 2 continues with a more conventional treatment of his birth. But the birth motif disappears (except for an attenuated version in vs. 5c): the hymn then continues with standard praise of his powers—the word ójas “might” is positioned prominently in four of the five verses (2–5).

01 ईङ्खयन्तीरपस्युव इन्द्रम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ईङ्ख᳓यन्तीर् अपस्यु᳓व
इ᳓न्द्रं जात᳓म् उ᳓पासते
भेजाना᳓सः सुवी᳓रियम्

02 त्वमिन्द्र बलादधि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तुव᳓म् इन्द्र ब᳓लाद् अ᳓धि
स᳓हसो जात᳓ ओ᳓जसः
तुवं᳓ वृषन् वृ᳓षे᳓द् असि

03 त्वमिन्द्रासि वृत्रहा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तुव᳓म् इन्द्रासि वृत्रहा᳓
वि᳓ अन्त᳓रिक्षम् अतिरः
उ᳓द् द्या᳓म् अस्तभ्ना ओ᳓जसा

04 त्वमिन्द्र सजोषसमर्कम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तुव᳓म् इन्द्र सजो᳓षसम्
अर्क᳓म् बिभर्षि बाहुवोः᳓
व᳓ज्रं शि᳓शान ओ᳓जसा

05 त्वमिन्द्राभिभूरसि विश्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तुव᳓म् इन्द्राभिभू᳓र् असि
वि᳓श्वा जाता᳓नि ओ᳓जसा
स᳓ वि᳓श्वा भु᳓व आ᳓भवः