१५२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

द्वादशेऽनुवाके चत्वारिंशत्सूक्तानि । तत्र ‘ शासः इत्था ’ इति पञ्चर्चं प्रथमं सूक्तं भरद्वाजपुत्रस्य शासनाम्न आर्षमानुष्टुभमैन्द्रम् । अनुक्रान्तं च – शासः शासो भारद्वाजः । इति । युद्धाय संनद्धं राजानमनेनेक्षेत्! तथा च सूत्रितम् - ’ अथैनमन्वीक्षेताप्रतिरथशाससौपर्णैः ( आश्व. गृ. ३. १२. १३ ) इति ।

Jamison Brereton

152 (978)
Indra
Śāsa Bhāradvāja
5 verses: anuṣṭubh
The martial Indra, the “commander,” is called upon here to destroy our various enemies. A surprising amount of attention is given to “the scornful” (vss. 2–4). Although verbal abuse may not seem to modern mentalities to pose the same sort of threat as more physical assaults, the ancient Indian belief in the power of speech to inflict real harm is on view here. At issue may also be ritualized exchanges of insults before battle.

01 शास इत्था - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शा॒स इ॒त्था म॒हाँ अ॑स्यमित्रखा॒दो अद्भु॑तः ।
न यस्य॑ ह॒न्यते॒ सखा॒ न जीय॑ते॒ कदा॑ च॒न ॥

02 स्वस्तिदा विशस्पतिवृड़्त्रहा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स्व॒स्ति॒दा वि॒शस्पति॑र्वृत्र॒हा वि॑मृ॒धो व॒शी ।
वृषेन्द्रः॑ पु॒र ए॑तु नः सोम॒पा अ॑भयङ्क॒रः ॥

03 वि रक्षो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि रक्षो॒ वि मृधो॑ जहि॒ वि वृ॒त्रस्य॒ हनू॑ रुज ।
वि म॒न्युमि॑न्द्र वृत्रहन्न॒मित्र॑स्याभि॒दास॑तः ॥

04 वि न - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि न॑ इन्द्र॒ मृधो॑ जहि
नी॒चा य॑च्छ पृतन्य॒तः ।
यो अ॒स्माँ अ॑भि॒दास॒त्य्
अध॑रं गमया॒ तमः॑ ॥

05 अपेन्द्र द्विषतो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अपे॑न्द्र द्विष॒तो मनोऽप॒ जिज्या॑सतो व॒धम् ।
वि म॒न्योः शर्म॑ यच्छ॒ वरी॑यो यवया व॒धम् ॥