१४९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ सविता यन्त्रैः ’ इति पञ्चर्चमेकविंशं सूक्तं हिरण्यस्तूपपुत्रस्यार्चत आर्षं त्रैष्टुभं सवितृदेवत्यम्। अनुक्रान्तं च – ‘सवितार्चन हैरण्यस्तूपः सावित्रम् ’ इति । गतो विनियोगः ॥

Jamison Brereton

149 (975)
Savitar
Arcat Hairaṇyastūpa
5 verses: triṣṭubh
The poet of this hymn is identified by the Anukramaṇī as a descendant of Hiraṇyastūpa, and in the last verse (6) the poet compares his own invocation of Savitar with that of Hiraṇyastūpa Āṅgirasa, who, in fact, appears in the Anukramaṇī as the author of I.31–35 and IX.4 and 6—with I.35 also a hymn to Savitar. Thus this hymn may be making a cross reference to another hymn in the samḥitā. Although there are no blatant links between the two hymns, both are concerned with the divisions of the cosmos and Savitar’s relationship to them. In this hymn especially Savitar’s cosmogonic role is highlighted.

01 सविता यन्त्रैः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स॒वि॒ता य॒न्त्रैः पृ॑थि॒वीम् अ॑रम्णाद्
अस्कम्भ॒ने स॑वि॒ता द्याम् अ॑दृंहत्
अश्व॑म् इव +अधुक्ष॒द् धुनि॑म् अ॒न्तरि॑क्षम्,
अ॒तूर्ते॑(←तूर् हिंसायां) ब॒द्धं स॑वि॒ता स॑मु॒द्रम् ॥

02 यत्रा समुद्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यत्रा॑ समु॒द्रः स्क॑भि॒तो व्यौन॒दपां॑ नपात्सवि॒ता तस्य॑ वेद ।
अतो॒ भूरत॑ आ॒ उत्थि॑तं॒ रजोऽतो॒ द्यावा॑पृथि॒वी अ॑प्रथेताम् ॥

03 पश्चेदमन्यदभवद्यजत्रममर्त्यस्य भुवनस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प॒श्चेदम॒न्यद॑भव॒द्यज॑त्र॒मम॑र्त्यस्य॒ भुव॑नस्य भू॒ना ।
सु॒प॒र्णो अ॒ङ्ग स॑वि॒तुर्ग॒रुत्मा॒न्पूर्वो॑ जा॒तः स उ॑ अ॒स्यानु॒ धर्म॑ ॥

04 गाव इव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

गाव॑ इव॒ ग्रामं॒ यूयु॑धिरि॒वाश्वा॑न्वा॒श्रेव॑ व॒त्सं सु॒मना॒ दुहा॑ना ।
पति॑रिव जा॒याम॒भि नो॒ न्ये॑तु ध॒र्ता दि॒वः स॑वि॒ता वि॒श्ववा॑रः ॥

05 हिरण्यस्तूपः सवितर्यथा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

हिर॑ण्यस्तूपः सवित॒र्यथा॑ त्वाङ्गिर॒सो जु॒ह्वे वाजे॑ अ॒स्मिन् ।
ए॒वा त्वार्च॒न्नव॑से॒ वन्द॑मानः॒ सोम॑स्येवां॒शुं प्रति॑ जागरा॒हम् ॥