१४८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘सुष्वाणासः’ इति पञ्चर्चं विंशं सूक्तं वेनपुत्रस्य पृथोरार्षं त्रैष्टुभमैन्द्रम् । अनुक्रान्तं च– ‘ सुष्वाणासः पृथुर्वैन्यः’ इति । गतो विनियोगः ॥

Jamison Brereton

148 (974)
Indra
Prthu Vainya ̥
5 verses: triṣṭubh
This hymn offers some tricky bits of syntax and phraseology in what is otherwise a standard praise of Indra and request for his aid. The poet seems especially aware that Indra bestows his aid on those whom he likes (see esp. vss. 1c, 3b, 4c) and so emphasizes men’s need to offer abundant praise and oblations with a cheerful spirit.

01 सुष्वाणास इन्द्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सुष्वाणा᳓स इन्दर+ स्तुम᳓सि त्वा
ससवां᳓सश् च तुविनृम्ण वा᳓जम्
आ᳓ नो भर सुवितं᳓ य᳓स्य चाक᳓न्
त्म᳓ना त᳓ना सनुयाम तुवो᳓ताः

02 ऋष्वस्त्वमिन्द्र शूर - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋष्व᳓स् तुव᳓म् इन्दर+ शूर जातो᳓
दा᳓सीर् वि᳓शः · सू᳓रियेण सह्याः
गु᳓हा हितं᳓ गु᳓हियं गूळ्ह᳓म् अप्सु᳓
बिभृम᳓सि प्रस्र᳓वणे न᳓ सो᳓मम्

03 अर्यो वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अर्यो᳓ वा गि᳓रो अभि᳓ अर्च विद्वा᳓न्
ऋ᳓षीणां वि᳓प्रः सुमतिं᳓ चकानः᳓
ते᳓ सियाम ये᳓ रण᳓यन्त सो᳓मैर्
एना᳓ उत᳓ तु᳓भ्य° रथोळ्ह भक्षइः᳓

04 इमा ब्रह्मेन्द्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इमा᳓ ब्र᳓ह्म इन्दर+ तु᳓भ्य° शंसि
दा᳐᳓ नृ᳓भ्यो नॄणां᳐᳓+ शूर श᳓वः
ते᳓भिर् भव स᳓क्रतुर् ये᳓षु चाक᳓न्न्
उत᳓ त्रायस्व गृणत᳓ उत᳓ स्ती᳓न्

05 श्रुधी हवमिन्द्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

श्रुधी᳓ ह᳓वम् इन्दर+ शूर पृ᳓थ्या
उत᳓ स्तवसे वेनिय᳓स्य अर्कइः᳓
आ᳓ य᳓स् ते यो᳓निं घृत᳓वन्तम् अ᳓स्वार्
ऊर्मि᳓र् न᳓ नि᳓म्नइ᳓र् द्रवयन्त व᳓क्वाः